संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्| एकोनत्रिंशी पद्धतिः भिक्षाटनकाव्यम् प्रथमा पद्धतिः। द्वितीया पद्धतिः। तृतीया पद्धतिः । चतुर्थी पद्धतिः । पञ्चमी पद्धतिः । षष्ठी पद्धतिः । सप्तमी पद्धतिः । अष्टमी पद्धतिः । नवमी पद्धतिः। दशमी पद्धतिः। एकादशी पद्धतिः द्वादशी पद्धतिः त्रयोदशी पद्धतिः चतुर्दशी पद्धतिः पञ्चदशी पद्धतिः षोडशी पद्धतिः सप्तदशी पद्धतिः अष्टादशी पद्धतिः एकोनविंशी पद्धतिः विंशी पद्धतिः एकविंशी पद्धतिः द्वाविंशी पद्धतिः त्रयोविंशी पद्धतिः चतुर्विंशी पद्धतिः पञ्चविंशी पद्धतिः षड्विंशी पद्धतिः सप्तविंशी पद्धतिः अष्टाविंशी पद्धतिः एकोनत्रिंशी पद्धतिः त्रिंशती पद्धतिः एकत्रिंशी पद्धतिः द्वात्रिंशी पद्धतिः त्रयस्त्रिंशी पद्धतिः चतुस्त्रिंशी पद्धतिः पञ्चत्रिंशी पद्धतिः षटत्रिंशी पद्धतिः सप्तत्रिंशी पद्धतिः अष्टत्रिंशी पद्धतिः एकोनचत्वारिंशी पद्धतिः चत्वारिंशी पद्धतिः भिक्षाटनकाव्यम् - एकोनत्रिंशी पद्धतिः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : bhikshatankavyamSanskritभिक्षाटनकाव्यमसंस्कृत एकोनत्रिंशी पद्धतिः Translation - भाषांतर नारीजनो हरवियोगमहोपशान्त्यैशीतक्रियां प्रियसखीषु वितन्वतीषु ।निःशृङ्खलद्विगुणवर्धिततीव्रताप-स्तत्कृत्यभूषणपरामिति वाचमूचे ॥१॥शीतक्रियां फलवतीं यदि कर्तुमास्थासख्यौ मदीयमुखतः शृणुताभ्युपायम् ।आनीय शंकरमिहाद्य मदीयपार्श्वेकार्यास्ततो नु विविधाः शिशिरोपचाराः ॥२॥सत्यं त्वया प्रकटितो मयि भावबन्धःशीतक्रियासु विरमाद्य वृथाप्रवृत्तेः ।शक्नु (क्य): कथं शमयितुं सखि निर्विकल्प-कल्पावसानदहनश्चुलुकोदकेन ॥३॥जीहागधेन(?) हरिचन्दनसौरभेणसान्द्रेण किं तव दिगन्तविजृम्भितेन ।बद्धादरः पुरुषभस्मविलोच (लेप)नेऽपियत्तत्पराङ्मुखमना जगदेकनाथः ॥४॥किं चन्दनेन किमु पल्लवसंस्तरेणकिं मु(मौ)क्तिकैर्बिसगुणैरथ भूषणैर्वा ।मूढे सखि प्रियसमागम एव यद्वामारज्वरस्य मरणं शिशिरोपचारः ॥५॥प्रारभ्यते प्रतिविधिः सखि यो भवत्यामूर्छासु मे हरसमानधनं विनान्यः ।काराग्रहाज्झटिति निर्गमतो जनस्यद्वारोपरोध (नपरेण) शठेन तुल्यः ॥६॥आदित्यतापसदृशं विरहोष्मतापंबुद्धेव या प्रयतते शिशिरोपचारे ।सा त्वं पयोधिसलिलैर्वडवामुखाग्नेःशान्ति करोष्यपरवह्नि ससंभ्रमेण ॥७॥साम्यं प्रतीत्य सखि सांप्रतमन्यरोगै-स्तस्येदृशः प्रतिविधानमनोरथस्ते ।सोऽयं पुनः स्मरगतो विपरीतवृत्ति-र्यस्यैक एव जनकश्च निवारकश्च ॥८॥क्रीडाशुकं सखि कलीनवचांस्यजस्रंजल्पन्तमेनमपसारय शीघ्रमेव ।अस्या न शिक्षणगिरं मुहुरुद्गिरन्त्याकार्यस्त्वयापि मम संनिधितोऽपसारः ॥९॥निर्वापणं सरसवस्तुभिरेव कर्तुंमूढैः किमस्य सखि वाञ्छसि चन्दनाद्यैः ।किं त्वं न वेत्सि सरसेषु मनोभवाग्नि-वृद्धिं प्रयाति सुतरामिति लोकवादः ॥१०॥और्वानलं जलनिधेर्नहि शक्यते यै]-र्हेतुं दवाग्निमथवा न वनद्रुमाणाम् ।तैर्मोक्तिकैः किसलयैरपि तैरिदानींशक्यः कथं शमयितुं सखि मन्मथाग्निः ॥११॥ये शीतलप्रकृतयो भुवने पदार्था-स्तेऽप्यद्य हन्त मयि तापकरा मदाद्याः ।यः सर्वसर्गनिकरे निपुणः स वेधाःकर्तुं क्षमो न किमयं गुरुवैपरीत्यम् ॥१२॥शय्यां करोषि मम तापनिवृत्तये चे-दादित्यमैत्र्यजनितौष्ण्यगुणैः सरोजैः ।सख्यावयोर्ह्रदयजीवितयोरभेदा-न्मारज्वरो मयि घनस्त्वयि हन्त मोघः ॥१३॥यं पन्नगारिनिविषोष्मनितान्ततप्ताःश्रीकण्ठपादपमिवानिशमाश्रयन्ते ।अन्तर्ज्वरं शमय मे सखि तस्य शंभोःकाराग्रहान्नहि वरः शिशिरोपचारः ॥१४॥काव्यमाला।नैवामुना श्रुतिकटुक्वणना शुकेननैव…….. त्वयानुपम "व्यदधानयापि ।नीतौ युवां हितविधायि पदं यथैवमन्ये मयैव सखि संप्रति मेऽपराद्धम् ॥१५॥हारस्त्वया सखि कृतो यदि मे मृणालै-र्वीरे न केन यदि वा विदितं मयैव ।नाथेन वक्षसि धृतो यदतो ममाशुसंतापहार्यपि भवेत्स भुजङ्गहारः ॥१६॥मत्तेव(त्तोऽव)गच्छ सखि संप्रति 1शीतविद्यांविश्लेषिणीमलमलं विफलक्रियाभिः ।लोके सुखप्रदतया प्रथितानि यानितैर्वस्तुभिर्वरण एव परं भिषज्या ॥१७॥प्रारम्भतोऽपि पुरतः परपीडनानांयान्त्या पदं स्वयमकारणरूढवैराः ।यन्मां वियोगविधुरां परितप्तकामोनिष्पीड्यते मम(?) यतो भवतीभिरद्य ॥१८॥2वाक्येऽपि यार्जनकभूर्विरभङ्ग(?)दीयो.."राक्षसीभिरनिशं न वृता सखीभिः ।तस्या अपि प्रियसखीजनसंगम चे-च्चित्रं क्रियामहमिवानुभवेदसस्याम्() ॥१९॥इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये सख्युपालम्भपद्धतिरेकोनत्रिंशतिः । N/A References : N/A Last Updated : September 21, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP