भिक्षाटनकाव्यम् - षटत्रिंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
विश्लेषितैर्युवतयो विरहे त्रियामं
निन्युः सुदुःसहवियोगनितान्तदीर्घाम् ।
तेषां विचक्षणवचस्युपवर्णनेन
वाणीमिमां वयममी चरितार्थयामः ॥१॥
कस्याश्चिदिन्दुमलयानिलचक्रवाक-
केङ्कारसंतमसकैरवसौरभाद्यैः ।
विश्लेषवंशमथनैर्निचिते निशीथे
मूर्छाप्रसादकृत एव हि जीवलाभः ॥२॥
प्रत्यग्रपुष्परचिते शयने न शिश्ये
नाश्लिष्ट (2) कुत्र च न चैव सखीं बभाषे ।
नापि क्वचिस्थितिमती न ययौ न विद्मः
किं किं विधाय विधुरा रजनीमनैपीत् ॥३॥
चन्द्रक्षयं भव मुहुर्भुजगामिषस्य (?)
भूयाः कलङ्कनिलयो जलतां भजस्व ।
कस्याश्चिदित्यपुनरुक्तमुदीरिताभिः
शापोक्तिभिः सह निशाविरतिं प्रपेदे ॥४॥
तच्च्चिन्तनैस्तदनुबन्धिकथाप्रसङ्गै-
स्तत्संगमानुगुणकर्मनिरूपणाभिः ।
तन्नामभाषिशुकसंहननैश्च काचि-
द्रात्रिं निनाय रहिता परमेश्वरेण ॥५॥
पर्याप्तशीकर" "मण्डलतालवृन्ता
नीरन्ध्रसंस्तवदृढप्रणया सखीव ।
कस्याश्चिदीशविरहव्यसने प्रवृत्ते
पार्श्वं न जातु विजहौ विपुला त्रियामा ॥६॥
संतप्तमूर्तिरतिशीतलरांजरम्भा
शंभोस्ततार रजनीचरितं वियुक्ता ।
किंतु च्युते दयितपोतदृढौपगूढे
यस्मान्न भावि पुनरुत्तरणं वधूनाम् ॥७॥
व्याजोक्तिभिश्च गमनाय गतिप्रसक्ता-
माहूय शंकरवशीकृतिशास्त्रिभिश्च ।
दूतीं प्रकृत्य पुनरेव पुनः कृताभि-
र्याता निशा मृगदृशो न तु सा प्रयाता ॥८॥
पौष्पैः शरैः प्रहरतो रतिनायकस्य
पुष्पास्त्रविद्धवपुषश्च मृगेक्षणायाः ।
प्रायेण नैव निशि सुप्तिरभूत्तथापि
मूर्छासु सा विरहितापि निमीलिताक्षी ॥९॥
किं कालरात्रिरथवा किमु कालदूती
किं पापसंहतिरनेकविधप्रवृत्ता।
किं मर्मकृन्तनकरी शितहेतिरेषे-
त्येका व्यलङ्घयदपोक्तिभिरेव रात्रिम् ॥१०॥
चन्द्राभिधानवडवाग्निमदृष्टपारं
कंदर्पकेतुमकरभ्रमणातिभीमम् ।
अच्छिन्नबन्धहरचिन्तनसेतुनैव
काचिद्गभीररजनीजलधि ततार ॥११॥
शैत्यार्थिनी कुसुमतल्पमवाप पूर्वं
पश्चात्प्रवालशयनं तदपि प्रमुच्य ।
श्रीकण्ठकण्ठसरसीमतिशक्यहेतोः
काचिद्गतामभिनवैश्च निशां निनाय ॥१२॥
वापीमवाय नवचन्दनपङ्कलिप्ता
प्रत्यग्रपुष्पशयनात्पुनरेतदस्याः ।
इत्थं द्वयोरपि तयोररतिं वहन्ती
काचिद्गतागतगतेन निशां निनाय ॥१३॥
यस्याः क्षणादपगतिं हरविप्रयुक्ता
यस्याश्च काचन समागममाशशंस ।
न प्रस्थिता च रजनी न समागता वा
निद्राविधातरि विरोधिनि नेष्टसिद्धिः ॥१४॥
एकक्षणप्रतिस..."दिवसार्जवेन
योगान्निशा च विरहादपनामदीर्घः ।
ताभ्यां विवर्जितरहो दिवसक्षपाभ्यां
देहं विचिन्त्य विरहिण्यपरा चचार ॥१५॥
आलम्बिते प्रियसखीभिरथात्मनापि
पर्यायतः क्षणमशान्तिवशेन मुक्तैः ।
बाला शिलामिव विशालतमां कथंचि-
त्काचिद्गुणैः पुरजितो रजनी चकार ॥१६॥
शक्येतराय गिरिशाय रुचैर्वचोभि-
र्दौत्याय जीवितसखीमपरा न्ययुङ्क्त ।
प्राणव्यये विरहिणी रजनीमशेषां
तस्याश्चिरायितवशेन चिरायते स्म ॥१७॥
गौरीपतेरथ च चौर्यमवेक्ष्य काचि-
द्रात्रिं निनाय निखिलामपि जागरेण ।
लब्धेऽपि रक्तकुमुदिन्यवितन्द्रगङ्गा
जागर्ति तस्करजनो निशि पुष्कलोऽपि ॥१८॥
काचित्क्षपां क्षपयितुं विपुलां सखीभिः
संप्रस्तुतस्य वृषवाहनकीर्तनस्य ।
आकर्णनेन चरमेतरयोः प्रवृत्तां
संध्यां द्वयोरपि तयोर्युगपद्ददर्श ॥१९॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः षट्त्रिंशत् ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP