भिक्षाटनकाव्यम् - द्वितीया पद्धतिः।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
भिक्षाटनेन पुरुहूतपुराङ्गनाना-
माकस्मिकोत्सवविधायिनि भूतनाथे ।
तासामनङ्गशरजर्जरमानसानां
नानाविधानि चरितानि वयं वदामः ॥१॥
रथ्यागतस्य गिरिशस्य विलोकनाय
निर्गन्तुकाममनसो(?) वनितागृहेभ्यः ।
नैजाभिरूप्यगुणदर्शितपौनरुक्त्य-
माचार इत्यभिमतं परिकर्म चक्रुः ॥२॥
चन्द्रस्य संचितकलस्य शरत्प्रसादो
गन्धद्विपस्य च पुनर्मदिरोपयोगः ।
प्रागेव यौवनपरिष्करणे शरीरे
भूरोऽपि भूषणविधिः प्रमदाजनस्य ॥३॥
लाक्षानियतुमवलम्बितमात्र एव
सख्या रेण तरुणाम्बुजकोमलेन ।
ईशान्तिकब्रजविघ्नभुवा रुषेव
कस्याश्चिदग्रदमाशु बभूव रक्तम् ॥४॥
कस्याश्चिदग्रपदमाशु सखी विधाय
लाक्षाक्र(क्त)मेकमारग्रहणे प्रसक्ते ।
आरञ्जितेतरविवेकमपारयन्ती
कर्तुं मुहूर्तमनयोः स्तिमितावतस्थे ॥५॥
कस्याश्चिता(दा)यतदृशश्चरणारविन्दे
नैपथ्यकर्मनिपुणेन सखीजनेन ।
आमुक्तमेव मणिनूपुरमुन्मदस्य
मुक्तक्षणेन निगलो मदनद्विपस्य ॥६॥
काचिद्गतित्वरणलुप्तमतिश्चकार
चूडामणिं चरण एव चकोरदृष्टिः ।
यः स्थापयत्यसम एव पदे स्वमूर्ध्ना
संभाव्यमस्य किमहो न जनस्य हास्यम् ॥७॥
उद्दामदामकरचापविकल्पमौष्टिं
पुंवर्गचित्तमृगवञ्चनमार्गरज्जुम् ।
काञ्ची मदीयवलयान्न बहिः पुमर्थ
इत्यूचि(चु)षी कलरवेण बबन्ध काचित् ॥८॥
तां दिव्यसिन्धुपुलिनाकृतिभाजि काचि-
त्काञ्चीं नितम्बफलके कलयांचकार ।
उत्तीर्णभीमजननाम्बुधयोऽपि मुक्ता
यामाश्रिता जघनसंगमकौतुकेन ॥९॥
मुक्तेरपि प्रियतमाजघनोपभोगः
श्रेयान्न मृग्यमिह वस्तुनि नः प्रमाणम् ।
तत्पश्यतायतदृशा रशनाकलापे
मुक्ता अपि स्वयमहो पुनरेव बद्धाः ॥१०॥
पीनस्तनद्वितयधारणकर्शितस्य
मध्यस्य मण्डनविधीन्न चकार काचित् ।
निःशङ्कमन्यभरनिर्वहणैकजाता-
कार्यात्परं न खलु भूषणमस्ति किंचित् ॥११॥
हारेण च स्तनयुगं परिभूष्य पीन-
मत्यायतं च जघनं रशनागुणेन ।
मध्यस्तु हन्त न कयापि विभूषितोऽभू-
द्रिक्तिः सतां हि रविनैव हि माननीयः ॥१२॥
पङ्कोद्भवत्वपरिवादभयान्मृगाक्ष्या
जातं सरोजयुगलं कुचवेशधारी ।
शक्यं न धातृविहितं परिहर्तुमस्य
भूयोऽपि येन घनचन्दनपङ्कलेपः ॥१३॥
तस्मानि(?) शङ्खवलयानि करे कयाचि-
त्तानीन्दुखण्डघटितानि ममैष तर्कः ।
यस्या निसर्गमृदुपाणिसरोजमेषा-
मामोचने झटिति यन्मुकुलीवभूव ॥१४॥
एकावलीकलितमौक्तिककैतवेन
कस्याश्चिदुन्नतपयोधरयुग्मसेवाम्॥
चक्रुर्मनांसि यमिनामतिनिर्मलानि
कंदर्पमुक्तशरपातकृतान्तराणि ॥१५॥
दास्यामि हारहरिचन्दनकुङ्कुमानि
दाक्ष्यं यदा हरवशीकरणं तदा ते ।
इत्यात्मनः स्तनमुपांशु निगद्य काचि-
त्सर्वेतराङ्गपरिकर्मविधिं चकार ॥१६॥
नूनं विदग्धजनकृत्यमतर्क्यपाकं
लाक्षारसप्रणयिना वनिताजनेन ।
कस्याश्चिदोष्ठपुट एव कृतः समस्तं
यूनां मनः सपदि लम्भितरागमासीत् ॥१७॥
काचित्स्वकीयदशनानि विशोधयन्ती
बिम्बाधरोष्ठरुचिसंगमपाटलानि ।
आदर्श एव परिवारजनोपनीते
दृष्ट्वा न जात्वपि पुनर्विरराम रामा ॥१८॥
प्रागेव मोहनमथाञ्जनयोजनेन
चक्रे तथा मृगदृशो नयनं सखीभिः ।
पश्यन्यथा युवजनो गलमीश्वरस्य
निःशेषलुप्तगरलं गणयेदशेषः ॥१९॥
साम्ये मिथः स्थितवतोऽभ्युपने(?) नराणां
वैषम्यबुद्धिरुभयोः समदर्शनेन ।
इत्याकलय्य किल कापि विलोचनान्ते
कर्णद्वये गलितमुत्पलमाततान ॥२०॥
नामार्द्रचन्दनरसेन सखीललाटे
लेखां मदालसदृशो विदधे विदग्धा ।
यां वीक्ष्य शंभुरपि मुग्धजटाशशाङ्के
शङ्काकुलीकृतमनाः स्वकरं चकार ॥२१॥
मा जातु राहुपरिभूतिरतर्क्ययोगा-
न्मा भूत्क्षयः किमपि मा च कलङ्कयोगः ।
कस्याश्चिदेवमभिधाय मुखेन्दुबिम्बं
रक्षामयं तिलकमाप्तजनश्चकार ॥२२॥
कस्याश्चन प्रचुरकेशभरे जलाद्रे
जाड्यास्पदं तरुणवर्गमनो बभूव ।
कालेयधूपजुषु(षि) धूपितमात्तपुष्पे
पुष्पाविद्धमथमङ्घ्री(?)निबद्धमेव ॥२३॥
इत्युत्प्रेक्षाबलभकृती भिक्षाटनकाव्ये मण्डणपद्धतिद्वितीया ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP