संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः| प्राकारलक्षणविधिपटलः अंशुमत्काश्यपागमः कर्षणविधिपटलः प्रासादवास्तुलक्षणपटलः वास्तुहोमविधिपटलः प्रथमेष्टकापटलः उपपीठविधानपटलः अधिष्ठानलक्षणपटलः नालस्हापनविधिपटलः स्तंभलक्षणपटलः बोधिकालक्षणपटलः स्तम्भभूषणपटलः वेदिकालक्षणपटलः जालकलक्षणपटलः तोरणलक्षणपटलः कुम्भलताविधिपटलः वृत्तस्फुटितलक्षणपटलः द्वारलक्षणपटलः कम्पद्वारलक्षणपटलः प्रस्तरलक्षणपटलः गलभूषणलक्षणपटलः शिखरलक्षणपटलः नासिकालक्षणपटलः मानादिसूत्रलक्षणपटलः आयादिलक्षणपटलः नागरादिविधिपटलः गर्भन्यासविधिपटलः एकतलविधिपटलः द्वितलमानपटलः त्रितलविधानपटलः चतुर्भूमिविधानपटलः कूटकोष्ठादिलक्षणपटलः पञ्चतलविधिपटलः षड्भूमिविधानपटलः सप्तभूमिविधानपटलः वसुभूमिविधानपटलः नवभूमिविधानपटलः दशभूमिविधानपटलः रुद्रभूमिविधिपटलः भानुभूमिविधिपटलः त्रयोदशभूमिविधिपटलः षोडशभूमिविधिपटलः मूध्नेष्टकाविधिपटलः प्राकारलक्षणविधिपटलः मण्टपलक्षणविधिपटलः गोपुरलक्षणपटलः परिवारलक्षणविधिपटलः वृषलक्षणपटलः मातृकालक्षणपटलः विनायकलक्षणपटलः स्कन्दलक्षणपटलः परिवारविधिपटलः लिङ्गलक्षणपटलः पिण्डिकालक्षणपटलः पादशिलादिलक्षणपटलः लक्षणोद्धारविधिपटलः प्रतिमालक्षणपटलः उत्तमदशतालविधिपटलः मध्यमदशतालस्त्रीमानपटलः अंशुमत्काश्यपागमः -अधमदशतालविधिपटलः उत्तमनवतालविधिपटलः मध्यमनवतालविधिपटलः अधमनवतालविधिपटलः अष्टतालविधिपटलः सप्ततालविधिपटलः सुखासनमूर्तिलक्षणपटलः उमास्कन्दसहितलक्षणपटलः चन्द्रशेखरमूर्तिलक्षणपटलः वृषभवाहनमूर्तिलक्षणपटलः नृत्तमूर्तिलक्षणपटलः गङ्गाधरमूर्तिलक्षणपटलः त्रिपुरान्तकमूर्तिलक्षणपटलः कल्याणसुन्दरमूर्तिलक्षणपटलः अर्धनारीश्वरमूर्तिलक्षणपटलः गजहारिमूर्तिलक्षणपटलः पाशुपतमूर्तिलक्षणपटलः कंकालमूर्तिलक्षणपटलः हर्यर्धमूर्तिलक्षणपटलः भिक्षाटनमूर्तिलक्षणपटलः चण्डेशानुग्रहमूर्तिलक्षणपटलः दक्षिणामूर्तिलक्षणपटलः कालहारिमूर्तिलक्षणपटलः लिंगोद्भवमूर्तिलक्षणपटलः वृक्षसंग्रहणपटलः शूललक्षणपटलः शूलस्थापनविधिपटलः रज्जुबन्धविधानपटलः मृत्संस्कारविधिपटलः कल्कसंस्कारलक्षणपटलः वर्णसंभवपटलः संकरवर्णपटलः वर्णलेपनक्रमपटलः भक्तलक्षणपटलः भक्तलक्षणपटलः चण्डेशलक्षणपटलः भूमानविधिपटलः ग्रामादिलक्षणपटलः लिंगप्रासादपटलः जीर्णोद्धारपटलः समारोपः अंशुमत्काश्यपागमः - प्राकारलक्षणविधिपटलः वास्तुशास्त्रावरील एक असामान्य ग्रंथ.. Tags : anshumatkashyapagamsanskritअंशुमत्काश्यपागमःसंस्कृत प्राकारलक्षणविधिपटलः Translation - भाषांतर अथ वक्ष्ये विशेषेण प्राकाराणां तु लक्षणम् ।रक्षार्थं शोभनार्थं च शाला यस्योदयस्य तु ॥१॥प्रासादस्य विशालार्धं गुणभागविभाजिते ।चतुर्भागैकभागं वा अन्तर्मण्डलविस्तृतम् ॥२॥अन्तर्हारविशालं तु तद्बाह्ये द्विगुणं हि तत् ।मध्यहाराविशालं तु बाह्ये तन्मण्डलत्रयम् ॥३॥मर्यादेस्तु विशालं तु बाह्ये त्वादि चतुर्गुणम् ।महामर्यादि विस्तारमादेः पंचगुणं भवेत् ॥४॥प्रासादचरणा विप्राहोमाद्वा प्रथमस्य तु ।नीव्रं द्वितीयं प्रथमात् द्वितीयात्तृतीय नीव्रकम् ॥५॥तृतीयं चतुर्निष्क्रान्तं तस्मान्नीव्रं तु पंचकम् ।प्राकारं प्रति निष्क्रान्तान्युक्तानि कुड्यसीमकम् ॥६॥कुड्यमर्धावसानं वा कुड्यबाह्यमथापि वा ।अथवा शेषविप्राणां नीव्रहोमाद्विधीयते ॥७॥प्रथमं प्रकृतेस्तुल्यं तलं तस्माद्गुणांगुलम् ।नतं द्वितीयकं पश्चात् तद्वदेव नतं क्रमात् ॥८॥कल्प्यैवं हर्म्यमानेन हस्तमानमथोच्यते ।त्रिपंच सप्तहस्तेन प्रथमं त्रिविधं भवेत् ॥९॥नवैकादशहस्तं च त्रयोदश द्वितीयकम् ।त्रिपंचसप्तदशकं हस्तमेकोन विंशतिः ॥१०॥मध्यहारा त्रिधा प्रोक्ता मर्यादीनि ततः शृणु ।एकविंशत्त्रयोविंशत् पंचविंशत्करं भवेत् ॥११॥सप्तविंशन्नवविंशदेकत्रिंशत्करेण तु ।महामर्यादि विस्तारं एवं त्रिविधमुच्यते ॥१२॥एवमाभासहर्म्याणां विकल्पानां च कल्पयेत् ।सप्तहस्तं समारभ्य पंचत्रिंशावसानकम् ॥१३॥प्रत्यकं प्रथमादीनां सालानां त्रित्रिमानकम् ।त्रिपंच संख्यया प्रोक्तं हर्म्याणांश्चैव संज्ञकम् ॥१४॥नवहस्तं समारभ्य सप्तत्रिंशावसानकम् ।प्राग्वदेव सालसंख्याः स्युः हर्म्याणां जातिसंज्ञिता ॥१५॥प्रागुक्तहर्म्यमानैश्च सालां जात्यन्तसंमताम् ।पंचप्राकारमेवं हि त्रिप्राकारमथोच्यते ॥१६॥द्वितीयं तृतीयसालां च चतुर्थां च प्रगृह्यताम् ।शेषं वाभ्यन्तरे बाह्ये वर्जितौ तत्त्रिसालकाम् ॥१७॥अन्यदभ्यन्तरे बाह्ये वर्जितौ तत्त्रिसालकाम् ।द्वितीयं वा तृतीयं वा ग्राह्यं शेषास्तु वर्जिताः ॥१८॥एक सालान्वितं हर्म्यं एवमेव द्विजोत्तम ! ।तस्यानुकूलसंयुक्तं द्विसालं संप्रकीर्तितम् ॥१९॥यत्र यदुचितं सालं हर्म्यौ वृतं तु लक्षयेत् ।तस्मान्मुखे मुखे यामं कल्पयेत्कल्पवित्तमः ॥२०॥बीजात्पादं तु वार्धं वा त्रिपादं तत्समं तु वा ।द्विगुणं त्रिगुणं वाथ चतुः पंच गुणं तु वा ॥२१॥कल्पयेत्तु मुखायामं बीजामूर्ध्वे द्विजोत्तम ! ।अन्तर्मण्डलभित्तेस्तु विस्तारं व्योमहस्तकम् ॥२२॥तस्मात्त्रिमात्रवृद्ध्या वा षण्मात्रं वाथ वर्धयेत् ।सार्धद्विहस्त हस्तान्तं महामर्यावसानकम् ॥२३॥भित्तिव्यासं समाख्यातं उत्सेधं शृणु सुव्रत ! ।तद्व्यासत्रिचतुष्पंच गुणं वा सालतुंगकम् ॥२४॥अथवोत्तरसीमान्तं निद्रान्तं वाजनान्तकम् ।प्रस्तरान्तं गलान्तं वा साला तुंग मुदाहृतम् ॥२५॥ऋजुभित्त्युत्तरोपेतं वाजनं छत्रशीर्षकम् ।कल्पयित्वा विधानेन वृषान्संस्थाप्य शीर्षकम् ॥२६॥अथवा कुड्य बाह्ये तु कूटकोष्ठादि संयुतम् ।अथवांघ्रितलोपेतं बाह्येत्वभ्यन्तराजितम् ॥२७॥कुड्यमूलस्य विस्तारं दशांशौनाग्रविस्तृतम् ।मूलादग्रं क्रमात्क्षीणं वस्वंशेंशं द्विजोत्तम ॥२८॥अथवा हस्तमानेन सालोत्सेधं विधीयते ।त्रिपंच सप्तहस्तादि नन्दरुद्रकरादि वा ॥२९॥द्विद्विहस्त विवृद्ध्या वा प्रत्येकं त्रिभेदकम् ।प्रथमादि पंचशालानां उच्चं ह्येकोन भेदकम् ॥३०॥अथवान्य प्रकारेण सालोत्सेधं विधीयते ।द्विद्विहस्त विवृद्ध्या तु प्रत्येकं तु त्रिभेदकम् ॥३१॥प्रथमं कलशान्तं तु द्वितीयं फलकान्तकम् ।बोधिकान्तं तृतीयं तु चतुर्थं चोत्तरान्तकम् ॥३२॥पंचमं तु कपोतान्तं पंचसालोदयं क्रमात् ।एक त्रिपंचसालेषु तासामुक्तोदयं विदुः ॥३३॥आवृतं मालिका वा स्यात् सभाकारमथापि वा ।मण्टपाकृतिकं वाथ ऋजुकुड्यमथापि वा ॥३४॥भूतवेदगुणं पक्ष व्योमभूमिमथापि वा ।कुस्यस्योपरि कुड्यं स्यात् पादस्योपरि पादकम् ॥३५॥तलं प्रतिप्रस्तरं कुर्यात् पादं प्रत्यल्पनासिका ।वक्ष्येऽहं पादमानं च परिमाणं द्विजोत्तम ! ॥३६॥मूलहर्म्ये तु होमादि उत्तरान्तं यदुन्नतम् ।तन्मानं सप्तधा भज्य पक्षांशं तु धरातलम् ॥३७॥पंचांशं पाददीर्घं तु पादं सर्वांगसंयुतम् ।धरातलं तदुक्तं वा आर्जवं वा प्रकल्पयेत् ॥३८॥मूलहर्म्ये तु होमादि उत्तरान्तं नवांशके ।धरातलं द्विभागं स्यात् सप्तांशं चरणोदयम् ॥३९॥उत्तरान्तं तु होमादि रुद्रभागं विभाजिते ।अधिष्ठानं गुणांशं स्यात् शेषं पादोदयं भवेत् ॥४०॥मूलप्रासादतुल्यं वा चतु * * धरातलम् ।पादस्योत्सेधमानं तु षट्सप्ताष्टौ तु वा भजेत् ॥४१॥एकांशं पादविष्कंभं दारुर्वाश्ममयं तु वा ।तत्त्रिभागं द्विभागं वा त्रिपादं वार्धमेव वा ॥४२॥कुड्य पादस्य विस्तारं सर्वत्र परिकल्पयेत् ।मूलपादविशालं तु धर्मनन्दाष्टभाजिते ॥४३॥एकांशरहिताग्रं स्यात् मूलादग्रं क्रमात्कृशम् ।अग्रपादविशालं तु दण्डमित्यभिधीयते ॥४४॥दण्डं त्रिपादमर्धं वा क्रमाच्छ्रेष्ठान्तराधमम् ।उत्तरोत्सेधमाख्यातं विस्तारं मूलपादवत् ॥४५॥मध्यपादसमं वाथ अग्रपादसमं तु वा ।उत्तरव्यासमाख्यातं श्रेष्ठं मध्याधमं क्रमात् ॥४६॥उत्तरोच्च त्रिभागैकं वाजनोत्सेधनीव्रकम् ।उत्तरोत्सेध तुल्यं तु तुलानीव्रमुदाहृतम् ॥४७॥तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि ।वाजने वल्लिकोर्ध्वे वा तुलास्थापनमाचरेत् ॥४८॥तुलार्धनीव्रविस्तारं जयंती स्यात्तुलोपरि ।जयन्त्यार्ध विशालोच्चं मनुमार्गमुदाहृतम् ॥४९॥तुलान्तरं तुलोच्चं तु जयन्त्युच्चं तदन्तरम् ।अनुमार्गं तथा कल्प्य दण्डमानेष्टकान्तरम् ॥५०॥कपोतादीनि सर्वांगं प्रासादोक्तवदाचरेत् ।अथवा तुलोपरिष्टात्तु इष्टकास्तरुणा कुरु ॥५१॥जयन्त्योत्सेध वा विप्र इष्टकास्तारुणं कुरु ।सुधया गुलतोयैश्च इष्टकास्तरुणं कुरु ॥५२॥करालमुद्गी गुल्माष कल्कचिक्कणमाचरेत् ।इष्टकाकरणं ह्येतत् शिलाश्चेदुत्तरोपरि ॥५३॥शैलकैः फलकाभिस्तु छादयेत्तु विशेषतः ।वाजनोर्ध्वे तु वाच्छाद सुधाकर्म समाचरेत् ॥५४॥एवमादितलं प्रोक्तं ऊर्ध्वभूमिं वदाम्यहम् ।मूलाग्रस्तम्भ तुंगं तु धर्मनन्दाष्टधा भजेत् ॥५५॥एकांशं हीनमंघ्र्युच्चं तथैवोर्ध्वो भूमयः ।प्रस्तरं च तथा कार्यं एकानेकतलेऽपि वा ॥५६॥प्रस्तरोपरि कर्तव्यं भित्तिमेककरोदयम् ।छत्राकारं शिरोपेतं सभाकारमथापि वा ॥५७॥गोपांतं वाथ वारं वा संकल्प्याभ्यन्तरे द्विज ।मृल्लोष्ठैर्लोहलोष्ठैर्वा सारदारुमयैस्तु वा ॥५८॥गोपानाच्छादनं कुर्याल्लूपोपरि शिरोन्वितम् ।सभाकारमिदं ख्यातं लुपा वार विहीनकम् ॥५९॥मण्टपाकृतिरित्युक्तं प्रस्तरोर्ध्वे विशेषतः ।बाह्यकुड्यविहीनं तु मण्टपाकारमण्डितम् ॥६०॥छत्राकारमिदं ख्यातं यथेष्टं तेषु कल्पयेत् ।जाति पञ्चतलं ख्यातं छन्दं वेदतलं भवेत् ॥६१॥विकल्पं त्रितलं विद्यात् आभासं चैकभूमिकम् ।जात्यादीनां तु हर्म्याणां योग्यं सालातरं कुरु ॥६२॥मर्यादिसालं माश्रित्य पाश्वके पचनालयम् ।अथवा मध्यहारायां आग्नेय्यां पचनालयम् ॥६३॥नैर्-ऋत्यामायुधस्थानं वायव्यां शयनार्हकम् ।शांकरे यागशालास्यात् भ्रंशभागेऽथ वा बुधः ॥६४॥आग्नेय याम्ययोर्मध्ये कर्तव्यं मण्डनालयम् ।शक्रशंकरयोर्मध्ये मण्डनालयमेव वा ॥६५॥वाद्यस्थानं च तत्पार्श्वे भृंगराजपदेऽपि वा ।निर्-ऋति वरुणयोर्मध्ये धर्मश्रवणमण्टपम् ॥६६॥वरुणवाय्वोर्मध्ये तु पुस्तकाराधनालयम् ।तत्पार्श्वयोः प्रकर्तव्यं मण्डनालयमुत्तमम् ॥६७॥पचनालयपार्श्वे वा कर्तव्यं मण्डनालयम् ।सोमवायव्ययोर्मध्ये शस्त्राणामालयं कुरु ॥६८॥सोमशंकरयोर्मध्ये गौर्यावासं प्रकल्पयेत् ।तत्पार्श्वे शयनस्थानं पर्यंकेन समन्वितम् ॥६९॥पुष्पकर्तव्यमेवाथ महेशे पुष्पमण्टपम् ।ग्रहक्षतपदे कुर्यात् धान्यालयं द्विजोत्तम ॥७०॥परितो मालिकायां च एवमेवं प्रकल्पयेत् ।मालिकाभ्यन्तरे चैशे कूपस्थानमुदाहृतम् ॥७१॥अथवान्यप्रकारेण वक्ष्येऽहं देशनिर्णयम् ।शक्रशंकरयोर्मध्ये शालिस्थानमुदाहृतम् ॥७२॥शक्रस्यानलयोर्मध्ये धनवा समुदाहृतम् ।याम्य पावकयोर्मध्ये पुष्पमण्टपमुच्यते ॥७३॥याम्य नैर्-ऋतयोर्मध्ये स्नानाम्बुकोष्ठमुच्यते ।निर्-ऋतिवरुणयोर्मध्ये धर्मश्रवणमण्टपम् ॥७४॥वरुणवायव्ययोर्मध्ये त्वायुधस्थानमुच्यते ।वायव्य सोमयोर्मध्ये शयनस्थानमुच्यते ॥७५॥ईशानसोमयोर्मध्ये यागार्थं मण्टपं कुरु ।जयन्तेञ्जनशाला स्यात् आग्नेय्यां पचनालयम् ॥७६॥परितो मालिकायां तु सकलस्थानमुच्यते ।शांकरे नृत्तमूर्तिं च त्वाग्नेय्यां वृषवाहनम् ॥७७॥उमास्कन्दसहितं विप्र नैर्-ऋत्यां परिकल्पयेत् ।कंकालं वायुदिग्भागे भिक्षाटनं जयन्तके ॥७८॥सुखासनं तु सत्यांशे वितथे त्रिपुरान्तकम् ।सुग्रीवे हरिरर्धं स्याद् गन्धर्वे चन्द्रशेखरम् ॥७९॥शेषांशे मदनारिः स्यामुख्ये कालारिमूर्तिनम् ।दितयेत्वर्ध नारीशं इन्द्रे कल्याणसुन्दरम् ॥८०॥क्षेत्रपालस्तु पर्जन्ये याम्ये वै दक्षिणेश्वरम् ।वारुण्ये लिंगमुद्भूतं सौम्ये तु गजहारिणम् ॥८१॥इतोर्ध्वमालयं प्रोक्तं अन्तरालेषु कल्पयेत् ।मूलहर्म्यं तु संवीक्ष्य सकलस्थापनं कुरु ॥८२॥प्राकारेषु चतुर्दिक्षु द्वारशोभादि कल्पयेत् ।प्राकारतति मध्ये च दीर्घमध्ये च वेशनम् ॥८३॥अथवा मूलहर्म्यस्य मध्ये तद्वेशनांशंकम् ।प्रधानद्वारमेकं वा अन्ये वा जालकं द्विज ॥८४॥प्राकारमेवमाख्यातं बाह्ये वीधिं विधीयते ।एकद्वित्रिचतुष्पंच दण्डं वा विधिविस्तृतम् ॥८५॥तद्बाह्ये तद्गृह श्रेणी मानेन विधिना कुरु ।शैवानां परिचाराणा प्राच्यामावासमुच्यते ॥८६॥प्राच्यां वा याम्यदेशे वा देशिका वा समुच्यते ।दैवज्ञाम्बष्ठभिषजां वादकानां च याम्यके ॥८७॥निबन्धाभारजीवीनां पश्चिमे वा समुच्यते ।सर्वेषामपि भक्तानां वासमुत्तरपार्श्वतः ॥८८॥आग्नौ महाव्रतस्थानं याम्ये पाशुपतालयम् ।कालामुखं तु नैर्-ऋत्यां बौद्धालयं तु वारुणे ॥८९॥वायव्यां तु महस्थानं सौम्ये भूसुरसद्मकम् ।ज्ञानाभ्यासालयं कुर्यादैशान्यां तु विशेषतः ॥९०॥बाह्ये त्विन्द्रस्य दिग्भागे खातयेत्तु जलाशयम् ।याम्यपावकयोर्मध्ये जलदानप्रपां कुरु ॥९१॥याम्य नैर्-ऋतयोर्मध्ये गोशालां संप्रकल्पयेत् ।वरुणनैर्-ऋतयोर्मध्ये सुतिका वा समुच्यते ॥९२॥वरुणानिलयोर्मध्ये रोगार्तानां निवासनम् ।सौम्यानिलयोर्मध्ये बालशिक्षार्थमण्टपम् ॥९३॥सोमशंकरयोर्मध्ये गायकं मण्टपं भवेत् ।तद्बाह्ये परितो विप्र दासीनां गणिकादिनाम् ॥९४॥नृत्यगेयाभ्यवासानां क्रयविक्रय जीविनाम् ।चक्रिणां पुष्पजीवीनां कुलालानां तथैव च ॥९५॥मत्स्य मांसोपजीवीनां तन्तुकारं तु कोष्ठकम् ।नापितश्मश्रुकाराणां गोपालानां तु कारुणाम् ॥९६॥रक्षकानां गृहश्रेणी चापवत्से तु मेव च ।परितः कल्पयेद्धीमान् पूर्वादीनां वसानकम् ॥९७॥तद्बाह्ये त्वीशदिग्भागे वायव्यां वा श्मशानकम् ।दक्षिणे चोत्तरे बाह्ये चर्मकारादि वासकम् ॥९८॥तासां वासात्तु कर्तव्यं रजकानां निवासनम् ।तद्बाह्ये क्रोशमात्रे तु चण्डालश्रेणि रुच्यते ॥९९॥प्राकारलक्षणं ह्येतत् प्रोच्यते द्विजसत्तम ! ।इत्यंशुमान्काश्यपे प्राकारलक्षणविधिपटलः (द्विचत्वारिंशः) ॥४२॥ N/A References : N/A Last Updated : November 04, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP