संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १७ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता स्त्रीराज्यविजयम् Translation - भाषांतर गर्ग उवाच -अथानिरुद्धस्य हयो विमुक्तोयदुप्रवीरैश्च महोज्ज्वलांगः ॥उशीनराद्वीरवरान्प्रपश्य-न्विनिर्गतः सोऽपि शनैः शनैश्च ॥१॥एवं स विचरन् राजन् राष्ट्रे राष्ट्रे हयोत्तमः ॥नृपैश्च बहुभी राजन्गृहीतश्च विमोचितः ॥२॥इंद्रनीलं जितं श्रुत्वा तथा हेमांगदं नृपम् ॥नृपाश्चान्ये मण्डलेशाः प्राप्तं न जगृहुर्हयम् ॥३॥वीरहीनान्बहून्देशान्विलोक्य तुरगोत्तमः ॥यदृच्छया नृपश्रेष्ठ स्त्रीराज्यं तु जगाम ह ॥४॥राजन्यकन्या काचिद्वै सुरूपा नाम सुन्दरी ॥राज्यं सा कुरुते स्वैरं राजा तत्र न जीवति ॥५॥तत्र देशे स्त्रियं प्राप्य यस्तां भजति कामतः ॥ऊर्ध्वं संवत्सराद्राजन्न कदापि स जीवति ॥६॥तत्पुरे तुरगो गत्वा ह्युद्याने पुष्पसंकुले ॥लवंगलतिकवृन्दे स्वेलागंधसमाकुले ॥७॥पक्षिभिर्मधुपैर्घुष्टे स्थितोऽभूच्चिंचिणीतले ॥ददृशुः स्त्रीजनाः सर्वे श्यामकर्णं मनोहरम् ॥८॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्र्ष्टुं समागताः ॥हयं दृष्ट्वा स्त्रियो गत्वा स्वामिनीमवदन्नृप ॥९॥श्रुत्वा राज्ञी रथे स्थित्वा छत्रचामरवीजिता ॥नारीकोटिसमायुक्ता हयं द्र्ष्टुं समाययौ ॥१०॥अश्वं दृष्ट्वा च तत्पत्रं वाचयित्वा रुषान्विता ॥पुनः पुरे हयं बद्ध्वा युद्धं कर्तुं मनो दधे ॥११॥काश्चिन्नार्यो गजारूढा रथारूढाः समाययुः ॥हयारूढास्तथा काश्चिद्दंशिताः शस्त्रसंयुताः ॥१२॥ताः सर्वा कुपिता वीक्ष्य शस्त्रवर्षं प्रकुर्वतीः ॥आगतो ह्यनिरुद्धस्तु हेमांगदमुवाच ह ॥१३॥अनिरुद्ध उवाच -राजन्नेताश्च का नार्यो युद्धं कर्तुं समागताः ॥विस्तरेणापि कथय येन मे स्याच्छिवं त्विह ॥१४॥हेमांगद उवाच -अत्र देशे च कुरुते राज्ञी राज्यं नृपेश्वर ॥न जीवति नृपो राज्ये तस्मात्स्त्रीभिः समन्विता ॥१५॥हयं गृहीत्वा ते सा च संग्रामं कर्तुमागता ॥इति श्रुत्वानिरुद्धस्तु राजानमिदमब्रवीत् ॥१६॥अनिरुद्ध उवाच -कस्मात्स्त्री कुरुते राज्यं राजा कस्मान्न जीवति ॥एतां विस्तरतो वार्तां यत्त्वं जानासि तद्वद ॥१७॥इति तद्वाक्यमाकर्ण्य राजा हेमांगदोऽब्रवीत् ॥संस्मरन् याज्ञवल्क्यस्य स्वगुरोश्च पदांबुजम् ॥१८॥यादवेंद्र पुरावृत्तं याज्ञवल्क्यमुखाच्छ्रुतम् ॥चंपकायां मया पूर्वं कथयिष्यामि तच्छृणु ॥१९॥पुरा कृतयुगे राजन्नत्र देशे बभूव ह ॥नारीपाल इति ख्यातो राजा तु मंडलेश्वरः ॥ ॥२०॥तस्यासीन्मोहिनी भार्या सिंहलद्वीपसंभवा ॥पद्मिनी हंसगमना पूर्णचंद्रनिभानना ॥२१॥तस्याः सौंदर्यजलधौ मग्नो भूत्वा महीपतिः ॥अहर्निशमविज्ञाय रेमे तां शतवत्सरैः ॥२२॥न चाकार प्रजानां वै न्यायं कामेन मोहितः ॥तदा सर्वाः प्रजा राजन्बभूवुर्दुःखपीडिताः ॥२३॥प्रजानां कदनं वीक्ष्य मोहिनी नृपवल्लभा ॥न्यायं चकार सर्वासां स्वशक्त्या यादवेश्वर ॥२४॥एकदा तं नृपं द्र्ष्टुमष्टावक्रो महामुनिः ॥आजगाम नृपस्यापि प्राप्तश्चांतःपुरे किल ॥२५॥तमागतं मुनिं दृष्ट्वा नृपः स्त्रीलग्नमानसः ॥विजहास कुरुपोऽयं कस्मात्प्राप्त इति ब्रुवन् ॥२६॥ततो रुषा मुनिः प्राह शृणु मूढ नपुंसक ॥मुनीनां स्त्रीजितो भूत्वापमानं किं करिष्यसि ॥२७॥त्वद्देशे च सदा राज्यं नार्यः कुर्वन्तु नित्यशः ॥ न जीवति नृपो राज्ये तस्माद्गच्छ त्वमालयात् ॥२८॥अत्र देशे स्त्रियं प्राप्य यस्तां भजति नित्यशः ॥स तु संवत्सरांते वै न जीवति न संशयः ॥२९॥गर्ग उवाच -इत्युक्त्वा स्वाश्रमं सोऽपि प्रययौ मुनिसत्तमः ॥गते मुनौ नृपस्तत्र क्लीबोऽभूत्तस्य शापतः ॥३०॥सर्वं मुनिकृतं ज्ञात्वा गर्हयामास भूपतिः ॥आत्मानमात्मना चैव स दीनो दुःखदुःखितः ॥३१॥नारीपाल उवाच -किं कृतं मंदभाग्येन स्त्रीजितेन मया ह्यहो ॥मुनीनां पूजनं त्यक्त्वा तथा निरययायिनम् ॥३२॥अद्य मां पापिनं दुष्टं यमदूतैर्विलोकितम् ॥दृष्ट्वा वैतरणीयोग्यं कः प्रतापात्प्रमोक्ष्यति ॥३३॥इत्युक्त्वा स गृहं त्यक्त्वा विचचार वने वने ॥भजन्विमुक्तिदं विष्णुं लेभे चांते हरेः पदम् ॥३४॥अत्र देशे च राजानो राज्यं शापभयान्विताः ॥न करिष्यंति नार्य्यश्च करिष्यंति न संशयः ॥३५॥श्रीगर्ग उवाच -एवं तयोः कथतोर्नार्यः क्रुद्धाः समागताः ॥व्यमुंचन्धनुषैर्बाणान्पुंश्चल्यः क्रोधपूरिताः ॥३६॥ताः स्त्रीर्वीक्ष्यानिरुद्धस्तु विस्मितोऽभूद्भयान्वितः ॥कथं करिष्ये युद्धं वै स्त्रीभिः सार्द्धमिति ब्रुवन् ॥३७॥तदैव तस्य निकटे सुरूपा मंडलेश्वरी ॥स्त्रीभिः प्राप्ता चानिरुद्धं दृष्ट्वा वचनमब्रवीत् ॥३८॥राज्ञ्युवाचतिष्ठ तिष्ठ रणे वीर कुरु युद्धं मया सह ॥सेनायुक्तस्तथापि त्वं किं शोचसि वृथा रणे ॥३९॥अहं त्वां मानिनं जित्वा प्रधने वृष्णिभिर्युतम् ॥क्रीडामृगं करिष्यामि मदनज्वरपीडिता ॥४०॥इति तस्या वचः श्रुत्वानिरुद्धो भयविह्वलः ॥प्रत्याह दीनया वाचा सर्वविन्मंडलेश्वरीम् ॥४१॥तुरगं कृष्णचंद्रस्य सर्वदेवदेवेश्वरस्य च ॥मह्यं प्रयच्छ हे राज्ञि क्रतोरर्थे तु स्वेच्छया ॥४२॥नाहं करिष्ये युद्धं वै त्वया सार्द्धं वरानने ॥गच्छ द्वारावतीं तस्माद्दर्शनार्थं हरेश्च वै ॥४३॥यन्नामस्मरणाद्भद्रे नरो याति कृतार्थताम् ॥तस्य वै दर्शनस्यापि फलं किं कथयामि ते ॥४४॥इति सा चानिरुद्धेन बोधिता निपुणेन वै ॥पूर्ववार्तां स्मरन्त्याह ब्रह्माणं मोहिनी यथा ॥४५॥सुरूपोवाचअहं पुराभवं देव स्वर्वेश्या पूर्वजन्मनि ॥मोहिनी नाम विख्याता कंजांगा कंजलोचना ॥४६॥एकदा हंसयानेन व्रजंतं पद्मसंभवम् ॥दृष्ट्वा तन्निकटे गत्वा भज मामित्युवाच ह ॥४७॥यदा न जगृहे ब्रह्मा शापं दत्वा तदा ह्यहम् ॥गत्वा ककुद्मतीतीरे चकार दुष्करं तपः ॥४८॥तपसा तोषितो ब्रह्मा तपोऽन्ते च समागतः ॥तपस्विनीं प्रसन्नात्मा वरं ब्रूहीत्युवाच ह ॥४९॥तच्छ्रुत्वा मोहिनी प्राह देवदेव नमोऽस्तु ते ॥वरं वरय लोकेश दीनां मां तपसि स्थिताम् ॥५०॥यदि मां त्वं न गृह्णासि दुःखितां शरणागताम् ॥तदा रोषेण त्यक्ष्यामि तपसा च कृशां तनुम् ॥५१॥इति श्रुत्वा विधिः प्राह शोकं मा कुरु भामिनि ॥अन्यजन्मनि ते भद्रे भविष्यति मनोरथः ॥ ५२॥अहं पौत्रो भविष्यामि द्वारकायां हरेश्च वै ॥सुवर्णश्चानिरुद्धाख्यः स्त्रीराज्ये त्वं भविष्यसि ॥५३॥ततो गृह्णामि त्वां भद्रे नानृतं वचनं मम ॥इति श्रुत्वा च तद्वाक्यं जाताहं पृथिवीतले ॥५४॥ब्रह्मा त्वं यादवश्रेष्ठ मदर्थे च समागतः ॥गर्ग उवाच -वाक्यं तस्याः समाकर्ण्य यादवा विस्मयं ययुः ॥५५॥अनिरुद्धस्तु धर्मात्मा प्रत्याह विमलं वचः ॥अनिरुद्ध उवाच -गच्छ श्रीद्वारकां भद्रे तत्र गृह्णामि त्वां प्रियाम् ॥अद्य यास्यामि तुरगं राजन्येभ्यश्च पालयन् ॥५६॥ततः सा तस्य वाक्येन प्रमिलां मंत्रिणीं वराम् ॥राज्ये कृत्वा तुरंगं च दत्त्वा द्वारावतीं ययौ ॥५७॥इति श्रीगर्गसंहितायां हयमेधखण्डेस्त्रीराज्यविजयो नाम सप्तदशोऽध्यायः ॥१७॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP