भिक्षाटनकाव्यम् - एकोनचत्वारिंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
संगत्य रात्रिविरतौ कथमप्यवाप्त-
निद्राप्रसादसुलभेन महेश्वरेण ।
स्वप्नोपभोगमवदन्प्रमदाः प्रमोद-
त्सद्यो हरस्य हि मताय सखीजनाय ॥१॥
स्वप्नो हरेण रतिमद्य विधातुमीष-
सक्तस्त्वयारतकृपया प्रतिबोधिताहम् ।
सुप्तिं व्रजेयमधुनास्य समागमाय
भूयोऽपि नैव सखि मे प्रतिबोधिनी भूः ॥२॥
आलिङ्गिताङ्गमभयं शशिभूषणेन
स्वप्ने मया तु न स यन्न गले गृहीतः ।
ब्रीडावशस्तिमितया सखि हन्त पापा-
न्नोऽज्ञासिषं किमिति सुप्तिविजृम्भितं तत् ॥३॥
स्वप्ने हरेण विहितेऽपि तथैव भागे
नासीत्क्षतं वपुषि मे सखि हा हतास्मि ।
यन्नैव कृष्टमधरं न रतिक्षतस्य
क्षत्रं तदेवमुभयं फलहीनमेतत् ॥४॥
यः प्रस्थितो गतघृणः सखि चन्द्रमौलिः
स्वप्नागतः प्रथममेव मयोपगूढः ।
वीथीगतो यदि भवेत्रपयाभिभूता
तस्याग्रतो नहि यथैव पुरा भवेयम् ॥५॥
सुस्वप्नदर्शनफलं भवति प्रबोधे
पश्चादिति स्म कथयन्ति तदन्यथापि ।
स्वप्ने शिवस्य निशि वीक्षणमालि जातं.
तस्योपगृहनविधिं तदसूत सद्यः ॥६॥
स्वप्ने हरेण परिभोगरसेप्सुना मे
वासो गृहीतमिदमेव तदा विबुद्धम् ।
सख्यावयोरुपरि यानि विचेष्टितानि
ज्ञाता परं विषमसायक एव तेषाम् ॥७॥
यन्मे हरेण सह संगमसौख्यहेतौ
नेत्रोन्निमीलनदशां स्वयमाससाद ।
सोढा स्वयं विपदमर्त्यपहारकृत्यं
नेत्रोपमस्य चरिते किमुत स्वदृष्टेः ॥८॥
स्वप्नोपलम्भनदशा मम सैव नित्यं
भूयात्प्रजागरदशा सखि माददापि (१) ।
यस्थामवापदचलेन्द्रसुतैकशेषं
वक्तुः प्रजागरसुदुर्लभमीश्वरस्य ॥९॥
स्वप्ने शिवः सुदति संप्रति देहि भिक्षा-
मित्यूचिवानहमदामविलम्ब्य तस्मै ।
नैवाददे न गत[वान् ] सितमेव चक्रे
दत्ता मयास्य तु गले दृढमङ्कपाली ॥१०॥
यो वीक्षितोऽह(नि) निशि..."सुप्रलब्ध-
शर्याप्त(?) ..."मधिरिरंसुरिवाससाद ।
दृष्ट्वा तमाशु गलता वसनांशुकेन
जारायितं चिरनितम्वनिषेविणा'.." ॥११॥
आलम्व्यमानवसना सकलेश्वरेण
मुञ्चेत्यवोचमपतच्छिथिलोऽस्य हस्तः ।
स्वप्ने सखि क्षणत एव हतो भुजो मे
जग्राह कण्ठमयमस्तदयस्य तस्य ॥१२॥
स्वप्ने हरेण सति निर्दयमारयुद्धे
लुप्तो न चन्दनरसः कुचयोरयं मे ।
नैवाधरेऽपि दशनक्षतमीक्ष्यते य-
ज्जाग्रग्गतादपि वरं सखि सुप्तभोगः ॥१३॥
आविस्मितेन गिरिशेन हृता स्म लज्जा
निद्रागमे सखि गृहीतकराभ(ह)मासम् ।
आमूलकण्टकितपङ्कजनालकल्प-
मद्यापि पश्य चरितार्थमिदं प्रकोष्टम् ॥१४॥
रत्युत्सवाय मम लम्बितमीश्वरेण
वासोऽनिशं रति ....... समागतेन ।
बोधेन तद्गलितमैक्षत हन्त गन्तुं
सोऽयं पुरा न खलु तिष्ठति चन्द्रमौली(लिः) ॥१५॥
निद्रेव जीवितसखीं मनसैव सख्यो
यूयं मृषाप्रणयसंवरमाचरन्त्यः ।
या दुर्लभं गिरिसुतावरमद्य दूरा-
दानीय मे शयनमध्यगतं चकार ॥१६॥
निम्नीकृतस्तनयुगं विहितोपगृह-
स्वप्नागतेन यदहं परमेश्वरेण ।
तेनैव हारगलिताः सखि पश्य मुक्ताः
सत्यं भवत्यनृतमेव कृतं शिवेन ॥१७॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नोक्तिपद्धतिरेकोनचत्वारिंशत् ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP