संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
त्रयोदशभूमिविधिपटलः

अंशुमत्काश्यपागमः - त्रयोदशभूमिविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण त्रयोदशतलं शृणु ।
तस्य विस्तार तुंगं च प्रासादमानवद्गृहम् ॥१॥

एकोनविंशदंशं तु कर्तव्यं सदनस्ततम् ।
गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका ॥२॥

अलिन्दं तच्छिवांशं स्याद्धारा भागेन कल्पयेत् ।
तद्बाह्येऽलिन्दमेकांशं हाराभागेन देशिक ! ॥३॥

व्योम भागमलिन्दं स्यात् हारव्यासं च तत्समम् ।
विन्याससूत्रयोरन्तः एकोनविंशदंशकैः ॥४॥

शिवांशं कर्णकूटं स्यात् मध्ये शालाऽग्निभागया ।
प्. १४८) पक्षशाला च तत्तुल्यं एकांशं पंजरस्य तु ॥५॥

हारान्तरं तदर्धांशं क्षुद्रपंजरसंयुतम् ।
पंजरं कर्णकूटाभं तस्याभं क्षुद्रपंजरम् ॥६॥

एवमादितलं प्रोक्तं ऊर्ध्वभानुतलोक्तवत् ।
चत्वारिंशद्द्वयाधिक्य शतांशे सदनोदयम् ॥७॥

पंचांशं तदधिष्ठानं दशांशं चरणोदयम् ।
भूतांशं मंचमानं स्यात् शेषं द्वादशभूमिवत् ॥८॥

त्रयोदशतलं ह्येवं कलाभूमिमथोपरि ।

इत्यंशुमान्काश्यपे त्रयोदशभूमिविधिपटलः (एकोनचत्वारिंशः) ॥३९॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP