भिक्षाटनकाव्यम् - पञ्चमी पद्धतिः ।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
यत्रागतिः पशुपतेनगरप्रवेशे
तत्रैव धावनपरस्य वधूजनस्य ।
संजल्पितानि पथि यानि मिथो बभूवु-
रेतानि सन्तु रसिकश्रुतिपारणाय ॥१॥
पादाम्बुजं सखि तवेदमियं धरित्री
सद्यः परागपरिधूसरितं विधाय ।
पद्मेन शोच्यजननेन समीकरोति
सत्यं भवत्यसमसाम्यकरस्त्रिसङ्गः ॥२॥
मामप्यपेतकरुणे परिपाल्य याहि
शंभुं विलोकयितुमुत्सुकतामतीव ।
1पत्न्यां विलासगमनं न परत्वयातं
हंस्या गती विधति पक्षतिसाधिता च ॥३॥
हारो न(न्व)यं कुचभरे निहितो भवत्या
प्रस्थानसंचरितया तदतीव भद्रम् ।
आलिङ्गनं यदि करिष्यसि भूतभर्तु-
र्माद्र(भूत्)त्वदीयदृढमौक्तिकमर्मतोदः ॥४॥
मञ्जीरमालि चरणाश्रितमेतदेता-
वाहूय मञ्जुनिनदैर्गमने त्वदीये ।
वाञ्छा तवात्तव मदालसया न चौर्ये
चोरायते ग्रहसरः कलहंसकानाम् ॥५॥
मुक्तावलीं करतले दयती खकण्ठे
विस्तृत्य कर्तुमबले त्वमतीव भासि ।
मन्त्रेण साधयितुमात्मयतेः शरीरं
वाञ्छावती रतिरिव स्फटिकाक्षमालाम् ॥६॥
1मर्द्नर्नदीयस्य शरधिद्वयमस्तमूर्ते-
र्जङ्घात्मना परिणतं तव यद्धुवं तत् ।
नो चेत्कथं मदनवैरिसमीपयाने
जङ्घायुतस्य गतिरालि विलम्बिनी ते ॥७॥
वामे पदे निहितमार्द्रमलक्तकं ते
चान्यत्र यत्तदतिसुन्दरमेव मन्ये ।
येनाद्य लब्धनपरापरिकर्म साम्यं
नारीविमिश्रवपुषः परमेश्वरस्य ॥८॥
किं चित्रमत्र जघनं परमुद्वहन्त्या
मद्री(न्दी)भवन्ति यदि ते गतयो वराङ्गी (ङ्गि) ।
यद्वीक्षणेऽपि गतधैर्यगुणा युवानो
गन्तुं मनागपि पुनर्नहि शक्नुवन्ति ॥९॥
शंभोरवेक्षणमहोत्सव एव लप्स्ये
नायाति शीघ्रमिदमालि पदाम्बुजं ते ।
ज्ञातं मम दृ(द्रु)तगतेश्च फलं प्रयत्ना-
त्संलप्स्यते नयनयुग्ममितीर्ष्य एव ॥१०॥
विस्मृत्य यावकमकारि हरीन्द्र(रं दि)दृक्षो-
र्नैवाधरे तव यमस्य(१) तदालि युक्तम् ।
आत्मोपयुक्तगरलौषधिपानकामः
पास्यत्यवस्य(श्य)मधरामृतमिन्दुमौलिः ॥११॥
प्रागेव 1बन्धरुचिलोचनकान्तिचौर्ये
नीलोत्पलं यदकरोः सखि नाद्य 2कन्ये(?) ।
बुद्धिभ्रमादिदमभूदिति मा विषादः
कस्तस्करं निजगृहाधिपतिं करोति ॥१२॥
इन्दुर्मुखं कुचभरो गुरुरेव दत्तः
शुक्लोऽधरश्च तव लोहित एव जातः ।
एवं गृहात्मवपुषः सखि तत्र चित्रं
यत्पादयोरपि शनैश्चरता तयोस्ते ॥१३॥
मा भूत्तवालि गिरिशस्य विलोकनाय
यान्त्या न मण्डनमकारि मयेति लज्जा ।
धत्ते विलासिजनलोचनपेयमेत-
न्निर्मक्षिकं मधु निराभरणं शरीरम् ॥१४॥
मात्रैव ते गतिनिवारणमग्रतोऽभू-
त्सद्यस्तदा परिहृतं सखि बाष्पपूरैः ।
शक्ता न गन्तुमधुनासि नितम्बभारा-
द्दोषो निसर्गजनितः परिहारहीनः ॥१५॥
हस्तस्थितां तु सखि ते नवपुष्पमालां
मा विस्तृता शिरसि कर्तुमिति स्म खेदः ।
दृष्टे शिवे सपदि तस्य कुतूहलेन
कर्णे निधातुमुचिता वरणोत्सवाय ॥१६॥
त्याज्या सखि दृ(द्रु)तगतिः कुचभारतोऽयं
संशय्यतां तव यया समुपेति मध्यः ।
अस्मिञ्जगत्यसुलभः सगुणादिरूढः
कार्ये निजे भवति यः परधारणाय ॥१७॥
नैष्पल्यशंकरवशाजनभिर्हितोद्य
यन्निर्मितौ शतधृतेरतिमात्रयत्नः॥
अस्य त्वदीक्षणयुगस्य विशालता सा
साफल्यमेष्यति शिवस्य विलोकनेन ॥१८॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये निर्गमनपद्धतिः पञ्चमी ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP