संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ६२ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ६२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता एकादशीमाहात्म्यम् Translation - भाषांतर वज्रनाभिरुवाच -ब्रह्मन्नारायणो कृष्णो भगवान्प्रकृतेः परः ।तस्य रूपं कथं श्यामं तन्मे व्याख्यातुमर्हसि ॥१॥त्वादृशा मुनयो बह्मञ्जानंति चरितं हरेः ।तथा कृष्णस्य देवस्य न वयं कर्ममोहिताः ॥२॥सूत उवाच -इत्याकर्ण्य वचस्तेन संस्तुतः स मुनिर्मुने ।तत्त्वज्ञानाय तत्त्वज्ञः करुणः प्रत्यभाषत ॥३॥गर्ग उवाच -श्यामं तु शृङ्गाररसस्य रूपंश्रीकृष्णदेवं कथितं मुनींद्रैः ।लावण्यसंघाच्च तथोज्ज्वलत्वा-च्छ्यामं सुरूपं हि तथा हरेश्च ॥४॥यथा दूरतो दृश्यते श्यामरूपंघटायास्तथेदं नदस्यापि गर्ते ।यथाऽऽकाशरूपं महच्छ्यामलं वाजलं चाम्बरं चोज्ज्वलं नापि कृष्णम् ॥५॥यथा धौतवस्त्रे परे श्यामला हिछविर्दृश्यते चैव भावैः परस्य ।तथा कोटिकंदर्पलीलाशयत्वा-द्धरेः श्यामरूपं तु संतो वदंति ॥६॥वज्रनाभिरुवाच -तव वाक्यान्मुनिश्रेष्ठ संदेहश्च गतो मम ।अग्रे ब्रह्मन्कलिर्घोर आगमिष्यति भूतले ॥७॥तस्मिन्मर्त्याः कीदृशाश्च भविष्यन्ति मुने वद ।त्वं जानासि भविष्यं च तस्मात्त्वां प्रणमाम्यहम् ॥८॥कलेर्दशसहस्राणि जगन्नाथस्तु तिष्ठति ।तदर्द्धं जाह्नवीतोयं तदर्द्धं ग्रामदेवताः ॥९॥ततः सर्वे भविष्यन्ति पापिनः कलिमोहिताः ।नरकांस्ते प्रयास्यन्ति सर्वे चाल्पायुषो नराः ॥१०॥विप्राः स्वकन्यां दास्यन्ति ब्राह्मणाय च मौल्यतः ।क्षत्रियाश्चैव पुत्रीं स्वां मारयिष्यन्ति लोलुपाः ॥११॥मृषा कुर्वन्ति वाणिज्यं वैश्या ब्रह्मस्वतत्पराः ।शूद्राश्च म्लेच्छसंगेन दूषयिष्यन्ति ब्राह्मणान् ॥१२॥ब्राह्मणा शास्त्रहीनाश्च राज्यहीनाश्च क्षत्रियाः ।वैश्याश्च द्रव्यहीना वै शूद्रा नाथस्य दुःखदाः ॥१३॥दिने व्यवायनिरता विरता धर्मकर्मणि ।स्त्रियः स्वच्छन्दगामिन्यः पुरुषा योनिलम्पटाः ॥१४॥पितॄणामर्चनं चैव वेदानामृत्विजां तथा ।विष्णोश्च वैष्णवानां च तुलस्याश्च गवां तथा ॥१५॥न प्रायेण करिष्यन्ति मानवाः कलिमोहिताः ।गणिकासु परस्त्रीषु परवित्तेषु मोहिताः ॥१६॥एकवर्णा भविष्यन्ति महाशूद्रसमाः किल ।सस्यहीना भवेत्पृथ्वी शिलावृष्ट्या निरंतरम् ॥१७॥फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा ।प्रजाभिस्ताडितो भूपो भूपेन ताडिताः प्रजाः ॥१८॥राजोवाच -केनोपायेन जीवानां कलौ मुक्तिर्भविष्यति ।तन्ममाख्याहि विप्रेन्द्र त्वं परावरवित्तमः ॥१९॥गर्ग उवाच -युधिष्ठिरो विक्रमश्च तथा वै शालिवाहनः ।विजयाभिनन्दनश्चैव तथा नागार्जुनो नृपः ॥२०॥तथा कल्किश्च भगवानेते वै शकबंधिनः ।करिष्यन्ति कलौ भूपा धर्मस्थापनमेव च ॥२१॥अभूद्युधिष्ठिरो राजा भविष्यन्ति नृपाश्च ते ।अधर्मं नाशयिष्यन्ति भूत्वा वै चक्रवर्तिनः ॥२२॥वामनश्च विधिः शेषः सनको विष्णुवाक्यतः ।धर्मार्थहेतवे चैते भविष्यन्ति द्विजाः कलौ ॥२३॥विष्णुस्वामी वामनांशस्तथा माध्वस्तु ब्रह्मणः ।रामानुजस्तु शेषांशो निंबार्कः सनकस्य च ॥२४॥एते कलौ युगे भाव्याः संप्रदायप्रवर्तकाः ।संवत्सरे विक्रमस्य चत्वारः क्षितिपावनाः ॥२५॥संप्रदायविहीना ये मन्त्रास्ते निष्फलाः स्मृताः ।तस्माच्च गमनं ह्यस्ति संप्रदाय नरैरपि ॥२६॥पापक्षयकरी यत्र श्रीकृष्णस्य कथा भवेत् ।वैष्णवैर्विप्रमुख्यैश्च नारायणपरायणैः ॥२७॥कृते तु लिप्यते देशस्त्रेतायां ग्राम एव च ।द्वापरे च कुलं प्रोक्तं कलौ कर्तैव लिप्यते ॥२८॥ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥२९॥कृते यद्दशभिर्वर्षैस्त्रेतायां हायनेन च ।द्वापरे चैकमासेन ह्यहोरात्रेण तत्कलौ ॥३०॥घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते ।वासुदेवपरा मर्त्यास्ते कृतार्था न संशयः ॥३१॥ते सभाग्या मनुष्येषु कृतार्था नृप निश्चितम् ।स्मरन्ति स्मारयन्ते ये हरेर्नामानि वै कलौ ॥३२॥कृषिश्च सर्ववचनो णकारश्चात्मवाचकः ।सर्वात्मा च परं ब्रह्म तेन कृष्णः प्रकीर्तितः ॥३३॥संजप्य ब्रह्म परमं वेदसारं परात्परम् ।परं नास्तीति नास्तीति कृष्ण इत्यक्षरद्वयम् ॥३४॥तावद्गर्भे वसेत्कामी तावती यमयातना ।तावद्गृही च भोगार्थी यावत्कृष्णं न सेवते ॥३५॥नश्वरो विषमः सत्यं भोगश्च बन्धवो भुवि ।स्वयं त्यक्ताः सुखायैव दुःखाय त्याजिताः परैः ॥३६॥श्रुत्वा दैवान्महन्निंदां श्रीकृष्णस्मरणाद्बुधः ।मुच्यते सर्वपापेभ्यो नान्यथा रौरवं व्रजेत् ॥३७॥न काष्ठे विद्यते देवो न शिलायां न कांचने ।यत्र भावस्तत्र हरिस्तस्माद्भावं हि कारयेत् ॥३८॥सकृदुच्चरितं येन कृष्ण इत्यक्षरद्वयम् ।बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥३९॥सरोगता साधुजनेषु वैरंपरोपतापो द्विजवेदनिंदा ।अत्यन्तकोपः कटुका च वाणीनरस्य चिह्नं नरके गतस्य ॥४०॥स्वर्गागतानामिह जीवलोकेचत्वारि चिह्नानि सदा वसन्ति ।दानप्रसंगो मधुरा च वाणीदेवार्चनं ब्राह्मणपूजनं च ॥४१॥राजोवाच -व्रतेषु किं वरं ब्रह्मन्सत्सु तीर्थेषु किं महत् ।देवेषु पूजनीयेषु को मुख्यः कथयस्व नः ॥४२॥गर्ग उवाच -एकादशी वरा ह्यस्ति व्रतेषु यदुनन्दन ।भागीरथी च तीर्थेषु देवभक्तेषु वैष्णवः ॥४३॥सुरेषु विष्णुर्भगवान्पूजनीयेषु श्रीगुरुः ।इमां वार्तां न मन्यन्ते कुंभिपाके पतन्ति ते ॥४४॥राजोवाच -एकादश्यास्तु महात्म्यमन्येषां चैव मे मुने ।कथयस्व प्रसादेन गुरुदेव नमोऽस्तु ते ॥४५॥गर्ग उवाच -कथयिष्याम्यहं सर्वं शृणुष्व यदुनन्दन ।एकादश्यां न भोक्तव्यमन्नं चैव फलं तथा ॥४६॥यथोक्तविधिना कुर्य्यादेकादशीं मुदा नरः ।तदा सा तस्य फलदा भवेत नृपसत्तम ॥४७॥व्रजनाभिरुवाच -फलाहारं च कुर्वन्ति ये नरा हरिवासरे ।तेषां गतिः का भवति तन्नो वर्णय विस्तरात् ॥४८॥ऋषिरुवाच -समस्तं चोपवासेन यथोक्तं लभते फलम् ।फलाहारेण चार्द्धं स्यात्किंचिन्न्यूनं जलेन च ॥४९॥अन्नान्सर्वान्वर्जयित्वा गोधूमाद्यान्नृपेश्वर ।एकादश्यां प्रकुर्वीत फलाहारं मुदा नरः ॥५०॥अन्नं भुनक्ति यो राजन्नेकादश्यां नराधमः ।इह लोके स चांडालो मृतः प्राप्नोति दुर्गतिम् ॥५१॥दधि दुग्धं तथा मिष्टं कूटं कर्कटिकां तथा ।वास्तूकं पद्ममूलं च रसालं जानकीफलम् ॥५२॥गंगाफलं पत्रनिंबून्दाडिमञ्च विशेषतः ।शृङ्गाटकं नागरंगं सैंधवं कदलीफलम् ॥५३॥आम्रातकमार्द्रकं च तूलं च बदरीफलम् ।जंबूफलमामलकं पटोलं त्रिकुशं तथा ॥५४॥रतालूं शर्कराकंदमिक्षुदंडं तथैव च ।द्राक्षादीनि हि चान्यानि पवित्रं च फलं तथा ॥५५॥एकवारं च राजेन्द्र भोक्तव्यं हरिवासरे ।तृतीये प्रहरेऽतीते प्रस्थस्य च पलस्य च ॥५६॥द्विजाय चार्द्धंदातव्य-मर्द्धमात्मनि भोजनम् ।द्विवारं जलमश्नीयादेकवारं फलं तथा ॥५७॥समाचरेज्जागरणं पूजयित्वा जनार्दनम् ।द्विवारं वा त्रिवारं वा यो नरो हरिवासरे ॥५८॥करोति च फलाहारं तस्य किंचित्फलं न हि ।अन्नभुक्तेन यत्पापं जातं पंचदशैर्दिनैः ॥५९॥एकादश्युपवासेन तत्सर्वं विलयं भवेत् ।भोजनं ब्राह्मणे दत्त्वा ह्युपवासं समाचरेत् ॥६०॥श्रुत्वा तस्याश्च माहात्म्यं सर्वपापैः प्रमुच्यते ।द्रव्यार्थी लभते द्रव्यं सुतार्थी लभते सुतम् ।मोक्षार्थी लभते मोक्षमेकादश्या व्रतेन वै ॥६१॥इति श्रीमद्गर्गसंहितायामश्वमेधखण्डेएकादशीमाहात्म्यं नामैकषष्टितमोऽध्यायः ॥६१॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP