भिक्षाटनकाव्यम् - द्वात्रिंशी पद्धतिः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
कंदर्पशासनविलविजनेषु रोषा-
द्रूपादिवेन्दुमुदयस्थमवेक्ष्य ताग्रम् ।
जज्ञे हरेण विरहे वनिताजनस्य
यच्चेष्टितं तदधुना कथनीयमास्ते ॥१॥
उष्णायमानमुदयारुणमिन्दुबिम्बं
काचिद्रवे(?)विरहिणी न शशाक भत्तुम् ।
तस्या विवेकमतिदायितया तदानीं
तस्योपयोगमहितं शशलाञ्छनत्वम् ॥२॥
अन्या बिहाय मदनातुर(?)जीविताशा
जातस्पृहा मरणशब्दितमङ्गलाय ।
लब्धः शिवो भवतु मे परजन्मनीति
चन्द्रातपे विरहिणी सहसा पपात ॥३॥
आलोक्य काचिदुदयारुणमिन्दुबिम्बं
विश्लेषिणामविषहं शिशिरं परेषाम् ।
द्रोही न वा खलु ममेति जनं विभित्सोः
कामास्त्रतः परगवीगणनां चकार ॥४॥
ज्ञातो जनैर्विरहतापजुषः परस्य
नेत्रद्वयस्य नलिनस्य च ...ति भेदः ।
पद्मेषु चन्द्रकिरणैर्मुकुलीकृतेषु
यज्जागरूंकमभवन्निशि नेत्रयुग्मम् ॥५॥
चूडामणे पशुपतेरिति जृम्भितास्ता(?)
तापावहो विरहिणामिति जातभीतः ।
चन्द्रस्य काचिदुभ(द)ये विधुरा निजाक्ष्णो-
रुन्मीलनेऽपि न शशाक निमीलनेऽपि ॥६॥
भिक्षाटनं पशुपतिः कृतवानिहेति
यां हातुमह्नि गलितेऽपि हि न क्षमाभूत् ।
तां वीथिका निशि मयूखभयाद्विहाय
छायेव कापि शनकैर्वसतिं विवेश ॥७॥
कस्याश्चिदीशविरहव्यथिताशयायाः
कामं वदन्तु मुखमेव हि चन्द्रकान्तम् ।
तस्या दृशो युगलमप्युदये हिमांशो-
र्निर्दिश्यमानबहलोदकमिन्दुकान्ति(न्त)म् ॥८॥
यावान्दिनेशपतने विरहातुराया-
स्तावान्हिमत्विषि मनागुदिते वितापः ।
पातो यथा परहिताय यथार्तिभाजां
खेदाय नूनमुदयो मलिनाशयस्य ॥९॥
प्लुष्टिर्मनाविरहिणीस्तनमिन्दुपातैः
काचिद्ददौ प्रियसखीमुखमारुताय ।
पारब्धमन्यदपरं पलितेक्षणेन
जज्वाल हन्त हृदये मदनाग्मिरस्याः ॥१०॥
एका शशाङ्ककिरणोपनिपातभीत्या
वातायनान्तरविधा न कृतप्रयत्ना ।
आमीलनव्यवहृतेन्दुकरप्रयत्ना-
ललक्ष्म्या सरोजवसतिं मनसा निनिन्द ॥११॥
स्पष्टं मुहुर्भुवनजालकृतप्रवेशै-
रिन्दोः करैर्विरहिणी व्यथयांचकार ।
स्पष्टं जगत्प्रकृति राजति कामिनीना-
(१)मङ्गं मनस्थितिमनाकलयान्करण ॥१२॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिर्द्वात्रिंशतिः ।
N/A
References : N/A
Last Updated : September 21, 2022
TOP