संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
तृतीया पद्धतिः ।

भिक्षाटनकाव्यम् - तृतीया पद्धतिः ।

उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।


नारीषु निर्गमनमण्डनतत्परासु
सख्योपचारसगुणो(णा)र्थमनोहराणि ।
ईशावलोकनमुहूर्तनिरोधभीत्या
प्रारब्धमण्डननिषेधफलान्यवोचन् ॥१॥

अर्काभिमुख्यसलिलस्थितिसाधनानि
रक्ताम्बुजस्य फलितान्यधुना तपांसः(सि)।
यद्भीरु तस्य परिभूतिकरं पदं ते
लाक्षारसान्तरितरागमिदं करोपि ॥२॥

गन्तुं परैरविदितं यदि शंभुपार्श्वे
वाञ्छा किमालि रणता नवनूपुरेण ।
कर्तु हरस्य चरितान्यमिलापवद्भिः
प्रारम्भ एव पिशुनः परिवर्जनीयः ॥३॥

मा विश्वसः सखि कलां मणिमेखलां तां
क्षौमस्य यद्यभिमतं परिरक्षणं ते ।
यावं हितापि दृढबन्धमिहाप्रयत्ना-
ज्जायेत बन्धविमुखी पुरतः पुरारेः ॥४॥

यानि व्यथन्ति विरहे विरलं न याति (न्ति)
योगे हरेण वलयैः सखि किं फलं ते ।
नैवास्ति यैर्वियदि चा(सं)पदि चोपयोगे(गस्)
तैः संगमं न खलु वाह (छ)ति कोऽपि मर्त्यः ॥५॥

विस्तारिणी(णि) स्तनतटे हरिचन्दनं ते
लज्जावहं किमनु लिम्पति कातराक्षि ।
संभोगसंक्रमितकान्त "रा"
दन्तःप्रवृद्धफलकौषधिलेपकल्पम् ॥६॥

मध्यः कृशो विधिवशेन समर्पितोऽयं
तस्योपरि स्तनभरो नवयौवनेन ।
भूयोऽपि हारमभिवाञ्छसि तत्र वोढु-
मेकस्य भङ्गकरणे बहवः प्रवृत्ताः ॥७॥

बध्नासि दग्धमणिनूपुरमङ्घ्रीयुग्मे
कस्मै फलाय यदि निर्गमनेऽभिलापः ।
एणीदृशा (शो द्रु)तगतेः प्रतिबद्ध(न्ध)भावे
नास्ति ध्रुवं निगलनूपुरयोर्विशेषः ॥८॥

भस्मव लिम्प कुचयोः सखि रक्षणार्थ
मध्यावलोपनतया यदिमौ सुदुःस्थौ ।
हारेण किं किमथवा नवकुङ्कुमेन
लब्ध्वात्मनः खलु पुनः परिकर्मवाञ्छा[म्] ॥९॥

मा चन्दनेन कुचयोः कुरु पत्रभङ्गं
लब्ध्वा दृशोरनुमतिं स तु कल्पितव्यः ।
यादृच्छिकप्रणयिना विरहे हरेण
नेत्रद्वयात्तव पतिष्यति बाष्पपूरः ॥१०॥

पर्याप्तयौवनकृतोन्नतिशालिनौ ते
मा त्वं तिरस्कुरु कुचौ नवकुङ्कुमेन ।
स्तोकोद्गमं मनसि कश्चिरमाशशंसे
जेतुं ययोः पशुपतिं निजपूर्वशत्रुम् ॥११॥

आजन्मपाटलरुचावधरे तदीये
रागोऽपरः पुनरयं सखि दूषणाय ।
जातास्य रत्नशकलस्य कृतोऽपि दक्षै-
रर्धक्षयाय नवकृत्रिमरागयोगः ॥१२॥

मा कज्जलेन मलिनीकुरु लोचनान्ते
1यद्यस्तदुक्तिमवमन्य तथा कियन्त ।
चन्द्रश्चिराय वदनेन तवाभिवाञ्छ-
न्साम्यं लभेत सखि हन्त मलीमसोऽपि ॥१३॥

स्निग्धापि न प्रणयि चेत्तव नेत्रमन्य-
म(द)न्यस्य मा भवतु संस्करणप्रयासः ।
आकल्पितादपि तयोः सखि केबलस्य
जानातु कान्तिमखिलामखिलोऽपि लोकः ॥१४॥

पर्याप्तदीर्घनयनोत्पलभूरितं(षिते) ते
कर्णे कुतः सखि नबोत्पलमादधासि ।
यद्यन्यथा(दा)भरणमिच्छसि कर्णयोस्ते
पथ्योक्तय(ः) श्रवणभूषणतां लभन्ताम् ॥१५॥

आदर्शमाशु सखि मुञ्चतु वापराधं
कस्त्वां विनापि मलिनाशयमाश्रयेत ।
छायां प्रदृश्य सततं तव योऽद्य रुपे
निर्द्वन्द्ववादमधुना शिथिलीचकार ॥१६॥

केयूरनूपुरशिखामणिपारिहार्य-
हारादिभिः किमबले शृणु संग्रहोक्तिम् ।
भूषा त्रपा मृगदृशः शुचि संप्रदायि
पुंसः श्रुतं यदवरं परमङ्गभारः ॥१७॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये मण्डनप्रतिषेधपद्धतिस्तृतीया ।

N/A

References : N/A
Last Updated : September 19, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP