संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
चतुर्दशी पद्धतिः

भिक्षाटनकाव्यम् - चतुर्दशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


श्लाध्येन भैक्षचरणेन चिरं विहृत्य
रथ्यासु कालदमने गमनप्रवृत्ते ।
जातानि तस्य पुर एव नितम्बिनीनां
विश्लेषभीतिकलुषानि(णि) विचेष्टितानि ॥१॥

गन्तुं प्रवृत्तमवलोक्य वृषाङ्कमेका
बालाम्बु नेत्रयुगुले प्रचुरं बभार ।
तस्यास्तदीयनयनानि पुनर्विदाहा-
त्रस्यन्निव क्षणमलक्ष्यत पञ्चबाणः ॥२॥

साकृतमैक्षत हरं मुहुरेव काचि-
द्विश्लेषवन्दननिमीलनपादपद्मा ।
संज्ञां सरोरुहनिमीलनयोग्यकाले
भूयः समागममवेक्ष्य वितन्वतीव ॥३॥

मन्दस्मितैरकलितोत्तरमीशमन्या
देहीन्द्रनीलमिति कण्ठगरं ययाचे ।
आगामितं झटिति तीव्रवियोगतापं
तेनैव कर्तुमभिवाञ्छय किलाढ(ढ्य) बुद्धिः ॥४॥

1काचित्पतिं गतिविषक्तमवेक्ष्य चिह्नैः
का मां तथास्त्वथ च कापि ममास्ति मीति ।
एते गमे हृदयगेहमहं प्रविष्टो
मां निर्गमेदिति विलोचनमामिमील्य ॥५॥

मा गा इति व्यवसिता वदितुं कयापि
सद्यो निरोद्धुमपि दत्तभुजार्गलेन ।
नानुष्ठितं गमनकाङक्षिणि भूतनाथे
ह्रीयन्त्रिणा(ता) भवति. नैव मनःप्रवृत्तेः(त्तिः) ॥६॥

2हस्तं मम त्वगलितं वलयं न जाने
भिक्षाकपालमिह नायक दर्शयेति ।
काचिच्चकार हरयानमुहूर्तविघ्नं
भिक्षुः शिवोऽपि परिभूतिपदं जगाम ॥७॥

वीथीविमोचनगतिव्यवसायमेका
दृष्ट्वा हरं विरहतश्चकिता चकार ।
तत्संनिधावपि निमील्य निमीत्य चक्षु-
र्यत्नेन भावितदवीक्षणसाम्यशिक्षाम् ॥८॥

तावत्रयात्वरितपार्श्वगतिं मृ(तिर्मु)गाक्ष्या
तावच्छलादसकलानि विलोकितानि ।
वीथीपरिभ्रमणकेलिविपक्षभूतो
यावत्प्रभोर्निंगमने जनिता(ना)भिलाषः ॥९॥

अन्तर्ज्वरस्व (श्व)सितमूर्ति(मि)तमेव भूया-
न्गण्डस्थले धवलिमा दृशि चान्य(बाष्प)पूरः ।
जाते हरेण सुदृशो विरहप्रतापा-
त्पूर्वं फलं तदनु हेतुरहो विचित्रम् ॥१०॥

किंचिन्निरर्गलविनिर्गतबाष्पपूरै-
राशङ्कितं हरवियोगहरं सखीभ्यः ।
दृष्टिर्ममेयमलकच्युतपुष्परेणु-
स्पृष्टेत्यपृष्टवचनैः प्रकटीचकार ॥११॥

प्रस्थानमिन्दुशकलाभरणस्य काचि-
दासन्नमेव विगणय्य भवेन मुग्धा ।
आदर्शमापतिततत्प्रतिबिम्बहृद्य-
मङ्गेष्वनङ्गविवशेषु मुहुर्न्यधत्त ॥१२॥

भग्नस्य शङ्खवलयस्य ममैतदेक-
मर्थं निराय(प्य) मृगये तदिह द्वितीयम् ।
यन्मूर्ध्नि ते कुटिलभास्वरमेतदद्य
संदर्शयेति वनिता गिरिशं रुरोध ॥१३॥

स्वच्छन्दरागरसिकस्य गतिर्वि(गति नि)रोद्धुं
शक्तास्मि ते मलयमारुततुल्यवृत्तेः ।
अस्याः स्मरार्तिरियतीति सखी प्रदर्श्य
प्रस्थायिनं हरमवोचदुपांशु काचित् ॥१४॥

सद्यः प्रयाणकरुणोद्यमगम्यमन-
नैरस्यमार्द्रयितुमेव मनस्तदीयम् ।
पेतुः पिनाकिनि मुहुर्मृगलोचनाया
बाष्पोदयान्तरितलोचनवीक्षितानि ॥१५॥

काचित्प्रसक्तगमना गिरिशं प्रतस्थे
छायाप्रविष्टवपुषा मुकुरे निधाय ।
तं सर्वथा सुलभमेव विबुध्यमाना
नारी 1वियोगहरविह्वलतां जगाम ॥१६॥

लीलाम्बुजे मम रमस्व यथेष्टमस्मि-
न्मा गच्छ षट्पद परिभ्रमणेन किं ते ।
इत्याशु कापि गिरिशस्य गतिप्रसङ्गे
भृङ्गाश्रयं गतिनिषेधवचे(?) जगाद ॥१७॥

आशासमुल्लसितपीनपयोधराग्रा
नानाधरस्फुरणदर्शितशङ्ककोपा ।
काचिद्बभूव गतिकाङ्क्षिणि नीलकण्ठे
बाष्पाम्बुदुर्दिनमुखी जलदागमश्रीः ॥१८॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विश्लेषारम्भपद्धतिश्चतुर्दशी।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP