भिक्षाटनकाव्यम् - पञ्चविंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
निष्प्राप एव गिरिशे विहितस्पृहाणां
वामभ्रुवामतिविभेदनकारणेन ।
आप्तो जनो रहसि यानि जगाद तानि
प्रत्यूषिरै (?) सह वदामि पुनस्तदीयैः ॥१॥
इन्दीवराक्षि विषमाक्ष इति प्रसिद्धे
मा त्वं कृथाः पुरविरोधिनि पक्षपातम् ।
वैरूप्यमेव सखि तस्य चिराय काङ्क्षे
येनायमन्यवनिताजनवर्जनीयः ॥२॥
कण्ठे हरस्य न वरं परिरम्भणं ते
हारोरगेण न कदापि यदेष शून्यः ।
त्राता पयोधिगरलादपि येन लोका-
स्त्रातुं न मामहिविषातिकिमयं समर्थः ॥३॥
यः कामदेहदहनाद्विरसः प्रसिद्ध-
स्तस्मै कुतः स्पृहयसि त्रिपुरान्तकाय ।
कोऽन्यः क्षमेत मदनुग्रहमन्तरेण
रक्षां विधातुमिव मन्मथपीडितानाम् ॥४॥
आश्लेषणेषु कथमिच्छसि शंकरस्य
भस्मक्रयं सुरभिणा कुचकुङ्कुमेन ।
न्यूनार्धमेव भसितादपि कुङ्कुमं त-
दर्धस्थितिः परमभिज्ञम(कृ)तैकमन्त्रात् ॥५॥
येनार्धगात्रमनुरागवशाद्वितीर्णं
कस्यैचिदेनमधिकामर(य)से किमर्थम् ।
चक्रे ध्रुवं स पुनरर्धशरीरदाना-
दन्याङ्गनाप्रणयसंगमनाभ्यनुज्ञाम् ॥६॥
भूलोकभृङ्गवनिता यदि दिव्यपुष्प-
माघ्रातुमिच्छति तथा हरसंगमस्ते !
अस्माकमक्षिविषयः सहसैव योऽभू-
कि संभवेन्न विरहेण समागमोऽपि ॥७॥
पाणिं हरेण यदि वाञ्छति गृह्यमाणं
भीरु त्वयाप्युरगकौतुकमेव बद्धम् ।
सत्यं तदेव दृढकौतुकबन्धिने(न्धनं) मे
व्यर्थः करे शिथिलकौतुकतन्तुबन्धः ॥८॥
भर्तारमिच्छसि शिवं यदि तेन सार्धं
वस्तव्यमालि नियतं पितृकारणे (कानने)षु ।
एणीदृशां हृदयवल्लभसंनिधाने
सौधस्थलस्य विपिनस्य च को विशेषः ॥९॥
हित्वा तपांसि परुषाणि हरो दुरापः
कर्तुं क्षमे न खलु तावकमन्तमेतत् ।
मुग्धे तदीयविरहानलतीव्रतापा-
दस्मादसातरमस्ति तपः किमन्यत् ॥१०॥
शैलात्मजैव हरमर्हति कामिनीषु
मुग्धे कथं कथय तेन समागमेच्छा ।
अर्हेतराणि गणनापरवेषवन्ति
सर्वोऽपि सर्वमपि वाञ्छितुमर्ह एव ॥११॥
उन्मादिनी त्वमिति निश्चितमालि किंतु
तन्मात्रवेषचरिते यदि ते रिरंसा ।
उन्मादिनी यदि भवेयमहं तथा त्वं
नो मन्त्रशिक्षणविधिः प्रकृतिस्थितानाम् ॥१२॥
गौरी विना सखि कदापि न शंभुरास्ते
कालोऽन्यया सह न तस्य समागमाय ।
रात्र्या सहैव चरि(र)तो दिवसस्य नित्यं
किं संध्यया न सममस्ति मुहूर्तयोगः ॥१३॥
व्रीडां तनोति मदिराक्षि विशेषतोऽपि
वामभ्रुवामननुरागिणि रागबन्धः ।
श्लाघावहो भवति नैव किमापगाना-
मम्भोनिधेरुपरि यस्त्वयमेव पातः ॥१४॥
कामं हरः सुलभ एव विहाय भूतिं
सापत्न्यमिच्छसि कथं जगतां जनन्याः ।
अस्थानधावनपरस्य मनोभवस्य
प्रायेण नैव हि जलस्थलयोर्विपातः ॥१५॥
गौर्याः पुरो वहति यः शिरसैव गङ्गां
विसम्भभूमिरियमालि कथं परस्य ।
स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ
तस्मिन्ममापि खलु पाक्षिकलोभशङ्का ॥१६॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽतिदीनोक्तिप्रयुक्तिपद्धतिः पञ्चविंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP