भिक्षाटनकाव्यम् - दशमी पद्धतिः।
उत्प्रेक्षावल्लभकविविरचितं भिक्षाटनकाव्यम् ।
प्रत्यालयं कृपणवजगतामधीश
देहीति दीनपदवादिनि भिक्षमाणे ।
वामभ्रूवां मनसिजावस(श)मानसानां
भिक्षाप्रदानचरितान्युपलालयामः ॥१॥
काचित्पुरः पुररिपोरतिसंभ्रमेण
भिक्षामपात्रपतितामवबुध्य सद्यः ।
अन्तर्भयेन विदधे हृदये कराग्रं
भिक्षाहमस्मि भवतो भगवन्नितीव ॥२॥
प्रेम्णापि याचितनिदानविरोधिता तु
दर्वी दधत्यपि करेण समृद्धसिद्धाम् ।
भैक्षाटणा (ना)न्तमपरा गिरिशेन योगा-
न्निश्चित्य कालहरणं कपटैश्चकार ॥३॥
सत्पात्रदानविधिना यदनेन पुण्यं
तन्मे तवैव कृशभावमपाकरोतु ।
इत्येवमिन्दुशकलाभरणाय काचि-
द्भेक्षण पुण्यमपि दानभवं दिदेश ॥४॥
आदातुमैच्छदधिकं गिरिशो न भैक्षं
पात्रं वधूः सपदि पूर्णमियेक्ष(ष) कर्तुम् ।
आयस्तयोर्युवतिशंकरयोर्बभूव
भिक्षाप्रदानसमये सततं विवादः ॥५॥
दर्व्याः परिच्युतमिदं तमियं च हस्ता-
द्दानादयं तदपि दुर्लभसंप्रदानात् ।
अश्रान्तमेव गिरिशान्तरपल्लवेन
कस्याश्चिदायतदृशो स्मितपुष्पकेन(ण) ॥६॥
आयाहि तिष्ठ जहि भीमभुजङ्गहार-
मेनं गलात्तदनु भैक्ष्यमिदं गृहाण।
इत्येव ईश्वरमपेक्षितभैक्ष्यदाना-
त्यागेव कापि निजकिंकरतां निनाय ॥७॥
एका कथंचन चिरेण विनम्रवक्रा
लज्जावशेन गिरिशाय दिदेश भिक्षाम् ।
दानोन्मुखस्य च गुणाभ्यधिके निकृष्टे
याच्ञापरस्य च समस्त्रपया विकारः ॥८॥
धिग्याचनं जगति सन्निहितावमानं
भैक्ष्यं प्रदेयमिति1 प्रार्थयते महेशः ।
कामद्वहेन(?) खलु देयमिति स्ववाचा
प्रत्यादिदेश पुर एव हि तस्य काचित् ॥९॥
यो भिक्षते प्रतिगृहं भुवनेश्वरोऽपि
तस्मै च या सकरुणैव ददाति भिक्षाम् ।
तावन्ववेक्ष्य गिरिशं [च सखीं च काचि-
त्तामेव सर्वसहतां जगते जगहें ॥१०॥
दर्वीमुखं द्रुतगतिच्युतसिक्थमेव
काचिन्मुधैव निदधे हरभैक्ष्यपात्रे ।
तस्याः पुनः परिहतो(तौ) किरति प्रकोष्ठा-
द्भिक्षाकपालपतितैर्वलयैः प्रमादः ॥११॥
भिक्षा प्रदातुमपरा शमनान्तकस्य
वेगादुपान्तमुपसृत्य बभूव तूष्णीम् ।
दानादधःकृततदीयकरारविन्दा-
च्छ्लाध्यं विभुद्य(बुध्य) जनशोच्यमदानमेव ॥१२॥
आहूत एव चरितो विधृतान्नदर्व्या
भिक्षुः कयापि गिरिशो न कृतः कृतार्थः ।
दोषावरन्नि(रं नि)रवधेर्विरहासहिष्णोः
स्नेहस्य किंचिदपि चारुदृशो न तस्याः ॥१३॥
भिक्षां प्रदातुमभिवाञ्छय पुमानमुष्मै
कङ्कालवेष इति बन्धुविबोधितापि ।
नैव न्यवर्तत वि(व)धूः शिवभैक्ष्य(क्ष)दाना-
द्धर्मात्मना परिणतो ननु काम एव ॥१४॥
यावन्न निर्गलति देहि वचोऽस्य वक्रा-
त्तावद्ददौ झटिति कोऽपि शिवाय भैक्षम् ।
देहीति दीनपदनिर्गमयत्नमूल्यं
नालं जगत्रितयमर्थिजनाय दत्तम् ॥१५॥
यो दक्षिणः पुरजितो विततार भिक्षां
कस्याश्चिदाशु वलयैः स करोति हीनः ।
हा हन्त दैवतमिति क्रमकारि वामः (१)
संरक्षितो वलयवाङ् मलिनालकायाः ॥१६॥
भिक्षोदने स्थलनिपातिनि कापि शंभो
पात्रं न सम्यगिति पाणिगतं जगहें ।
आत्मीयदुष्करणहेतुकयैव मर्त्यैः
सर्वैर्विधेः शिरसि पात्यत एव दोषः ॥१७॥
मा गच्छ शंभुमिति मातृनिवारितापि
भिक्षाप्रदानमपदिश्य जगाम काचित् ।
धर्मप्रतीपगतिरप्यभवत्तदानी-
मालम्बनं मनसिजस्य विचित्रमेतत् ॥१८॥
काचित्करेण दयती गुरुभैक्ष्य(क्ष)गर्भां
दर्वीमियाय हरपार्श्वभुवं न यावत् ।
स्नेहोज्ज्वलां मनसिजः स्वयमेव भिक्षां
तामेव तावददिशत्परमेश्वराय ॥१९॥
पात्रोत्तमस्त्वमसि नायक पाणिलग्नं
पात्रं तथापि न पवित्रमिदं कपालम् ।
यावन्न तत्त्यजसि नैव ददामि ताव-
दिये(त्ये)व कापि गिरिशाय ददौ न भिक्षाम् ॥२०॥
इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाप्रदानपद्धतिर्दशमी ।
N/A
References : N/A
Last Updated : September 19, 2022
TOP