संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| मण्टपलक्षणविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - मण्टपलक्षणविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत मण्टपलक्षणविधिपटलः Translation - भाषांतर शिरस्सन्धानमीशेन मकुटं कवचेन तु ।अस्त्रेण हस्तसन्धानं पादौ सद्येन सन्धयेत् ॥१॥पादाद्यंगानि सर्वाणि आत्मवत्परिकल्पयेत् ।आदौ पश्चात्तु संधानं क्रमात्संपूर्णमाचरेत् ॥२॥उपांगं तु ततः कुर्याद् प्रत्यंगं तु ततः कुरु ।अष्टत्रिंशत्कलान्यासं स्थानमंगमुदाहृतम् ॥३॥वस्त्रमाभरणं शस्त्रं सूत्रं चोपांगमिष्यते ।धर्मतालात्त्रितालान्त श्रेष्ठान्तराधमं त्रिधा ॥४॥उत्तमं दशतालाख्यं चतुर्विंशच्छतांगुलम् ।मध्यमं दशतालं स्या भनुपंक्त्यांगुलं भवेत् ॥५॥कलाधिकशतांगुल्यं अधमम् दशतालकम् ।सद्वादशशतं भागं नव तालोत्तमं भवेत् ॥६॥अष्टोत्तरशतांशं तु मध्यमं नवतालकम् ।कन्यसं नवतालं स्याद् वेदाधिकशतं भवेत् ॥७॥तालं प्रत्येवमेवं तु क्रमाद्वेदांगुलं हरेत् ।उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरान् ॥८॥मध्यमं दशतालेन उमां सरस्वतीं तथा ।उषाभूमी च दुर्गां च लक्ष्मी वै मातरस्तथा ॥९॥गुहं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।कन्यसं दशतालेन कारयेद्द्विजसत्तम ! ॥१०॥वसवश्चाष्टमीमूर्तीश्च विद्येशान्लोकपालकान् ।अन्ये च देवताश्चैव नवतालोत्तमेन तु ॥११॥यक्षाप्सरगणाश्चैव अष्टमूर्ती मरुद्गणाः ।पंचतालोत्तमेनैव विघ्नेशं कारयेद्बुधः ॥१२॥तन्मध्यमाधमेनैव सर्वभूतगणान्कुरु ।बालास्तु वेदतालेन त्रितालेनैव किंनरः ॥१३॥किं पुरुषादयश्चैव त्रितालेनैव कारयेत् ।एवं तालक्रमं प्रोक्तं बेराणामनुकूल्यकम् ॥१४॥अथ वक्ष्ये विशेषेण मण्टपानां तु लक्षणम् ।प्रासादे त्वेकभूमौ तु प्रोच्यते मुखमण्टपम् ॥१५॥जातिश्छन्दविकल्पं च आभासानां तथैव च ।प्रासादाभिमुखे चैव दिशासु विदिशासु च ॥१६॥ग्रामादीनां तु मध्ये वा दिशासु विदिशासु च ।उद्याने वा नदी तीरे तटाकर्तार एव वा ॥१७॥देवार्थं मण्टपं कुर्यात् यथेष्टं मुखसंयुतम् ।प्रासादस्याग्रके कुर्यात् मण्टपं चतुरश्रकम् ॥१८॥मुखमण्टपमादौ तु प्रतिमा मण्टपं तथा ।स्नपनार्थं तृतीयं तु नर्तनान्तु चतुर्थकम् ॥१९॥तेषु प्रथमं प्राग्वत् द्वितीयादिमिहोच्यते ।अन्तर्मण्डलहारादि अन्तर्हारान्त वा कुरु ॥२०॥मण्टपं तु त्रयं कल्प्य शेषं बाह्ये यथेष्टदिक् ।मण्टपान्मण्टपान्तं तु सालाद्वा मण्टपान्तकम् ॥२१॥अन्तरालमिति ख्यातं आदौ तल्लक्षणं शृणु ।एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा ॥२२॥नवधर्मकरं वापि रुद्रहस्तमथापि वा ।अन्तरालविशालं तु रुद्रसंख्याः प्रकीर्तिताः ॥२३॥यत्र यन्मण्टपं कुर्यात् तस्मिन्भक्त्या विशेषतः ।एकद्वित्रिचतुष्पंच भक्त्या वाभ्यन्तरालकम् ॥२४॥सावकाशान्तरालं वा भित्तिबन्धमथापि वा ।भित्तिबन्धान्तरालं चेत् पार्श्वयोर्वेशसंयुतम् ॥२५॥एकद्वित्रियपादं वा वेशं भक्त्यैकमेव वा ।पार्श्वयोर्मध्यमे द्वारं जालकं वा प्रकल्पयेत् ॥२६॥उत्तरे जलधारां च स्नानार्थं परिकल्पयेत् ।अयुग्मकां वा भित्तिर्वाऽभ्यन्तरालं द्विजोत्तम ! ॥२७॥अधिष्ठानादि सर्वांगं मण्टपस्य समं भवेत् ।अथवा वेशहीनं तु मण्टपस्य समम् भवेत् ॥२८॥अन्तरालं समाख्यातं शृणुमण्टपमानकम् ।त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ॥२९॥यावदेकोन विंशं तु नवधा मण्टपस्ततम् ।आभास सदनानां तु आभासं मण्टपस्त्विमे ॥३०॥एकविंशति हस्तादि द्विद्विहस्तविवर्धनात् ।सप्तत्रिंशति हस्तान्तं विकल्पं नवधा भवेत् ॥३१॥आभासानां तु तद्योग्यं स्वस्वयोग्यमथापि वा ।नवत्रिंशत्करारभ्य द्विद्विहस्त विवर्धनात् ॥३२॥पंचाधिकं तु पंचाशत् करान्तं छन्दमुच्यते ।सप्तपंचाशदारभ्य द्विद्विहस्तविवर्धनात् ॥३३॥साग्निसप्तति हस्तान्तं विस्तृतं जातिरुच्यते ।तद्विस्तारसमं दीर्घं समश्रं मण्टपं भवेत् ॥३४॥अध्यर्ध हस्तमारभ्य षट्षडंगुल वर्धनात् ।पंचहस्तावधिर्यावत् भक्तिव्यासं त्रिपंचधा ॥३५॥अर्धहस्तं समारभ्य यावत्पंचकरावधि ।गुणांगुल विवृद्ध्या तु भक्तिव्यासं प्रकल्पयेत् ॥३६॥सार्ध द्विहस्तमारभ्य षट्षडंगुल वर्धनात् ।अष्टहस्तावधिर्यावत् त्रयोविंशांघ्रिभेदकम् ॥३७॥उपानादुत्तरान्त स्व गुणांगुल विवर्धनात् ।स्तम्भानामुदयं ह्येवं स्तम्भव्यासमथोच्यते ॥३८॥वस्वंगुलं समारभ्य अर्धांगुलविवर्धनात् ।एकोनविंशमात्रान्तं त्रयोविंशांघ्रिविस्तरम् ॥३९॥पादोच्चं भानुरुद्रांशे दशनवाष्टांश वा भजेत् ।मूलतारं तदेकांशं तत्तदंशो नवाग्रकम् ॥४०॥तलीपार्धतलोत्तुंगं सामान्यं सर्वमण्टपम् ।तलिपोच्चं तु भूतांशे द्विभागं वा तलोदयम् ॥४१॥अंघ्रितुंगाग्निवेदैक भागं वापि मसूरकम् ।सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥४२॥धरातल समोच्चं वा द्विगुणं त्रिगुणं तु वा ।उपपीठोदयं ख्यातं उपपीठोच्छ्रयं तु वा ॥४३॥उपपीठमधिष्ठानं चरणं प्रस्तरं तथा ।नीव्रवेशमलंकारं गण्यं प्रागिव विद्यते ॥४४॥भक्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम् ।कलाल्पनासिकोपेतं मध्ये कूटं तु एव वा ॥४५॥मण्डितं वाथ सर्वत्र चतुर्द्वार युतं तु वा ।इष्टदिग्द्वारमेवं वा द्वयजालककोष्ठदिक् ॥४६॥बाह्ये सोपानसंयुक्तं चित्रं तत्तोरणादिभिः ।तोरणादि विहीनं वा कल्प्येवं प्रथमं भवेत् ॥४७॥चतुर्भक्त्या विशालं तु इष्टदिग्द्वारसंयुतम् ।पूर्वे परे द्विभक्त्यैकं भक्त्या विस्तृत नीव्रकम् ॥४८॥मध्यस्थांघ्रिं परित्यज्य ऊर्ध्वे कूटद्विभक्तिकम् ।भानुद्विगुणसंख्यांघ्रि युक्तं विंशतिनासिका ॥४९॥द्वाराशासु च सोपानं कर्णे लांगल भित्तिकम् ।वसुपंजरसंयुक्तं द्वितीयं मण्टपं भवेत् ॥५०॥पंचभक्त्या युगाश्रं तु मध्ये कूटं त्रिभागया ।मण्टपं परित्ॐशेन द्वात्रिंशच्चरणान्वितम् ॥५१॥भानुद्विगुणनासाढ्यं पंजराष्टकसंयुतम् ।इष्टदिग्द्वारसंयुक्तं द्वारान्यत्रैव कुड्यकम् ॥५२॥द्वारस्थाने तु सोपानं सर्वालंकारसंयुतम् ।कुड्यं कुंभलताद्यैस्तु भूषितं तु तृतीयकम् ॥५३॥चतुरश्रं तु षड्भक्त्या मध्ये कूटं द्विभागया ।तत्कूटमष्टपादाढ्यं मध्ये रंगसमायुतम् ॥५४॥चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा ।द्विभक्तिविस्तृतं चैव भक्त्या नीव्रं समायुतम् ॥५५॥इष्टदिग्भद्रसंयुक्तं चतुर्दिग्भद्रमेव वा ।चत्वारिंशति चाष्टांघ्रि युक्तं वा तत्र योजयेत् ॥५६॥चतुर्विंशाल्पनासाढ्यं कुड्यं कुंभलतान्वितम् ।तोरणाष्टकसंयुक्तं चतुर्थं मण्टपान्वितम् ॥५७॥चतुरश्रं तु सप्तांशं षष्ठ्यंघ्रिकसमायुतम् ।नवभागेन तन्मध्ये कूटं वा मण्दितां कणम् ॥५८॥द्वात्रिंशदल्पनासाढ्यं चतुर्दिग्भद्रसंयुतम् ।त्रिभागैकांशविस्तारं निर्गमं मुखभद्रकम् ॥५९॥मध्ये रंगसमोपेतं इष्टदिक्कुड्यसंयुतम् ।सर्वालंकारसंयुक्तं पंचमं परिकीर्तितम् ॥६०॥युगाश्रमष्टभक्त्या तु अशीति चरणान्वितम् ।चतुर्भागेन तन्मध्ये ह्यूर्ध्वकूटं प्रकल्पयेत् ॥६१॥चतुर्दिग्द्वारसंयुक्तं मध्येकांशेन कूटकम् ।सर्वालंकारसंयुक्तं षष्ठमं मण्टपं भवेत् ॥६२॥नवभक्त्या युगाश्रं तु शतं पादसमन्वितम् ।गुणांशकांशविंशं तु नीव्रभद्रं चतुश्चकः ॥६३॥चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा ।मुखे सोपानमग्न्यंशैः व्यासदीर्घसमन्वितम् ॥६४॥मध्यरंगसमायुक्तं षडष्टौ नासिकान्वितम् ।सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् ॥६५॥चतुरश्रं दशांशं तु भान्वाधिकदशांशकम् ।मध्ये चैवाष्टदिशि च नवकूटसमायुतम् ॥६६॥कूटं पूरिवृतांशेन अन्तरालं प्रकल्पयेत् ।प्राग्वन्मुखेन सोपानं दिशि भद्रसमन्वितम् ॥६७॥सर्वालंकारसंयुक्तं अष्टमं मण्टपं भवेत् ।रुद्रभक्त्या युगाश्रं तु मध्येऽग्न्यंशेन कूटकम् ॥६८॥मुखे सोपानसंयुक्तं इष्टदिग्भद्रसंयुतम् ।द्वारान्यत्रैव कुड्यं वा इष्टभागावसानकम् ॥६९॥सर्वालंकारसंयुक्तं नवमं मण्टपं भवेत् ।द्वादशांशे युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ॥७०॥मण्टपस्य तु बाह्ये तु अंशेनालिन्दमिष्यते ।चतुर्द्व्यंशेन विस्तारं निष्क्रान्तं स्याच्चतुर्दिशि ॥७१॥साष्टषष्टिशतं पादं मध्यरंगे तु कल्पयेत् ।सर्वालंकारसंयुक्तं दशमं मण्टपं भवेत् ॥७२॥युगाश्रं त्रयोदशांशेन मध्येऽग्न्यंशेन कूटकम् ।इष्टदिक्कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् ॥७३॥प्राङ्मुखे नन्दभागेन मुखभद्रं प्रकल्पयेत् ।सद्वयं नवतीयुक्तं अंघ्रि च समन्वितम् ॥७४॥तोरणैर्जालकैश्चान्यैः अलंकारसमन्वितम् ।सर्वालंकारसंयुक्तं रुद्रांशं मण्टपं भवेत् ॥७५॥मनुभागैर्युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ।वेदाधिक्यं तु विंशांशं द्विशतं चरणान्वितम् ॥७६॥मण्टपं कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् ।नन्दादि भद्रसंयुक्तं इष्टभक्त्या विशेषतः ॥७७॥सर्वालंकारसंयुक्तं द्वादशं मण्टपं भवेत् ।त्रिपंचभित्तिविस्तारं आयतं चतुरश्रकम् ॥७८॥मध्ये कूटं गुणांशेन ऊर्ध्वकूटसमन्वितम् ।गुणांशं विस्तृतायामं मुखभद्रसमन्वितम् ॥७९॥इष्टदिक्कुड्यसंयुक्तं अन्यत्रांघ्रिसमन्वितम् ।तोरणैर्जालकैश्चान्यैः अलंकृत्य समन्वितम् ॥८०॥पंचाशद्द्वयवाधिक्यं द्विशतं चरणान्वितम् ।सर्वालंकारसंयुक्तं मण्टपं तु त्रयोदश ॥८१॥एवं हि मानभेदेन युगाश्रं मण्टपं विदुः ।इत ऊर्ध्वं चतुस्त्रिंशत् दशसीमावसानकम् ॥८२॥चतुरश्रं मण्टपं कुर्यात् सर्वालंकारसंयुतम् ।भित्तिस्तम्भं च परितः कर्तुरिच्छावशान्नयेत् ॥८३॥समाश्रमण्टपं कुर्यात् आयताश्रमथोच्यते ।विस्तारभित्तितुल्यं वा यातं वा यतभित्ति यः ॥८४॥विस्तारं भक्तिमानं तु गुणांगुलविवर्धनात् ।सप्तविंशांगुलं यावत् तावत्पादेन वोदितम् ॥८५॥वृद्ध्या क्षीणं तु यावाऽथ मण्टपानां करोदितम् ।नाश्रये तु करं पूर्य मण्टपं तु समाचरेत् ॥८६॥अंशेष्टपादसंख्या तु प्राग्वदायादिमाचरेत् ।आयादीष्ट शुभौपेतं मण्टपस्य तदायतम् ॥८७॥तस्योचित विभागं तु कृत्वा वा मण्टपं कुरु ।भक्तित्रयविशालं तु पंचभक्त्यायतान्वितम् ॥८८॥एकपार्श्वे पुरे वाथ द्वारमंशेन कल्पयेत् ।पार्श्वे वारयुतं चेत्तु त्रिंशदंघ्रि समन्वितम् ॥८९॥तदेव परित्ॐशेन मण्टपाभ्यन्तरस्य च ।लूपारोहणकं कुर्यात् अष्टविंशांघ्रिसंयुतम् ॥९०॥पुरे वारयुतं चेत्तु चरणं चाष्टविंशतिः ।अथवा वारहीनं तु त्रिरष्टचरणान्वितम् ॥९१॥पादं प्रत्यल्पनास्याड्यं वेदिजालकतोरणम् ।नानाकुंभलताद्यैस्तु कल्पितं प्रथमं भवेत् ॥९२॥चतुर्भक्ति विशालं तु आयामे तु षडंशकम् ।मण्टपं परित्ॐशेन कूटमभ्यन्तरेतरम् ॥९३॥द्विभक्ति विस्तृतं चैक भक्त्यायत मुखभद्रकम् ।द्वात्रिंशच्चरणोपेतं मण्टपस्य द्वितीयकम् ॥९४॥विशाले पंचभक्तिः स्या आयामे सप्तभक्ति यः ।त्रिपंचभक्ति विस्तारं दीर्घमध्ये सभा भवेत् ॥९५॥मण्टपं परित्ॐशेन इष्टदिग्भद्रसंयुतम् ।चत्वारिंशति पाड्यं वा सर्वालंकारसंयुतम् ॥९६॥वेदिकाद्यैः समायुक्तं तृतीयं मण्टपं भवेत् ।रसभक्तिविशालं तु वसुभक्त्या यताश्रकम् ॥९७॥द्विचतुर्भक्तिविस्तारं दीर्घं मध्ये सभोदयम् ।मण्टपं परितोऽक्षांशं इष्टदिङ्मुखभद्रकम् ॥९८॥षष्टिसंख्यांघ्रिसंयुक्तं नासिकादि विभूषितम् ।नानालंकारसंयुक्तं चतुर्थं मण्टपं भवेत् ॥९९॥तारे सप्तविभागे तु नवभक्त्यायतान्वितम् ।त्रिभक्तिविस्तृतं पंच भक्त्यायामं सभांकणम् ॥१००॥मण्टपं परितोक्षांशं इष्टदिग्भद्रसंयुतम् ।त्रिभक्तिविस्तृतं चैक भक्त्यायाममुखभद्रकम् ॥१०१॥सप्ततिः स्याद्द्वयाधिक्यं पादमित्यभिधीयते ।सर्वालंकार संयुक्तं पंचमं मण्टपं भवेत् ॥१०२॥वसुभक्तिविशालं तु दशभक्त्यायतान्वितम् ।द्विचतुर्भागविस्तारं दीर्घमध्ये सभोदयम् ॥१०३॥परितो मण्टपोऽग्न्यंश मध्यस्तम्भ विवर्जितम् ।इष्टदिङ्मुखभद्रांशं चतुर्द्व्यंशे च सुव्रत ! ॥१०४॥षण्णवत्यंघ्रिसंयुक्तं सर्वालंकारसंयुतम् ।षष्ठमं मण्टपं ह्येवं प्रोच्यते तु शिवार्हकम् ॥१०५॥नवभक्त्या विशालं तु रुद्रभक्त्यायतान्वितम् ।एकांशं भक्ति विस्तारं दीर्घमध्ये सभा भवेत् ॥१०६॥परितो वेदभागं तु मण्टपं परिकल्पयेत् ।त्रिचतुर्भागविस्तारं दीर्घं स्यान्मुखमण्टपम् ॥१०७॥सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् ।दशभक्त्याविशालं तु द्विभक्त्याधिकमायतम् ॥१०८॥द्विचतुर्भागायतं तारं तयोर्मध्ये सभांकणम् ।परितो लिन्दमेकांशं मण्टपाद्द्व्यंशबाह्यतः ॥१०९॥तद्बाह्येऽलिन्दमेकांशं युक्त्यान्तस्तम्भसंयुतम् ।इष्टदिग्भद्रसंयुक्तं अष्टमं मण्टपं भवेत् ॥११०॥तदेव शिवांशाधिकं विस्तृतायामे त्रिपंचांशेन सभांकणम् ।परितोऽलिन्दमेकांशं मण्टपं द्व्यंशबाह्यतः ॥१११॥तद्बाह्येऽलिन्दमेकांशं नवमं मण्टपं भवेत् ।आदित्यांशविशाले तु द्विभागाधिकमायतम् ॥११२॥चतुष्षडंशम्ध्ये तु सभायारं कणं तु वा ।बाह्यकेऽलिन्दमेकांशं मण्टपे द्व्यंशबाह्यके ॥११३॥सान्ततालीन्दमेकांशं दशमं मण्टपं भवेत् ।विस्तृते तु जगत्यांशे तद्द्व्यंशाधिकं मायतम् ॥११४॥त्रिपंचांशे सभामध्ये तस्मालिन्दांशमावृतम् ।मण्टपेऽत्र विमानं तु तद्बाह्येऽलिन्दभागया ॥११५॥आलिन्दं तु विना वापि मण्टपं तु युगांशकम् ।भद्रमण्टपमाख्यातं इष्टदिग्भद्रसंयुतम् ॥११६॥मन्वंशे तु च विस्तारे द्विभागाधिकमायतम् ।द्विचतुर्भागधायामं तारमध्ये सभांकणम् ॥११७॥तद्बाह्येऽलिन्दमेकांशं मण्टपं चतुरश्रकम् ।मण्टपाद्बाह्यतोऽलिन्दं भागमेवं विधीयते ॥११८॥चतुर्दशं मण्टपं ख्यातं इष्टदिग्भद्रसंयुतम् ।त्रिपंचांशे विशालं तु द्विभागाधिकमायतम् ॥११९॥तिथ्यंशमण्टपं मध्ये सभां कणमिति स्मृतम् ।अंकणावृतमेकांशं अलिन्दं तु विधीयते ॥१२०॥तद्बाह्ये चतुरश्रं स्यात् मण्टपं प्रविधीयते ।तस्यावृतांशतोऽलिन्दं त्रयोदशं मण्टपं भवेत् ॥१२१॥षोडशांशे विशालं तु द्विभागाधिकमायतम् ।चतुर्विंशांकणोपेतं बाह्येऽलिन्दांश मानतः ॥१२२॥तद्बाह्ये चतुरंशेन मण्टपं स्याद्विशेषतः ।तस्या वृतांशतोऽलिन्दं चतुर्दशं मण्टपं भवेत् ॥१२३॥जात्यादि आयतं विद्यात् तत्तद्विन्यासमुच्यते ।जालकं च कवाटं च ग्राह्यं युक्त्या विशेषतः ॥१२४॥इष्टदिक्चरणं कुड्यं कल्पयेत्परितो बुधः ।एवं हि मनुभेदं च सायतं मण्टपं विदुः ॥१२५॥त्रिचतुष्पंचषट्सप्तचरणव्यास एव वा ।सर्वेषां मण्टपानां तु भित्तिव्यासं तु पंचधा ॥१२६॥पादायामविशाले न दारुपादेन वाप्ययम् ।सर्वेषां मुखभद्राणां अंकणं मण्टपाकृतिः ॥१२७॥पार्श्वे सोपानसंयुक्तं हस्तिहस्त विभूषितम् ।पंचषट्सप्तनन्दाष्ट दण्डं वा तस्य विस्तृतम् ॥१२८॥स पादं सार्धदण्डं वा हस्ति हस्तोदयं तथा ।यष्टिनाभ्युतकल्प्येवं वस्वश्रं गजहस्तकम् ॥१२९॥तनीव्र किंपुरीरास्यं लम्बाग्रं कुक्कुटाकृतिः ।मूलादष्टांशहीनं तद् अग्रव्यासं क्रमात्कृशम् ॥१३०॥हस्तिहस्तान्तरं विप्र ! युग्मं वा युग्मयष्टयः ।दण्डं सपाददण्डं वा सार्ध त्रिपादपादकम् ॥१३१॥द्विदण्डं वाथ यष्टिश्च विस्तारं स्यात्तदेव हि ।तेन द्विगुण नीव्रं तु अधस्तान्मण्टपं भवेत् ॥१३२॥यथेष्टरुचांगनी भागैकं भागं स्यान्ममलोदयम् ।आदौ तस्मिन्स्थले स्थित्वा सव्यपादपुरस्सरम् ॥१३३॥सोपानारोहणं विद्यात् मर्त्यानां तु विधीयते ।मण्टपं ह्येवमाख्यातं गोपुरं शृणु सुव्रत ! ॥१३४॥इत्यंशुमान्काश्यपे मण्टपलक्षणविधिपटलः (त्रिचत्वारिंशः) ॥४३॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP