संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
चतुर्विंशी पद्धतिः

भिक्षाटनकाव्यम् - चतुर्विंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै /. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


रथ्या विमुच्य कथमप्यनिवेशशेषै-
रालीजनैर्भवनमाशु निवेशितानाम् ।
वामभ्रूवां शशिकलाधरविप्रयोगे
देहाश्रयाणि चरितान्युपलालयाम ॥१॥

कस्याश्चिदक्षियुगलाद्धरयोर्वियोगे
जातः प्रसाधनविधेर्विपरीतभावः ।
बाष्पैस्तयोः प्रथममाहितराग आसी-
दत्यश्वसन्मलिनितश्वसितोष्मणैव ॥२॥

भस्मालिलेप कुचयोर्हरिचन्दनादि-
लेपं विहाय विरहे वनितां हरेण ।
1बाष्पोदकं तदपि हन्त पुनर्निरासे
शुध्यन्ययोर्निरसनेन जलस्य भेदः ॥३॥

2त्यक्तेऽपि रत्नवलयैः सखि केलिपद्मै-
र्हस्तादपातकथने मणिकंतुकेऽपि ।
कस्याश्चिदेव न जहौ करभूषणत्वं
क्रीडाशुकः पठितशंकरनामधेयः ॥४॥

श्वासानिलश्च नयनोदकनिर्गमश्च
जातागसी(सौ) विरहिणीकुचयोरभूताम् ।
आक्षेपणेन लघुनो वरणांशुकस्य
लोपेन च प्रचुर चन्दनकर्दमस्य ॥५॥

विश्लेषदुर्बलमकारणपाटलेन
संसृज्यमानमपि गण्डतलं करेण ।
आपाण्डुरच्छवि बभूव मृगेक्षणायाः
संसर्गजा इति मृषैव गुणाश्च दोषाः ॥६॥

संमानपात्रमहमस्म्यमृतांशुमौले
या सत्यमित्यधिकचिद्धितकौतुकैव ।
(2)1अन्या वधूरपहरात्परिकर्शनेन
साकं शशाङ्ककलया सममेव धत्ते ॥७॥

कस्याश्चिरग(रं ग्ल)पितचम्पककान्ति गात्रं
जातं हरेण विरहे घनसारगौरम् ।
(21)निःशृङ्खलप्रभृतिभिस्तदसंनिधाने
व्याप्तं मनोभवयशोगिरिवा(रा)बभासे ॥८॥

दृष्टे पुरा पुरविरोधित(नि) काचिदङ्गै-
र्या कण्ठकोगतिमयीं(?) ह रतिं प्रपेदे ।
तान्नैव जातु विरहौ(?) विरहेऽपि तस्मि-
न्नन्तर्हितेऽपि सवितर्यरविन्दनै(तै)व ॥९॥

तुल्या शशाङ्ककलयेति मृगेक्षणायाः
स्थौल्यातिरेकमणितावपरः प्रकारः ।
अङ्गानि शंकरवियोगभुवां तनिम्ना-
मध्यङ्गसाम्यमितराण्यपि शोच्यमापुः ॥१०॥

आत्मीय एव सति धार्यदृशां प्रपन्ने
कस्तस्य धारणमृते परधारणाय ।
यत्खेदपाण्डरमथा(?)मुखपद्ममेका
हस्तोदकैर्विरहिणी न तु केलिपद्मम् ॥११॥

कस्याश्चिदश्रुसलिलेषु हिताभिषेकं
शोकानलेन सदयज्वलितेन तप्तम् ।
गौरीपतेरुपरि लब्धुमिव प्रदेशं
तीव्रं तपः पृथुकुचद्वयमाचचार ॥१२॥

नालंकृतौ न शयने न मिथः प्रलापे
न क्रीडनेषु न च भोजनपानयोर्वा ।
आस्थावती शिवसमर्पितचेतनैका
रागो निरत्ययसुखोऽन्यविरक्तिहेतुः ॥१३॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विरहिण्यवस्थापद्धतिश्चतुर्विंशतिः ।


References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP