संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| उमास्कन्दसहितलक्षणपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - उमास्कन्दसहितलक्षणपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत उमास्कन्दसहितलक्षणपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं द्विज ! ।सुखासनं यथा प्रोक्तं तथा देवो विधीयते ॥१॥देवस्य वामपार्श्वे तु पार्वती तत्सुखासने ।शाययेद्दक्षिणं पादं वामपादं प्रलम्बयेत् ॥२॥आसनस्योपरिष्टात्तु स्फिग्मानं चतुरंगुलम् ।ऊर्ध्वकायसमायुक्तं आसनोपरिकल्पयेत् ॥३॥किंचिद्देवाश्रितं वक्त्रं लम्बितं भंगसंयुतम् ।वरदं वामहस्तं तु उत्पलं दक्षिणे करे ॥४॥किंचिद्वक्रांगुलाः सर्वे वामहस्ततलोर्ध्वगम् ।वरदं चाति विख्यातं पुष्पधृत्सिंहकर्णवत् ॥५॥सस्यश्यामनिभा देवी सर्वाभरणभूषिता ।रक्ताम्बरधरा देवी छन्नवीरसमन्विता ॥६॥अथवान्यप्रकारेण देवीभंगं वदामि ते ।वामोरु बाह्यपीठात्तु वामहस्ते तले न्यसेत् ॥७॥प्राग्वदुत्पलसंयुक्तं दक्षिणं हस्तमुच्यते ।पीठात्तु दक्षिणं जानुं किंचिदुद्धृतसंयुतम् ॥८॥त्रिचतुःपंचमात्रं वा पीठाज्जान्वन्तरं भवेत् ।षट्सप्ताष्टांगुलं वाथ पीठाज्जान्वन्तरं भवेत् ॥९॥एवं द्विविधरीत्या तु देवीभंगं विधीयते ।स्त्रीमानस्योक्तमार्गेण देवीमानं तु गृह्यताम् ॥१०॥स्थानकानां तु देवीनां देवीं च स्थानकं भवेत् ।आसने चासनं ख्यातं विपरीतं विपत्करम् ॥११॥देवी लक्षणमेवोक्तं स्कन्दलक्षणमुच्यते ।देवी देवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिनम् ॥१२॥देव्या हिक्कावसानान्तं स्कन्दमानं तदुत्तमम् ।स्तनाक्षान्तं कनिष्ठ स्यात्तयोर्मध्येऽष्टभाजिते ॥१३॥नवधा स्कन्दमानं तु उत्तमादित्रयं त्रयम् ।जात्यंशकयुतं वापि हीनं वापि प्रकल्पयेत् ॥१४॥वेदषड्धर्मभागं तु तन्मानं तु विभाजिते ।एकांशमंगुलं ख्यातं तदष्टांशं यवं भवेत् ॥१५॥एकांगुलं शिरोमानं केशान्तं चैव तत्समम् ।द्विभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् ॥१६॥गुणांशं हनुसीमान्तं ग्रीवोच्चं तु गुणांगुलम् ।हिक्कासूत्रात्स्तनान्तं तु नवभागमुदाहृतम् ॥१७॥स्तनान्तान्नाभिसीमान्तं वस्वंगुलमुदाहृतम् ।वामेस्तु मेढ्रमूलान्तं सप्तभागमिति स्मृतम् ॥१८॥भान्वंशमूरुदीर्घं स्यात् जानुदीर्घं द्वियंगुलम् ।जंघादीर्घोरुतत्तुल्यं मध्यं पादतलान्वितम् ॥१९॥दशांघ्रेस्तु तलायामं बाहुदीर्घं चतुर्दश ।कोष्ठायामं दशांशं तु तलं वेदांगुलायतम् ॥२०॥युगांशं मध्यमायां सार्धहीन मनामिका ।तत्समं तर्जनी दीर्घं कनिष्ठोच्चं गुणांगुलम् ॥२१॥अंगुष्ठायाममग्न्यंशं युगांशं तलविस्तृतम् ।प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरंगुलम् ॥२२॥भूतांशं बाहुमूलं तु विस्तारं द्विजसत्तम ! ।सार्धाष्टांशं मुख व्यासं सप्तांशं कर्णविस्तृतम् ॥२८॥कक्षयोरन्तरव्यासं त्रयोदशांगुलं भवेत् ।भान्वंशं हृदयविस्तारं रुद्रांशं मध्यविस्तृतम् ॥२४॥श्रोणिस्थाने तु भान्वंशं कटिस्थाने त्रयोदश ।उरुमूलविशालं तु वस्वंगुलमुदाहृतम् ॥२५॥षडंशं जानुविस्तारं जंघामूलं युगांगुलम् ।गुणांशं नलकातारं षडंशं तलविस्तृतम् ॥२६॥पार्ष्णिव्यासं युगांशं स्याच्छेषं युक्त्या तु कल्पयेत् ।केशान्ते वासिकोपेतं करण्डमकुटान्वितम् ॥२७॥उभयोर्हस्तयोः पुष्पं वामं वरदमेव वा ।कटकं वाथ तद्धस्ते सिंहकर्णमथापि वा ॥२८॥दक्षिणं पुष्पहस्तं वा कपित्थाम्रफलं तु वा ।कटिसूत्रयुतं नग्नं छन्नवीरसमन्वितम् ॥२९॥मुद्रिका चोपग्रीवादिबालभूषणभूषितम् ।आसीनो वा स्थितो वाथ नृत्तं वा स्कन्दमाचरेत् ॥३०॥आसीने चरणौ द्वौ तु विष्टरोपरि शाययेत् ।स्थिते पादतलौ द्वौ तु समभंगमिव स्थितौ ॥३१॥चरणौ कुंचितौ द्वौ तु किंचिद्गमनमेव वा ।नृत्तं चेत्सुस्थितं सव्यपादं वक्रसमन्वितम् ॥३२॥उद्धृत्य चान्यपादं तु पीठात्सप्तांगुलावधि ।षण्मात्रमथवा पंचमात्रान्तं वा समुद्धरेत् ॥३३॥फलेन वरदं वामहस्त न्यस्तं तु सूपितम् ।अथवा वामहस्तं तु फलं न्यस्त्वा प्रसारयेत् ॥३४॥हिक्कासूत्रसमोद्धृत्य मणिबन्धोर्ध्वसीमकम् ।द्वन्तरं लम्बसूत्रं च नृत्तमूर्तिवदाचरेत् ॥३५॥उमास्कन्दसहितं प्रोक्तं शृणुष्वेन्दुधरं हरम् ।इत्यंशुमान्काश्यपे उमास्कन्दसहितलक्षणपटलः (पंचषष्टितमः) ॥६५॥ N/A References : N/A Last Updated : November 06, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP