संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
त्रितलविधानपटलः

अंशुमत्काश्यपागमः - त्रितलविधानपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण त्रितलं शृणु सुव्रत !॥
तस्य विस्तारतुंगं च पुरोक्तं हर्म्यमानवत् ॥१॥

विन्याससूत्रयोरन्तः तदष्टांशविभाजिते॥
एकांशं कूटविस्तारं विशालायामं तु तद्द्वयम् ॥२॥

समं त्रिपादमर्धं वा पंजरव्यासमुच्यते॥
शेषं हारान्तरं ख्यातं निष्क्रान्तादीनि पूर्ववत् ॥३॥

ऊर्ध्वभूमौ रसांशेंशं कूटव्यासमुदाहृतम्॥
शालायामद्विभागं तु शेषं हारान्तरं भवेत् ॥४॥

हारान्तरसमं वार्धत्रिपादं वाऽथ पंजरम्॥
ऊर्ध्वभूमिकभागैक मध्ये भद्रं विधीयते ॥५॥

दण्डं सार्धद्विदण्डं वा मध्यभद्रस्य नीव्रकम्॥
प्रासादस्योच्छ्रयं भानुद्विगुणांशं विभाजिते ॥६॥

द्विभागं धरातलोच्चं वै वेदांशं चरणोदयम्॥
मंचमानं द्विभागेन पादोन चतुरंशकैः ॥७॥

पादायामं च सार्धांशं प्रस्तरोच्चमुदाहृतम्॥
सार्धत्रिभागं पादोच्चं सपादांशं तु मंचकम् ॥८॥

अर्धांशं वेदिका मानं गलमानं शिवांशकम्॥
सार्धत्र्यंशं तु शिखरं स्तूप्युच्चं त्वेकभागया ॥९॥

एवं हि कल्पितं गेहं शान्तिकं त्विति विद्यते॥
चतुर्विंशद्विमानोच्चेतलोच्चं तु द्विभागया ॥१०॥

वेदांशं चरणायामं पक्षांशं मंच मानकम्॥
पादोन चतुरंशं तु तलीवोदयमिष्यते ॥११॥

सार्धांशं प्रस्तरोत्सेधं सार्धत्र्यंशांघ्रिणोदयम्॥
अध्यर्धांशं तु मंचोच्चं अर्धांशं वेदिकोदयम् ॥१२॥

शिवांशं ग्रीवमानं तु गुणांशं शिखरोदयम्॥
सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् ॥१३॥

सप्तविंशति भागं तु कृत्वा तु सदनोदयम्॥
द्विभागं धरातलोत्सेधं युगांशं चरणोदयम् ॥१४॥

मंचमानं द्विभागेन वेदांशं चरणोदयम्॥
पादोनद्व्यंशमंचाश्च तलीपोच्चं तु तद्द्वयम् ॥१५॥

सार्धांशं प्रस्तरोत्सेधं एकांशं वेदिकोदयम्॥
द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् ॥१६॥

शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम्॥
चत्वारिंशद्द्वयाधिक्यभागं कृत्वा गृहोच्चकम् ॥१७॥

अधिष्ठानं त्रिभागार्धं सप्तांशं चरणोदयम्॥
तलोच्च सदृशं मंचतलिपं सार्धषट्ककम् ॥१८॥

गुणांशं प्रस्तरोत्सेधं ऊर्ध्वपादं षडंशकम्॥
सार्धद्व्यंशं तु मंचोच्चं एकांशं वेदिकोदयम् ॥१९॥

गलमानं द्विभागं स्यात् भूतांशं शिखरोदयम्॥
द्विभागं स्तूपि तुंगं तु प्रोक्तमद्भुतहर्म्यके ॥२०॥

प्रासादस्योच्चतुंगं तु षडष्टांशैर्विभाजिते॥
अधिष्ठानं युगांशं तु वस्वंशं चरणोदयम् ॥२१॥

मंचमानं तु वेदांशं तलिपं सार्धसप्तकम्॥
सार्धत्रिभागमंचोच्चं सप्तांशं चरणोदयम् ॥२२॥

प्रस्तरोच्चं गुणांशं तु शिवांशं वेदिकोदयम्॥
गलमानं द्विभागं स्यात् रसांशं शिखरं भवेत् ॥२३॥

द्विभागं तु शिखामानं एवं स्यात्सार्वकामिकम्॥
अष्टकूटाष्टशालाभं कलापंजरसंयुतम् ॥२४॥

षण्णवत्यल्पनास्याढ्यं जन्मादग्रं युगाश्रकम्॥
नानाधिष्ठान संयुक्तं नानापादैरलं कृतम् ॥२५॥

शिखरे भानुनास्याढ्यं महाल्पं चतुरष्टकम्॥
कूटकोष्ठोभतादीनि नागराद्युचितं भवेत् ॥२६॥

स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज !॥
चतुर्महानासिकोपेतं अल्पाष्टकविवर्जितम् ॥२७॥

स्वस्तिभद्रमिदं ख्यातं सर्वदेव प्रियावहम्॥
तदेव वृत्तशिखरं गलं वै वेदिका तथा ॥२८॥

रुद्रकान्तमिदं नाम्ना मम प्रीतिकरं भवेत्॥
तदेव शीर्षकोणेषु अल्पनासीद्वयं भवेत् ॥२९॥

कल्पितं शिवकान्तं स्यात् शिवप्रियकरं गृहम्॥
तदेव वेदिकाकण्ठं शीर्षकं च घटं तथा ॥३०॥

वस्वश्रं कल्पितं यत्तद् विष्णुकान्तमिदं परम्॥
विन्याससूत्रयोरन्तः नवभाग विभाजिते ॥३१॥

एकांशं कूटविस्तारं द्विभागं कोष्ठदीर्घकम्॥
कोष्ठं प्रति द्विकोष्ठं स्यात् अर्धांशं पंजरस्ततम् ॥३२॥

शेषं हारान्तरं ख्यातं कल्पयेत् कल्पवित्तमः॥
चतुष्कूटाष्टशाला च भानुपंजरसंयुतम् ॥३३॥

हारान्तरं चतुर्विंशत् आदिभूमेवमाचरेत्॥
सप्तांशं विभजेद्भागं एकांशं कूटविस्तरम् ॥३४॥

कोष्ठायतं द्विभागं स्यात् धाममध्ये प्रकल्पयेत्॥
अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ॥३५॥

चतुष्कूटं चतुश्शाला पंजराष्टक संयुतम्॥
कल्प्यहारान्तरोपेतं द्वितीयं भूतलं कुरु ॥३६॥

तदूर्ध्वभूमिविस्तारं त्र्यंशैकं मध्यभद्रकम्॥
अष्टकूटा च शाला च विंशत्पंजरसंयुतम् ॥३७॥

शताष्टनासिकोपेतं वस्वश्रं शीर्षकं गलम्॥
महानास्यष्टकोपेतं शिखरन्तु द्विजोत्तम ! ॥३८॥

नाम्ना शुद्धविमानं तु मम प्रीतिकरं भवेत्॥
तदेवाष्टाश्र वेदी च वृत्ताभं शिखरं गलम् ॥३९॥

विमलाकृतिनाम्ना तु सर्वदेवहितं भवेत्॥
तदेव शिखरं कण्ठं युगाश्रं ब्रह्मकान्तकम् ॥४०॥

तदेव सायताश्रं तु सपादं सार्ध त्रिभागिकम्॥
वसुभागं तु विस्तारं आयामं दशधा भवेत् ॥४१॥

एकांशं कूटविस्तारं शालान्तं द्विगुणायतम्॥
शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् ॥४२॥

षडष्टभागविस्तारं आयामं चोर्ध्वभूमिके॥
एकैकांशेन कूटं स्यात् कोष्ठदीर्घं द्वयांशकम् ॥४३॥

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत्॥
ऊर्ध्वभूविस्तृतं चाग्निभागैकं मध्यभद्रकम् ॥४४॥

द्व्यश्र वृत्तं च वेदी च कण्ठं च शीर्षकं तथा॥
चतुष्कूटाष्टशाला च भानुपंजरसंयुतम् ॥४५॥

हारान्तरं चतुर्विंशत् कल्पयेदादिभूतले॥
चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् ॥४६॥

षोडशान्तरसंयुक्तं शतसंख्याल्पनासिका॥
ललाटनासिका वक्त्रं पार्श्वयोर्भद्रनासिकाः ॥४७॥

तथैवं नासिका प्रष्ठो शीर्षकं चैव माचरेत्॥
नानाधिष्ठानसंयुक्तं नानाचांघ्रिसमन्वितम् ॥४८॥

सर्वालंकारसंयुक्तं हारान्तरमिदं भवेत्॥
मानसूत्रान्तं नवनवधा तु विभाजिते ॥४९॥

गुणांशं गर्भगेहं तु शिवांशं कुड्यविस्तृतम्॥
परितोऽलिन्दमेकांशं हाराव्यासं शिवांशकम् ॥५०॥

एवं हि कल्पितं तेषु कर्णकूटं शिवांशकम्॥
मध्ये कोष्ठं गुणांशं स्यात् एकांशं पंजरस्तथा ॥५१॥

हारान्तरं तथार्धांशं कल्प्येवं प्रथमे भुवि॥
अथवा पंजराणां तु षडंशं वा विधीयते ॥५२॥

शेषं हारान्तराख्यातं परितः स्यैव माचरेत्॥
कोष्ठमध्यत्रिदण्डेन महानासी विनिर्गतम् ॥५३॥

ऊर्ध्वभूमौ षडंशेंशं कूटकोष्ठाय तद्भवेत्॥
अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ॥५४॥

ऊर्ध्वभूविस्तृतान्तं तु मध्ये दण्डेन निर्गतिः॥
चतुरश्रमधिष्ठानं वस्वश्रं शीर्षकं गलम् ॥५५॥

आदौ तले चतुष्कर्णे कूटं वेदाश्रशीर्षकम्॥
अष्टाश्रशीर्षकं मध्यात् ऊर्ध्वभूमौ प्रकल्पयेत् ॥५६॥

अष्टकूटाष्टकोष्ठादि कलापंजरसंयुतम्॥
शताल्पनासिकोपेतं शिखरेऽष्टं महत्तरम् ॥५७॥

भद्रकोष्ठःमिदं नाम्ना सर्वदेवार्हकं परम्॥
तदेव कर्णकूटानां शीर्षकं वर्तुलाकृति ॥५८॥

प्रासादशिखरं कण्ठं वृत्ताकारं प्रकल्पयेत्॥
शिखरे तु चतुर्दिक्षु भद्रनासी समन्वितम् ॥५९॥

विदिक्षु ह्यल्पनासाढ्यं वृत्तकूटमिदं परम्॥
तदेव शिखरं कोणे क्षुद्रनास्यष्टकान्वितम् ॥६०॥

युगाश्रं कर्णकूटानां शीर्षकं वर्तुलाकृतिः॥
शेषं प्रागिव कर्तव्यं श्रीकण्ठं तदुदाहृतम् ॥६१॥

तदेवाष्टांशमाधिक्यं आयामं चतुरश्रकम्॥
शालामध्ये महानासी भद्रं विना प्रकल्पयेत् ॥६२॥

शालाभमस्तकं कण्ठं वृत्तायतमथापि वा॥
स्तूपि त्रयसमायुक्तं एतन्नाम्ना सुमंगलम् ॥६८॥

मानसूत्रान्तरं धर्मभागं कृत्वा द्विजोत्तम !॥
गर्भगेहं तु वेदांशं गृहपिण्ड्यंशमावृतम् ॥६४॥

परितोऽलिन्दमेकांशं हाराभागेन कल्पयेत्॥
तेष्वेककूटविस्तारं मध्ये कोष्ठायतं द्वयम् ॥६५॥

तयोर्मध्यैकभागेन पंजरव्यासमुच्यते॥
हारान्तरमथांशेन पंजरस्य तु पार्श्वयोः ॥६६॥

अष्टांशं चोर्ध्वभूमिस्तु कृत्वांशं कूटविस्तृतम्॥
शाला तद्द्विगुणायामं तयोर्मध्ये तु पंजरम् ॥६७॥

एकांशेनैव कर्तव्यं शेषं हारान्तरं भवेत्॥
ऊर्ध्व(भूम)मंचं चतुर्भागं द्विभागं मध्यभद्रकम् ॥६८॥

दण्डं वाध्यर्धदण्डं वा द्विदण्डं वाथ निर्गमम्॥
वेदाश्रं च मधिष्ठानं तद्वत्कर्णं च शीर्षकम् ॥६९॥

अष्टशालाष्टकूटं च पंजरं षोडशान्वितम्॥
शताल्पनासिकोपेतं वृषस्थलसमन्वितम् ॥७०॥

नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम्॥
उन्नतौ कूटकोष्ठौ द्वौ चान्तरप्रस्तरान्वितौ ॥७१॥

गान्धारमिति विख्यातं अष्टाश्रं च गलं शिरः॥
श्रीविशालमितिख्यातं वर्तुलं वेदिकागलम् ॥७२॥

शीर्षकं चैव कर्तव्यं शेषं पूर्ववदाचरेत्॥
श्रीभोगमिति विख्यातं सर्वदेवार्हकं परम् ॥७३॥

वृत्तायते द्वयाश्र वृताष्टाश्रे च षडश्रके॥
कूटकोष्ठादि सर्वांगं प्रागिवैव प्रकल्पयेत् ॥७४॥

वृषस्थलं मण्टपं च त्यजेत्कर्णं च शीर्षकम्॥
वर्षस्थलविहीनानां कर्णं शीर्षक संयुतम् ॥७५॥

कूटकोष्ठादि सर्वांगाद्युचितं नागरादिकम्॥
नानालंकारसंयुक्तं नानाचित्रैर्विचित्रितम् ॥७६॥

गर्भगेहविशालं च गृहपिण्ड्याग्रमण्टपम्॥
एकभूमि विधानोक्तं द्वितलं तु विशेषतः ॥७७॥

त्रितलं ह्येवमाख्यातं चतुर्भूमिमथोच्यते॥

इत्यंशुमान्काश्यपे त्रितलविधानपटलः (अष्टाविंशः) ॥२८॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP