भिक्षाटनकाव्यम् - सप्तमी पद्धतिः ।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
आपादपद्मयुगमा च कपर्दभारा-
दङ्गान्यनङ्गदमनस्य पुरन्ध्रिवर्गः ।
नेत्रैरपाकृतनिमेषकथैर्विलोक्य
कर्णामृतानि वचनानि मिथो बभाषे ॥१॥
नैवान्यदस्ति शरणं चरणारविन्दा-
द्गौरीसखस्य सखि दुःखजुषां जनानाम् ।
यत्पद्मा(?)दुर्बलमपि स्वयमन्तकस्य
वक्षो विभेद दृढमाश्रितरक्षणाय ॥२॥
तारापतीन्सुदति पश्य पिनाकपाणेः
पूर्णानिमान्पदमुपेत्य नखच्छलेन ।
अस्यायमङ्घ्रिकमलाश्रयहानिदोषा-
दद्यापि हन्त कृश एव कपर्दचन्द्रः ॥३॥
जङ्घायुगं सखि विलोकय भूतभर्तुः
संवाहनेषु गिरिजाकरपल्लवेन ।
संजातकण्टकतया प्रतिपद्यतेऽयं
नित्यं पदाम्बुरुहकोमलनालकक्ष्याम् ॥४॥
कक्षोरगेन्द्रमिह पश्य विभोस्तमेन-
मावेष्टनेन विपुले कलितं नितम्बे ।
येनायमद्य लभते पुरसुन्दरीणां
चित्ताम्बुराशिमथने सखि मन्दरत्वम् ॥५॥
नाथस्य सुन्दरि विलोकय नाभिगर्त-
मस्योत्तमाङ्गकलिता विबुधस्रवन्ती ।
आवर्तमाशु विरचय्य पुनःपुनस्तं
यत्साम्यदुर्लभतया शिथिलीकरोति ॥६॥
अङ्गीकृतं यदमुना वसनत्वपक्ष
कक्षोरगेन्द्रफणरत्नमरीचिशोणम् ।
मातङ्गचर्म चिरकालनिकृत्तमेत-
दद्यापि पश्य रुधिराक्तमिवावभाति ॥७॥
नैसर्गिकालमणि(?)शालिनि पश्य भिक्षो-
हैरण्यगर्भमयि पाणितले कपालम् ।
आविष्करोत्यरुणतामरसे विनिद्रे
निद्रावशस्तिमितहंसगतामभिख्याम् ॥८॥
आलेपनं यदिदमस्य भुजान्तराले
तद्भस्मदिग्धवपुषो मदनस्य मन्ये ।
नो चेत्कथं कथय वीक्षितमात्र एव
संमोहयेत्सखि मनः सकलाङ्गनानाम् ॥९॥
गौर्या मनोहरभुजाफणयोग्य एव
कण्ठे कथं सखि हरस्य भुजङ्गहारः ।
मन्ये तयान्यवनितासु हृतोपगूढ-
साशङ्कया वसति तत्र कृताभ्यनुज्ञः ॥१०॥
शीतं निसर्गधवलं हृदये विहाय
हारं भुजङ्गमतिभीषणमेव धत्ते ।
स्वातन्त्र्यभङ्गभयतः प्रभवः कदापि
कुर्वन्ति हन्त न गुणेष्वपि पारतन्त्र्यम् ॥११॥
हारायितः सखि हरस्य महाभुजङ्गः
पार्श्वस्थितिं1 मृगदृशां विरुणद्धि भीमः ।
रुन्धे विभुष्वधिकवल्लभतां प्रपद्य
प्रायः प्रियाश्रयणमाशु भुजङ्गवर्गः ॥१२॥
नैल्यं यदम्य गलमूलगतं तदेके
(?)मामग्रणं तुरगमाणिममेष तर्कः ।
या कापि सिद्धगुलिकैव मृगेक्षणाना-
माश्लेषकौतुकनिषेधनिरूढशक्तेः ॥१३॥
यो मूर्ध्नि मुग्धशशिभङ्गभयेन सोढा
पार्थस्य निघृणशरासनताडनानि ।
यो वा करोत्युभयदानमपायकाले
तं पश्य दक्षिणकरं सखि शंकरस्य ॥१४॥
साकूतमन्दहसितोदयलोभनीया-
दास्यादिहास्य सखि संप्रति निर्गतानि ।
देहीति लोकबहुमानविवर्जितानि
याच्ञाक्षराण्यपि महेश्वरतां ध्वनन्ति ॥१५॥
आलोकयैतदखिलेक्षणमालि शंभो-
र्निर्हेतुनिह्रुतमनोभवरम्यदेहम् ।
सर्वेषु जन्तुषु विभुः समदर्शनोऽपि
शाठ्येन यस्य विषमेक्षण एव जातः ॥१६॥
सत्यार्थमेव खलु तद्यदिहाद्रु(द्भु)तस्य
पात्रं भुजङ्गपरिरक्ष(क्षि)तमाहुरार्याः ।
पश्याम्बिकाकलवचोमृतपात्रभूते
कण्ठेऽपि कुण्डलभुजङ्गपरिष्क्रियास्य ॥१७॥
फा(भा)लेक्षणान्तिकचर सखि पश्य शंभो.
श्चूडाशशाङ्कमतिम(क)र्शितगात्रमेनम् ।
स्वप्रेमबन्धुमदनप्लुषि हव्यवाहे
त्यक्तुं निजामिव तनुं विहितावसायम् ॥१८॥
नासीरपूरणविधौ मकरध्वजस्य
चक्रुर्वचांसि सुलभानि च यानि नार्यः ।
तानीन्दुशेखरभुजं मदनावमानं
सद्यो ममार्जुरपि तस्य वपुः पुरारेः ॥१९॥
सत्यं समाश्रितजनो बहुमानलाभे-
नाप्राप्तवाञ्छितफलोऽपि विभुं जहाति ।
पश्येन्दुरेष कुरुते शिरसा धृतोऽसी-
त्येतावता पशुपतेः कृश एव सेवाम् ॥२०॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽङ्गवर्णनपद्धतिः सप्तमी ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP