संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| मूध्नेष्टकाविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - मूध्नेष्टकाविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत मूध्नेष्टकाविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण मूध्नेष्टकाविधिं परम् ।शिखरस्योदयोर्ध्वे वा महानास्यावसानके ॥१॥शक्तिध्वजावसाने वा मूध्नेष्टकां तु विन्यसेत् ।तद्धिद्यावसमाप्ते तु तदा मूध्नेष्टकां न्यसेत् ॥२॥मासपक्षर्क्षवारादौ सुलग्ने च समाचरेत् ।शिलाभिस्तु शिलाहर्म्ये त्विष्टकेष्टकया तदा ॥३॥दारुभिर्दारुहर्म्ये तु कर्तव्या शुभमिच्छता ।मिश्रद्रव्यकृते हर्म्ये यद्द्रव्येण कृतं शिरः ॥४॥तद्द्रव्येण प्रकर्तव्या मूर्ध्नेष्टका द्विजोत्तम ! ।एकाद्यनेकभूमीनां हर्म्याणां तु विशेषतः ॥५॥इष्टकाव्यासमायामं घनं चाद्येष्टकामिव ।प्रकुर्यादिष्टकां विप्र ततःस्थापनमारभेत् ॥६॥प्रासादस्याग्रतस्त्वीशे सौम्ये वा हर्म्यगोचरे ।नवाष्टसप्तषट्पंचहस्तं वा मण्टपं स्ततम् ॥७॥तद्विस्तारसमायामं चतुरश्रसमं गुरुः ।मण्टपं वा प्रपां वाथ षोडशस्तम्भसंयुतम् ॥८॥चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।तरंघ्रमंघ्रिवेष्टं च वितानध्वजसंयुतम् ॥९॥मुक्तास्रग्दर्भमालाभिः अलंकृत्य विशेषतः ।मण्टपस्य त्रिभागैक मध्ये कृत्वोपवेदिकाम् ॥१०॥वेदांगुलान्ते तं वेशं उपदे च युगाश्रकम् ।शेषं वेदि विशालं तु भानुमात्रसमन्वितम् ॥११॥भनुद्वयांगुलं चोच्चं दर्पणोदरसंनिभम् ।महाशास्वग्निकुण्डानि चतुरश्राणि कल्पयेत् ॥१२॥अथवा वालुकैः स्थूलैः स्थण्डिलं परिकल्पयेत् ।गोमयालेपनं कृत्वा शिल्पिनं तु विसर्जयेत् ॥१३॥ब्राह्मणान्भोजयेत्तत्र ततोच्छिष्टं विसर्जयेत् ।पुनश्च गोमयैर्लिप्य पुण्याहं वाचयेत्तदा ॥१४॥स्थण्डिलं कारयेद्धीमान् अष्टद्रोणैश्च शालिभिः ।तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि ॥१५॥लाजैश्चैव परिस्तीर्य श्वेताब्जं परिकल्पयेत् ।नानापुष्पैः कुशैर्दर्भैः परिस्तीर्य विचक्षणः ॥१६॥मनोन्मनीं कर्णिकायां वामादीश्च दलेष्वपि ।गन्धपुष्पादिभिः पूज्य स्वस्वमन्त्रैर्विशेषतः ॥१७॥लोहजं दारुजं वाथ स्थूपिदण्डं तु कारयेत् ।पनसं खदिरं सालं तिंत्रिणीसारमेव वा ॥१८॥मधूकं स्तवकं चैव षडेते सारदारवः ।हेमजं रजतं ताम्रं अयसा मिश्रमेव वा ॥१९॥ऊर्ध्वभूम्यंघ्रितुंगं तु स्थूपिदण्डायतं भवेत् ।मूर्ध्नि शैलोपरिष्टात्तु स्थूप्यन्तं वा तदायतम् ॥२०॥ऊर्ध्वभूम्यंघ्रिविस्तारं स्थूपिदारु विशालकम् ।तस्याग्रमंगुलं व्यासं मूलादग्रं क्रमात्कृशम् ॥२१॥तुंगे गुणांशे त्वेशं तु मूले वेदाश्रमाचरेत् ।वस्वंशं मध्यमे त्वग्रे वृत्ताकारं प्रकल्पयेत् ॥२२॥चतुरश्रो परिष्टात्तु सर्वं वृत्तमथापि वा ।कर्तव्यं तस्य मूले तु शिखिपादं सुयोजयेत् ॥२३॥दण्डमूलसमं व्यासं त्रिगुणं त्रिगुणायतम् ।तद्व्यासार्ध घनोपेतं पूर्वाग्रं चोत्तराग्रकम् ॥२४॥बध्वान्तर्मध्यमे च्छिद्रे दण्डमूलं सुयोजयेत् ।दण्डमूल त्रिभागैकं शिखाव्यासं समाश्रयम् ॥२५॥शिखिपादघनं तस्य दीर्घायां योजयेद्दृढम् ।दण्डमूलाग्रयोः पट्टं योजयेल्लोहजं बुधः ॥२६॥प्रक्षाल्य पंचगव्येन दण्डं चैवेष्टकामपि ।कर्णिकायां न्यसेद्दण्डं शक्रादिषु यथाक्रमम् ॥२७॥चत्वारस्त्वेष्टकाः स्थाप्य शालिपिष्टमयैर्जलैः ।पृथिव्यादीनि बीजानि दण्डान्ते विलिखेद्बुधः ॥२८॥प्राग्दिशीष्टकमारभ्य दण्डं पुष्पादिभिर्यजेत् ।सुवर्णरजतैस्ताम्रैः सूत्रैः कार्पासजैस्तु वा ॥२९॥कौतुकं बन्धयेद्विद्वान् स्वस्वबीजमुदाहरन् ।ब्रह्मविष्णू च रुद्रं च ईशानं च सदाशिवम् ॥३०॥शक्रेष्टकादि दण्डान्तं अधिदेवान्क्रमाद्यजेत् ।नैवेद्यं दापयेत्तेषां ताम्बुलं तु निवेदयेत् ॥३१॥प्रत्येकं चैव वस्त्रेण च्छादयेत्कूर्चसंयुतम् ।अभितः कलशानष्टौ स कूर्चान्सापिधानकान् ॥३२॥गन्धाम्बुपूरितान्वस्त्रहेमपुष्पसमन्वितान् ।स सूत्रान्पल्लवोपेतान् अष्टविद्येश्वराधिपान् ॥३३॥स्थाप्य स्वमूलमंत्रेण नैवेद्यान्तं समर्चयेत् ।ततो होमं प्रकर्तव्यं अग्न्याधानादिकं कुरु ॥३४॥समिदाज्य चरुं लाजान् यवं सव्यादिभिर्बुधः ।शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥३५॥पंचब्रह्मषडंगैश्च क्षुरिका बीजमुच्चरन् ।आज्येन जुहुयाद्धीमान् प्रत्येकं पंचविंशतिः ॥३६॥जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् ।ब्रह्मादिबीजमन्त्रैस्तु पृथक् स्पृष्ट्वा दशाहुतिः ॥३७॥एवं जागरणं रात्रौ प्रभाते विमले शुभे ।आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विधानतः ॥३८॥नववस्त्रधरोष्णीषो भस्मरुद्राक्षधारकः ।सितयज्ञोपवीताढ्यः सितमाल्यानुलेपनः ॥३९॥हेमांगुलीयकटक कुण्डलाद्यैरलंकृतः ।यज्ञसूत्रेण सहितभूषणैर्भूष्य शिल्पिनम् ॥४०॥आचार्यो मण्टपं गत्वा दण्डेष्टक घानलान् ।गन्धपुष्पादिभिर्यष्ट्वा होमं कृत्वा जयादिभिः ॥४१॥स्विष्टमग्नेति मन्त्रेण पूर्णाहुतिं समाचरेत् ।स्थिरराश्युदये विप्रोभयराश्युदयेऽपि वा ॥४२॥जीवो वा शुक्रसंयुक्तो तयोर्दृष्टेन वाऽथ वा ।आचार्यः शिल्पिभिश्चैव योग्यतोश्मगृहोपरि ॥४३॥वीक्ष्य मूध्नेष्टकास्थानं हीनाधिक्यं तु नाश्रिते ।मार्जन्या मण्डयित्वा तु पंचगव्यकुशोदकैः ॥४४॥प्रोक्षयेच्छिवमन्त्रेण ततः स्थापनमारभेत् ।स्थपतेस्तर्जनीवेशमात्रैव शिखरे सुषिम् ॥४५॥कर्तव्यं तु ततो विप्र मूध्नेष्टकां निधापयेत् ।इष्टकाः स्थूपिकुंभांश्च वह्निधामप्रदक्षिणम् ॥४६॥नानालंकारसंयुक्तं कृत्वा हर्म्ये तु रोपयेत् ।उत्तराभिमुखो भूत्वा त्वाचार्यो मन्त्रवित्ततः ॥४७॥ब्रह्मविष्णू च रुद्रं च ईशानं च सदाशिवम् ।विचिन्त्य स्वस्वमंत्रेण चतुरश्रेष्टका न्यसेत् ॥४८॥पृथिव्यात्मकमश्मानं सौम्याग्रं शांकरे सुधीः ।सुषेस्वांगेयमाश्रित्य प्रागुदग्रंसु सात्मकम् ॥४९॥सुषे नैर्-ऋत्यसोमाग्रं * * * * शलात्मकम् ।सुषे वायुं समाश्रित्य प्रागुदग्रं मरुतात्मकम् ॥५०॥एवं क्रमान्न्यसेदश्म सुषिं निश्च्छिद्रमाचरेत् ।माणिक्यं मरकतं चैव वैडूर्यं चेन्द्रनीलकम् ॥५१॥मौक्तिकं स्फटिकं चैव पद्मरागं प्रवालकम् ।वज्रं मध्यादिषु स्थाप्य शक्तिबीजमनुस्मरन् ॥५२॥तदूर्ध्वे स्थापयेत्स्थूपि दण्डमीशानमाश्रितम् ।कलशस्थोदकैः प्रोक्ष्य दण्डमश्मानमेव च ॥५३॥गर्ते मूर्तिं समभ्यर्च्य गन्धैः पुष्पैश्च धूपकैः ।गुलांभसा च सुधया स्थूपिं बध्वा तु निश्चलम् ॥५४॥ततो (पंच च) शेषं तु कर्तव्यं स्योदितं यथा ।शिखरस्थोपरिष्टात्तु स्थूपिं प्रागुक्तवर्त्मना ॥५५॥कसलाद्यैस्ततं कुर्यात् निश्चलं सुदृढं यथा ।स्वर्णैश्च रजतैर्वाथ ताम्रैश्च छादयेद्गृहम् ॥५६॥कांचनालं कृतं धेनुं आचार्याय प्रदापयेत् ।दक्षिणां दापयेत्तस्मै दशनिष्कं हिरण्यकम् ॥५७॥यागोपकरणं सर्वं आचार्याय प्रदापयेत् ।शिल्पिनं पूजयेत्पश्चात् गोभूमीकांचनादिभिः ॥५८॥एवं यः कुरुते मर्त्यः स यात्यभ्युदयं फलम् ।इत्यंशुमान्काश्यपे मूध्नेष्टकाविधिपटलः (एकचत्वारिंशः) ॥४१॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP