संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| द्वितलमानपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - द्वितलमानपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत द्वितलमानपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम् ।प्रासादमूलवत्कार्यं विस्तारोच्चं तु निर्गमम् ॥१॥विन्याससूत्रयोरन्तर्व्यासं सप्तर्तु वा भजेत् ।एकांशं कूटविस्तारं कोष्ठं तद्द्विगुणा यतम् ॥२॥कूटव्याससमं कोष्ठं विस्तारे द्विजसत्तम ! ।शेषं हारान्तरं कोष्ठं पार्श्वयोस्तु सपंजरम् ॥३॥हारान्तरमशेषं वा त्रिपादं वार्धमेव वा ।पंजरव्यासमाख्यातं कूटबाह्यसमोगतिम् ॥४॥कूटात्किंचित् प्रवेशं वा मानसूत्रान्तनीव्रताः ।पंजरं कर्णकूटाभं नासिकाकार एव वा ॥५॥शालाकारं तु वा विप्र ! हस्तितुण्डाभमेव वा ।प्रासादोच्चं तु विभजेदष्टाविंशति संख्यया ॥६॥गुणांशं धरातलोत्सेधं रसांशं चरणोदयम् ।प्रस्तरोत्सेधमग्न्यंशं भूतांशं चरणोदयम् ॥७॥द्विभागं प्रस्तरोत्सेधं एकांशं वेदिकोदयम् ।द्विभागं गलमानं तु सार्धवेदांशशीर्षकम् ॥८॥स्तूप्युच्चं सार्धभागं तु कल्पितं शान्तिकं भवेत् ।चतुस्त्रिंशति भागं तु कृत्वा तु सदनोदयम् ॥९॥सार्धाग्न्यंशमधिष्ठानं तद्द्वयं चरणोदयम् ।प्रस्तरोच्चं गुणांशं स्यात् तलिपं सार्धषड्भवेत् ॥१०॥गुणांशं मंचमानं तु व्योमांशं वेदिकोदयम् ।सार्धद्व्यंशं गलोत्सेधं भूतांशं शिखरोदयम् ॥११॥अध्यर्धांशं शिखामानं पौष्टिकं सदनं भवेत् ।तदेव गलमानं तु सार्धद्व्यंशेन कल्पयेत् ॥१२॥शेषं पूर्ववदेवं तु त्रयस्त्रिंशोदये कृते ।जयदं सदनं ह्येतत् सर्वदेव प्रियावहम् ॥१३॥षट्त्रिंशद्विभजेदहर्म्यतुंगं धारातलं युगम् ।वस्वंशपादमानं तु सार्धाग्न्यंशं तु प्रस्तरम् ॥१४॥सप्तांशं चरणोच्चं तु गुणांशं मंचमानकम् ।एकांशं वेदिकोच्चं तु गुणांशं तु गलोदयम् ॥१५॥भूतांशं शिखरोच्चं तु स्तूप्युच्चं सार्धभागया ।अद्भूतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः ॥१६॥चत्वारिंशति भागं तु कर्तव्यं सदनोदयम् ।अधिष्ठानोच्चं तु वेदांशं स्तंभं तद्द्विगुणायतम् ॥१७॥युगांशं मंचमानं तु तलिपं सार्धसप्तकम् ।त्रिभागं प्रस्तरोत्सेधं द्विभागं वेदिकोदयम् ॥१८॥त्रिभागं ग्रीवमानं तु शिखरं सप्तभागया ।शेषं शिखोदयं विद्याद्विमानं सर्वकामिकम् ॥१९॥होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत् ।चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ॥२०॥षडष्टैवाल्पनास्यास्युः पादं प्रति तु कल्पयेत् ।शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् ॥२१॥कल्पितं वेदिकाद्यैस्तु नानाचित्रैर्विचित्रितम् ।एवं स्वस्तिकमाख्यातं सर्वदेव प्रियावहम् ॥२२॥तदेव शिखरकोणेषु पार्श्वयोस्त्वल्पनासिका ।स्वस्तिभद्रमितं ख्यातं मम प्रीतिकरं भवेत् ॥२३॥तदेव नतकूटं च कोष्ठोन्नतास्समंचकाः ।नतपंजरसंयुक्तं एतद्विपुलसुन्दरम् ॥२४॥तदेवान्तरमंचाढ्यौ कूटकोष्ठौ विशेषतः ।नतपंजरसंयुक्तं यथेष्टाकृति शीर्षकम् ॥२५॥स्तूपीघटं गलं तद्वद् श्रीकरं तदुदाहृतम् ।तदेव नवशालाः स्युः कूटोन्नतसमंचकाः ॥२६॥निम्नपंजर संयुक्तं यत्तत्कैलासमुच्यते ।तदेव कूटकोष्ठौ द्वौ निम्नोन्नतविहीनकौ ॥२७॥सान्तरप्रस्तरोपेतौ समसूत्रततोन्नतौ ।हारान्तरे विशेषेण युग्मं वा युग्मपंजरम् ॥२८॥चतुष्कूटं चतुश्शाला षडष्टैवाल्पनासिकाः ।वस्वश्रवेदिकोपेतं वर्तुलं शीर्षकं गलम् ॥२९॥शिखरं वसुनासाढ्यं भद्रं चैव चतुश्चतुः ।वेदिका तोरणाढ्यं तु रुद्रकान्तमिदं परम् ॥३०॥तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् ।विष्णुकान्तमिदं नाम्ना सर्वदेवार्हकं भवेत् ॥३१॥तदेव वर्तुलं वेदीकन्धरं शिखरं तथा ।चतुश्शालाष्टकूटाढ्यं सप्ताष्टैवाल्पनासिकाः ॥३२॥एतत्पर्वतमित्युक्तं विमानं संपदास्पदम् ।कूटात्कोष्ठस्य निष्क्रान्तं दण्डं वाध्यर्धदण्डकम् ॥३३॥द्विदण्डं वा त्रिदण्डं वा कूटकोष्ठस्य निर्गतिः ।नानाधिष्ठानसंयुक्तं नानास्तंभसमन्वितम् ॥३४॥प्रागुक्तानां तु सर्वेषां कल्पितं वा विहीनकम् ।तदेव शिखरोच्चार्ध कोष्ठकं तु चतुष्टयम् ॥३५॥चतुरश्रशिरोपेतं चतुष्कूटसमन्वितम् ।षडष्टनासिकोपेतं स्वस्तिबन्धमिदं स्मृतम् ॥३६॥कूटकोष्ठौ द्वौ चतुश्चान्तरप्रस्तरान्वितौ ।हारापंजरसंयुक्ता नवाष्टैवाल्पनासिकाः ॥३७॥सर्वालंकारसंयुक्तं तत्तत्कल्याणसुन्दरम् ।तदेव शिखरे चार्धकोष्ठकं तु विवर्जयेत् ॥३८॥चत्वारनासिकोपेतं शिखरं परिकल्पयेत् ।नानालंकारसंयुक्तं एतत्पांचालमिष्यते ॥३९॥तदेवाष्टाश्र वेदी च कन्धरं शिखरं घटम् ।शिखरेऽष्टौ महानासी युक्तं वै विष्णुकान्तकम् ॥४०॥सान्तरे प्रस्तरोपेतं कूटकोष्ठाश्चतुश्चतुः ।पंजराष्टकसंयुक्तं वृत्तशीर्षककन्धरम् ॥४१॥दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ।कर्णकूटात्तु कोष्ठादिनिष्क्रान्तं परिकल्पयेत् ॥४२॥षडष्टाल्पनासिकोपेतं चत्वारि पङ्क्तिरेव वा ।एतदीश्वरकान्तं स्यात् ईश्वरस्य प्रियावहम् ॥४३॥तदेव त्रिचतुर्भागभागाधिक्यायताश्रकम् ।तथा शीर्षककण्ठं च वेदिकां च प्रकल्पयेत् ॥४४॥स्तूपि त्रयसमायुक्तं एतन्मंगलमुच्यते ।तदेवायतवृत्ताभं गान्धारमिति विद्यते ॥४५॥तारादर्धाधिकायामं आयताश्रं समाश्रं वा ।द्व्यश्रवृत्तं शिरोयुक्तं वेदिका च गलं तथा ॥४६॥नेत्रशालामुखाकारं हस्तिपृष्ठमिदं परम् ।द्व्यश्रवृत्तमुपानादि कल्पितं वा तदेव हि ॥४७॥समाश्रमायताश्रं वा बाह्यतः परिकल्पयेत् ।वृत्तगर्भगृहोपेतां कूटकोष्ठादिसंयुतम् ॥४८॥वृत्ताभं कर्णकूटानां श्रीकरं परिकल्पयेत् ।कूटकोष्ठं च नीडं च समसूत्रे तु कल्पयेत् ॥४९॥नाम्ना मनोहरं हर्म्यं सर्वदेवार्हकं परम् ।उपानात्स्तूपि पर्यन्तं वृत्तं चैव बहिर्बहिः ॥५०॥शेषं प्रागिवमुद्दिष्टं शिवकान्तमिदं परम् ।चतुरश्रमधिष्ठानं गर्भगेहं तथैव च ॥५१॥अधिष्ठानोपरिष्ठात्तु स्तूप्यन्तं वर्तुलाकृतिः ।कूटकोष्ठादि सर्वांगं युक्तं वृत्तग्रहं भवेत् ॥५२॥चतुरश्रमधिष्ठानं आयताश्रमथापि वा ।रसाश्रं शिखरं कण्ठं कूटकोष्ठादि संयुतम् ॥५३॥यथोचितं तु संकल्प्य नाम्ना कौबेर कान्तकम् ।एवं तु द्वितलं योग्यं भेदा अष्टादश स्मृताः ॥५४॥इष्टकाभिश्शिलाभिर्वा होमादिस्तूपिकान्तकम् ।कल्पितं संचितं हर्म्यं पुमानेव घनीकृतम् ॥५५॥दृषत्रदेष्टकामिश्च मिश्रहर्म्यं तदेव हि ।मिश्रेष्वादौदृषत्कार्यं तदूर्ध्वे त्विष्टका क्रिया ॥५६॥वनिता संचिता ख्याता घनाघनमिति स्मृतम् ।इष्टकादारुणा चैव तन्मिश्रं षण्डमुच्यते ॥५७॥तदेवोपसंचितं ख्यातं घनाघनमुदाहृतम् ।अंशेन रहितं कार्यं संचितं स्मृति विद्यते ॥५८॥अघनं चेति तत्ख्यातं एतत्पुंषण्डयोषितः ।वक्त्रमण्टपमानं च गर्भगेहविशालकम् ॥५९॥भित्तिव्यासं च ते सर्वे प्राग्वदेकतलोक्तवत् ।द्वारस्योभय पार्श्वे तु पादयोरन्तरे द्विज ! ॥६०॥द्वारपालगुहां कुर्यात् तलादुत्तरसीमकम् ।बिम्बोदित विशालं तु दण्डमात्रं तु वेशरम् ॥६१॥सर्वधाम्नि च कर्तव्यं वेशनारहितं तु वा ।एवं द्वितलमाख्यातं त्रितलं तु तथा विदुः ॥६२॥इत्यंशुमान्काश्यपे द्वितलमानपटलः (सप्ताविंशः) ॥२७॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP