भिक्षाटनकाव्यम् - प्रथमा पद्धतिः।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
कल्याणमाहवतु वः शिवयोस्तदेकं
गात्रं यदीयमसितच्छवि कण्ठमूलम् ।
वामेतरेऽपि कुरुते सितभासि भागे
प्रारब्धशैलतनयापरिणामशङ्काम् ॥१॥
कार्श्यं क्षिणोतु भवतां परमेश्वरस्य
भिक्षाटनं तदनुसंहितदेहिशब्दम् ।
यन्मानिनामपि विधेर्विपरीतभावे
याच्ञोक्तिदैन्यसहमेव मनश्चकार ॥२॥
सद्यस्तुषारगिरिजौषधिसेवयैव
यः स्वोपयुक्तगरलं शमयांचकार ।
अन्यैरशक्यशमनाज्जननामयाद्वः
पायादपायनिलयादयमादिवैद्यः ॥३॥
नित्यं करोतु भगवान्स करीन्द्रवक्रः
प्रारभ्यमाणशुभकर्मविघातलोपम् ।
दोषानुषङ्गरहितः स शिवोऽपि यस्य
भृङ्गेषु गण्डतलचुम्बिषु साभ्यसूयः ॥४॥
वाल्मीकिरस्तु विजयी प्रथमः कवीनां
तस्यानुसारसरलः स च कालिदासः ।
अन्ये भवन्तु जयिनः कवयोऽथ मा वा
एषां कृतः कृतिषु नैव मयावगाहः ॥५॥
सन्त्येव सूक्तिरसिका बहवो मनुष्याः
स्वर्गौकसो नवसुधारसनिर्वृताश्च ।
तौ दुर्लभौ कविवचःस्खलितस्य सोढा
मर्त्येषु सागरगरस्य च यः सुरेषु ॥६॥
भूयानसत्कविजनो जगतीति खेदा-
न्मौनग्रहः सुकविभिर्न कदापि कार्यः ।
काकै रसस्य निनिदैर्निचितेऽपि लोके
किं कोकिला विदयते नहि कूजितानि ॥७॥
दुर्दान्तदुर्जनचिते भुवने नराणां
प्रायो वरं विकलतैव कलोपपत्तेः ।
राहुग्रहेण न कदापि कलाविहीनः
पूर्णस्तु हन्त परिभूयत एव चन्द्रः ॥८॥
एकेन सूक्तिमणिना हृदयंगमेन
प्राज्ञस्य सत्कविपदं कुरवि(?) प्रयाति ।
वक्षोगतेन मणिनेव परस्य पुंसो
रत्नाकरत्वगणना लवणार्णवस्य ॥९॥
नापेक्षते महदपि प्रथमानदोषं
निर्दोषमल्पमपि नन्दति वस्तु लोकः ।
मूर्ध्ना बिभर्ति कृशमप्यनिशं सुधांशु
शंभुः कलङ्कर (स)हितं न तु पूर्णबिम्बम् ॥१०॥
सर्वे खलास्तिलकयन्तु चिराय पृथ्वीं
सत्संभवो बहु मतः सुजनेषु हेतुः ।
घोरेषु धर्मदिवसेष्वतिलङ्घितेषु
छायाद्रुमान्मृगयते नहि कोऽपि मर्त्यः ॥११॥
सन्तः क्षतानि जनयन्तु यथेष्टमस्या-
माभाति तैरधिकमेव सरखती मे 1
दन्तक्षतं प्रियतमैरुपभोगकाले
किं मण्डनाय न भवेद्वरसुन्दरीणाम् ॥१२॥
सन्त्येव केऽप्यमितवाङ्मयदुर्विदग्धा-
स्तेषां पुरः सुकविभिः स्वगिरः प्रकाश्याः ।
तेजस्यति प्रवितते सति तिग्मरश्मे-
र्मुञ्चन्ति केचिदुपला निजमल्पतेजः ॥१३॥
भूत्वा चिरेण गमिताः कति नाम सन्तः
पृथ्वीश्वराश्च कति नाम तथेतरेऽपि ।
अद्यापि कीर्तिवपुषा कवयः पृथिव्यां
जीवन्ति तेष्वभिहितस्तुतयोऽथ्या तैः ॥१४॥
मा मा परत्र विषये विषमेक्षणे रे
तस्मिन्सदा भवतु हीनगुणापि वाणी ।
यो मूर्ध्नि मुग्धहृदयो जनगणीयां
धत्ते सुधांशुकलयैव नहास्थिमालाम् ॥१५॥
आकर्णयन्तु मम सूक्तिवेदः प्रवन्धं
तैर्नन्द्यतां पुनरयं खलु निन्द्यतां वा ।
आकर्णगोचरतयैव भवेद्गरीया-
नस्माकमस्तु सफलो रचनाप्रयासः ॥१६॥
1वृत्तं वसन्ततिलकं विषयस्य जीव-
भिक्षाटनं कविरसौ शिवभक्तदासः ।
शृङ्गार एव हि रसस्तदिह प्रबन्धे
श्रद्धा न कस्य यदि सूक्तिविनोदशीलः ॥१७॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये काव्यमुखपद्धतिः प्रथमा ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP