भिक्षाटनकाव्यम् - द्वाविंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
यश्चे(च्चे)ष्टितं प्रकटितं पुरसुन्दरीणां
भूयो विजेतरि पुरामनुरागबन्धम् ।
प्रस्तुत्य तानि विरहोज्ज्वलमन्मथानि
संपादयामि विदुषां श्रवणातिथेयम् ॥१॥
संतर्जिता गिरिशमालपसीति मात्रा
काचित्रपानतमुखी भुवमालिलेख ।
रेखा तदाकृतिरभूत्किमियं विधत्तां
चित्तानुसारि वचनं च विचेष्टितं च ॥२॥
पार्श्वं 1प्रजाव(?) गिरिशस्य निजा(?)न्धकारे
मा ते विषाद इति जीवसखीजनेन ।
आश्वासिता झटिति कापि निमीत्य चक्षुः
संपादितं तम इति प्रमदा जगाद ॥३॥
तुङ्गौ युवामिह वृथैव प्रथासुवृत्ता-
वन्योन्यसंगमजुषौ च वृथेति काचित् ।
श्रीकण्ठबाहुयुगलान्तरकाङ्क्षयेव
कण्डूभृतौ करतलेन कुचौ ममर्द ॥४॥
क्रीडाशुकं हर हरेति शनैः प्रवृत्तौ
यत्नेन पाठयितुमन्तरमन्मथापि ।
मातुर्भयेन पुनरेवमवोचदेत-
दिष्टं फलं मम करादिति वाक्यशेषम् ॥५॥
बालेन्दुशेखरमनारतकालकण्ठं
पिङ्गत्विषा तिलकितालकमीक्षणेन ।
सख्योऽपि यूयमिह पश्यत पश्यतेति
कस्याश्चिदाविरभवद्विविधो विलापः ॥६॥
बन्धुष्वनाहतवती चिरसंस्कृतेषु
भस्मावगुण्ठिततनुर्दृढबन्धमौना।
काचित्सदैव हृदये शिवमर्चयन्ती
योगं वियोगविधुरा फलितं चकार ॥७॥
कस्याश्चन स्तनभरो भसितेन शंभो-
र्वक्षःस्थलप्रणयिना वनितं चकार ।
यः कर्तुमीप्सति समागमनं महद्भि-
स्तद्वल्लभेन कुरुते तदयं पुरैव ॥८॥
तुष्टाव निन्दति जने त्रिपुरारिमेका
पार्श्वस्थिते स्तुवति गाढतरं निनिन्द ।
मौनावलम्बिनि चुकोप चकोरदृष्टि-
स्नेहप्रिये दुरवबोधगतिर्वधूनाम् ॥९॥
काचिन्निजाङ्कमधिरोप्य शनैर्विपञ्चीं
गाथामुपाक्रमत पाठयितुं शिवस्य ।
तस्या विलोचनजलैः पुनरार्द्रव(य)द्भि-
स्तन्त्रीं स्वकीयजलता प्रकटीकृतैव ॥१०॥
एका त्रपोदयवशेन पुनः सखीनां
चित्ते विधातुमसमक्षमपारयन्ती ।
बाह्यं विहाय करणं पटतूलिकादि
चेतःपटे स्मरणतूलिकया लिलेख ॥११॥
शीघ्रं नयात्र सखि संप्रति नीलकण्ठ-
मित्यूचिषी सपदि मात्र(तृ)भयेन काचित् ।
तीव्रातपादुपवनादिति पूरयित्वा
लीलामयूरविषयं वचनं चकार ॥१२॥
चक्षुश्चकार निजसद्मनि यत्र यत्र
विश्लेषणैर्गिरिशमैक्षत तत्र तत्र ।
एतधृवं(/) सपदि संगमतोऽपि मन्ये
विश्लेष एव दयितेन वनं(रं) वधूनाम् ॥१३॥
शंभुर्यथा गृहमगान्मम भैक्षकाङ्क्षी
मां भिक्षयैव सह दत्तवती तदानीम् ।
प्राप्तः स एव हृदयालयमाशु तस्मै
किं देयमद्य कथयेति सखीमपृच्छत् ॥१४॥
अध्यापितो रहसि केलिशुकः कयापि
नामानि मन्मथरिपोर्विरहार्तिशान्त्यै ।
तानि क्षणाद्गुरुजनस्य परो निगद्य
तस्या मनस्थविकृतिं प्रकटीचकार ॥१५॥
यः कोऽपि सोऽस्तु विषमा गतिरेष रोगो
भस्मार्पणं निखिलरोगसमा चिकित्सा ।
मातुः पुरो वचनमेवमुदीरयन्त्यां
सख्यां न्यसक्त तरलां दृशमाशु काचित् ॥१६॥
काचिन्निजाशयतिरस्करणाय शंभो-
र्निन्दापराण्यकथयद्वचनानि बाला ।
तानि प्रकोपमधिकं जनयांबभूवु-
स्तस्याः पुनः परिमरैरनुभाषितानि ॥१७॥
गाथाः शिवस्य विलपन्नपरो मृगाक्ष्याः
क्रीडामृगो विरहतापमपाचकार ।
संस्मारयन्निजगलेन सितेतरेण
कण्ठं तदीयमसकृद्गृहबर्हिणोऽपि ॥१८॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुरागपद्धतिर्द्वाविंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP