संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत अधमदशतालविधिपटलः Translation - भाषांतर कन्यसं दशतालं तु शृणु वक्ष्ये द्विजोत्तम ।चन्द्रादित्याश्विनी चैव ऋषयश्च ग्रहस्तथा ॥१॥आचार्यः शतमखश्चैव चण्डेशः क्षेत्रपालकम् ।कन्यसं दशतालेन कारयेत्तु विचक्षणः ॥२॥उष्णीषमंगुलं प्रोक्तं केशमानं युगांगुलम् ।केशान्ताद्धनु पर्यन्तं सार्धभान्वंगुलं भवेत् ॥३॥युगांगुलमिति प्रोक्तं कर्णमानं द्विजोत्तम ! ।हिक्कादिस्तनसूत्रान्तं सार्धभान्वंगुलं भवेत् ॥४॥स्तनाधोनाभिपर्यन्तं तत्समं चेति कीर्तितम् ।वामेस्तु मेढ्रमूलान्तं सार्धद्वादशमात्रकम् ॥५॥तन्मेढ्रमूलादूर्वाग्रं पंचविंशतिमात्रकम् ।वेदांगुलं तु जानु स्यात् जंघासमोरुसादृशम् ॥६॥वेदांशं चरणोत्सेधं तुंगमेवं विधीयते ।उष्णीषात्पृष्ठकेशान्तं सार्धभान्वंगुलं भवेत् ॥७॥उष्णीषात्पार्श्वकेशान्तं अष्टांगुलमिति स्मृतम् ।उष्णीषात्पूर्वकेशान्तं पंचांगुलमुदाहृतम् ॥८॥केशान्ताद्धनु पर्यन्तं मानं तु गुणभाजिते ।केशान्तादक्षिसूत्रान्तं व्योमांशमिति विद्यते ॥९॥अक्षिसूत्रात्पुटान्तं च पुटान्ताद्धन्वन्तकं तथा ।यवोपेतद्विमात्रं तु नेत्रयोरन्तरं द्विज ! ॥१०॥तत्समं नयनायामं भूतमात्रं भ्रुवायतम् ।भ्रूमध्यादूर्ध्वकेशान्तं सप्तादश यवस्तथा ॥११॥यवं भ्रूमध्यमव्यासं अनुपूर्वात्कृशाग्रके ।षडंशं नेत्र विस्तारं ऊर्ध्ववर्म यवार्धकम् ॥१२॥अधोवर्म च तत्तुल्यं करवीरं यवं भवेत् ।नेत्रायामं त्रिधा कृत्वा एकांशं कृष्णमण्डलम् ॥१३॥कृष्णमण्डल मध्ये तु ज्योतिर्मण्डलकं यवम् ।यूकमानेन दृष्टिः स्यात् ज्योतिर्मण्डलमध्यमे ॥१४॥अधोवर्मस्थितं नेत्रसूत्रे कुर्याद्विशेषतः ।तस्य केशान्तयोर्मध्ये भ्रूस्थितिर्वार्धचन्द्रवत् ॥१५॥कर्णस्थानं च तन्मानं उत्तमं दशतालवत् ।घ्राणमूलस्य विस्तारं यवमत्रमुदाहृतम् ॥१६॥नासिकाग्रविशालं तु व्योमांगुलमुदाहृतम् ।अधरोष्ठस्य चायामं पक्षांगुलमुदाहृतम् ॥१७॥तदर्धं तस्य विस्तारं चिबुकं तु यवद्वयम् ।विस्तारं तत्समं विद्यात् निम्नमर्धयवं भवेत् ॥१८॥तस्मादधरनिष्ठान्तं स यवं व्योममात्रकम् ।ग्रीवामूलविशालं तु वस्वंगुलमुदाहृतम् ॥१९॥ग्रीवाग्रस्य तु विस्तारं सार्धसप्तांगुलं भवेत् ।वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् ॥२०॥पंचविंशति मात्रं तु बाहुदीर्घमुदाहृतम् ।तस्मादधर निष्ठान्तं स यवं व्योममात्रकम् ॥२१॥ग्रीवामूलविशालं तु वस्वंगुलमुदाहृतम् ।आयामं तु प्रकोष्ठस्य एकोन विंशदंगुलम् ॥२२॥तस्मात्तन्मध्यमाग्रान्तं सार्धद्वादशमात्रकम् ।तदर्धं तु तलायामं शेषं मध्यांगुलं पदम् ॥२३॥अंगुष्ठस्य तु दीर्घं तु अष्टादशयवं स्मृतम् ।सार्धवेदांगुलं प्रोक्तं अनामिकायास्तु दैर्घ्यकम् ॥२४॥तथैव तर्जनीदीर्घं कनिष्ठस्य युगांशकम् ।धर्माब्धिवसु षड्भूत यवांगुष्ठादि विस्तृतम् ॥२५॥तन्मूलेऽष्टांशहीनं तु शेषमग्रविशालकम् ।अग्रव्यासे तु भूतांशं वेदांशं न विस्तृतम् ॥२६॥विस्तारात्पादमाधिक्यं नखायाममुदाहृतम् ।अंगुष्ठं तु द्विपर्व स्यात् अन्यांगुल्यः स्त्रिपर्वकाः ॥२७॥तलमध्ये त्रिरेखाभिः शूलाभं वाब्जपत्रवत् ।तलमूलप्रदेशस्य घनं कोलकमध्यमे ॥२८॥अष्टांशं हीनमात्रं तु घनमित्यभिधीयते ।तलायामसमं चैव तलस्यैव तु विस्तृतम् ॥२९॥मणिबन्धस्य विस्तारं त्रिमात्रं द्वियवाधिकम् ।प्रकोष्ठमूलविस्तारं सार्धभूतांशमुच्यते ॥३०॥बाह्वग्रस्य तु विस्तारं सार्धषण्मात्रमुच्यते ।बाहुमध्यविशालं तु सप्तांगुलमुदाहृतम् ॥३१॥बाहुमूलस्य विस्तारं वस्वंगुलमुदाहृतम् ।हिक्कासूत्रात्तु कक्षान्तं अष्टमात्रमुदाहृतम् ॥३२॥द्वाविंशदंगुलं प्रोक्तं कक्षान्तरमुदाहृतम् ।हृदयावधिविस्तारं अष्टादशांगुलं भवेत् ॥३३॥उदरस्य विशालं तु सप्तदशांगुलं भवेत् ।श्रोणी प्रदेशविस्तारं अष्टादशांगुलं भवेत् ॥३४॥षड्यवं नाभिविस्तारं नाभिनिम्नं द्वयं भवेत् ।स्तनमण्डलविस्तारं अर्धांगुलमुदाहृतम् ॥३५॥चूचुकं द्वियवं प्रोक्तं उत्सेधं तत्समं भवेत् ।उभयोस्तनयोरन्तः सार्धद्वादशमात्रकम् ॥३६॥मुष्कायामं तु वेदांशं विस्तारं चैव तत्समम् ।लिंगं पंचांगुलं दैर्घ्यं उत्पलं मुकुलोपमम् ॥३७॥कटिप्रदेश विस्तारं षड्यवाष्टदशांगुलम् ।ऊरुमूलविशालं तु सार्धद्वादशमात्रकम् ॥३८॥जानुमध्यविशालं तु सार्धवस्वंगुलं भवेत् ।जंघामूलविशालं तु सार्धषण्मात्रमुच्यते ॥३९॥नलकायास्तु विस्तारं सार्धवेदांगुलं भवेत् ।अंघ्रितलाग्रविस्तारं कौशिकांगुलमुच्यते ॥४०॥तलमध्यविशालं तु भूतांगुलमुदाहृतम् ।पादांगुष्ठसमायामं चतुर्मात्रमुदाहृतम् ॥४१॥तस्याग्राद्गुल्फमध्यान्तं सार्धद्वादशमात्रकम् ।अनामिकाया दीर्घं तु त्रयस्त्रिंशद्यवं भवेत् ॥४२॥मध्यांगुल्यं च तत्तुल्यं वेदांशं तदनामिका ।कनिष्ठिकाया दीर्घं तु सार्धवह्न्यंगुलं भवेत् ॥४३॥सप्ताष्टनवधर्मं तु त्रयोदशयवं क्रमात् ।कनिष्ठाद्यंगुलीनां तु विस्तारं प्रविधीयते ॥४४॥अग्रमूलसमं प्रोक्तं विस्तारं तत्त्रिभाजिते ।द्विभागं नखविस्तारं तत्तुल्यायतवर्तुलम् ॥४५॥तलाग्रांगुष्ठमूले तु सार्धवह्न्यंगुलं भवेत् ।कनिष्ठिकाया मूले तु घनं तत्त्रियवं भवेत् ॥४६॥अक्षात्पार्ष्ण्यन्तरं भागं पार्ष्ण्युत्सेधं च तत्समम् ।पृष्ठमण्डलविस्तारं पादोन नवमात्रकम् ॥४७॥वक्षस्थले परे व्यासं पंचविंशति मात्रकम् ।कक्षयोरन्तरं पृष्ठे चतुर्विंशति मात्रकम् ॥४८॥अत्रानुक्तं तु यत्सर्वं उत्तमं दशतालवत् ।एवं लक्षणमाख्यातं तेषामाकृतिपूर्ववत् ॥४९॥इत्यंशुमान्काश्यपे अधमदशतालविधिपटलः (अष्टपंचाशः) ॥५८॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP