अश्वमेधखण्डः - अध्यायः ५
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
गर्ग उवाच -
अथ दृष्ट्वा कृष्णचन्द्रो गजेन्द्रोपरि शोभितम् ॥
इंद्रं देवपरीवारं युद्धाय समुपस्थितम् ॥१॥
शंखं दघ्मौ स्वयं कृष्णः शब्देनापूरयन्दिशः ॥
मुमोच च शरव्रातं सहसायुधसंमितम् ॥२॥
ततो दिशश्च गगनं दृष्ट्वा बाणशतान्वितम् ॥
मुमुचुर्विबुधाः सर्वे शराश्चक्रायुधोपरि॥३॥
एकैकमस्त्रं शस्त्रं च सुरैर्मुक्तं सहस्रधा ॥
स्वबाणैर्भगवान्कृष्णश्चिच्छेद नृप लीलया ॥४॥
पाशिनश्चाहिपाशं च चिच्छिदे पन्नगाशनः ॥
यमराजेन प्रहितं दंडं लोकभयंकरम् ॥५॥
गदया पातयामास भूमौ कृष्णस्तु लीलया ॥
चक्रेण धनदस्यापि शिबिकां तिलको बहु ॥६॥
चकार कृष्णः सूर्यं च कोपदृष्ट्या हतौजसम् ॥
महाग्निमागतं वीक्ष्य मुखेन च पपौ हरिः ॥७॥
ततो रुद्रगणैर्मुक्ताञ्शूलांश्चिच्छेद वै रुषा ॥
चक्रेण च हरी रुद्रान्पातयामास बाहुना ॥८॥
ततो मरुद्गणा देवाः साध्या विद्याधरास्तथा ॥
मुमुचुर्बाणपटलान्माधवोपरि भूपते ॥९॥
शरवर्षं प्रमुंचंतीं सेनां सर्वां समागताम् ॥
विलोक्य सत्यभामा तु भयं प्राप तदा मृधे ॥१०॥
तां भीतां प्राह गोविंदः सत्ये त्वं मा भयं कुरु ॥
आगतां शक्रसेनां वै हनिष्यामि न संशयः ॥११॥
इत्युक्त्वा भगवान्क्रुद्धो बाणैः शार्ङ्गधनुश्च्युतैः ॥
ताडयामास विबुधान्क्रोष्टून्सिंहो नखैर्यथा ॥१२॥
ततः प्रत्याह गरुडं कंसहा कोपपूरितः ॥
वैनतेय त्वया युद्धं न कृतं रणमंडले ॥१३॥
तच्छ्रुत्वा तु सभार्यं च स्कन्धे संधारयन्हरिम् ॥
कोपाद्विष्णुरथः सद्यः पक्षाभ्यां नखरांकुरैः ॥१४॥
तुंडेन भक्षयन्देवांस्ताडयन्विचचार वै ॥
ततश्च दुद्रुवुर्देवा हन्यमाना गरुत्मता ॥१५॥
अथ बाणैर्महीपाल इंद्रोपेन्द्रौ महाबलौ ॥
परस्परं च वर्षंतौ धाराभिरिव तोयदौ ॥१६॥
ऐरावतेन राजेंद्र सुपर्णो युयुधे तदा ॥
गजस्तार्क्ष्यं तु दशनैर्जघान गरुडस्तथा ॥१७॥
गजं तु तुंडपक्षैश्च छिन्नं भिन्नं चकार ह ॥
सुरैः समस्तैर्युयुधे वज्रिणा च यदूत्तमः ॥१८॥
भगवान्मघवंतं वै मघवा मधुसूदन् ॥
बाणैर्ववृषतुः क्रुद्धावन्योन्यविजिगीषिणौ ॥१९॥
छिन्नेष्वस्त्रेषु बाणेषु शस्त्रेष्वस्त्रेषु च त्वरम् ॥
वज्रं जग्राह मघवा भगवाँश्चक्रमेव च ॥२०॥
हाहाकारस्तदैवासीत्त्रैलोक्ये सचराचरे ॥
वज्रचक्रधरौ वीक्ष्य सुरेश्वरनरेश्वरौ ॥२१॥
जग्राह वामहस्तेन क्षिप्तं वज्रं च वज्रिणा ॥
न मुचोच हरिश्चक्रं तिष्ठ तिष्ठेत्युवाच च ॥२२॥
लज्जितं वज्रहीनं च तार्क्ष्येण क्षतवाहनम् ॥
भीतं पलायमानं चालोक्य सत्या जहास वै ॥२३॥
शची वीक्ष्यागतं शक्रं प्राह कोपेन पूरिता ॥
एकाकिना माधवेन प्रधने तु विनिर्जितः ॥२४॥
महासैन्ययुतस्त्वं वै तस्मात्ते धिग्बलं सुर ॥
अहं गत्वा रणे कृष्णं विनिर्जित्य सुरद्रुमम् ॥२५॥
मोचयामि न संदेहः पश्य त्वं च सुराधम ॥
गर्ग उवाच -
इत्युक्त्वा शिबिकां शीघ्रमारुह्य कुपिता शची ॥२६॥
योद्धुकामा ययौ राजन्पुनः सुरगणैर्वृता ॥
तामागतां वीक्ष्य कृष्णो युद्धाय न दधे मनः ॥२७॥
ततः सत्या हरिं प्राह रुषा प्रस्फुरिताधरा ॥
अद्य युद्धं करिष्यामि शच्या सार्द्धमहं प्रभो ॥२८॥
तच्छ्रुत्वा प्रहसन्कृष्णो दत्त्वा तस्यै सुदर्शनम् ॥
स्थापयित्वा सुपर्णे च जग्राह द्युतरुं स्वयम् ॥२९॥
यदा हरिप्रिया क्रुद्धा युद्धं कर्तुं समागता ॥
तदा सर्वत्र ब्रह्मांडे चासीत्कोलाहलो महान् ॥३०॥
भयं प्रापुः सुराः सर्वे विधिशक्रादयो नृप ॥
तदैव गीष्पती राजन्नाययौ शक्रनोदितः ॥३१॥
आगत्य वारयामास योद्धुकामां पुलोमजाम् ॥
बृहस्पतिरुवाच -
शची शृणु मदीयं वै वचनं बहुबुद्धिदम् ॥३२॥
कृष्णस्तु भगवान्साक्षात्सत्यभामा च धीमती ॥
तया सार्द्धं कथं युद्धं करिष्यसि हरिप्रिये ॥३३॥
तस्मादवज्ञां संत्यज्य ऋभुक्षे त्वं गृहं व्रज ॥
सत्यां वै पारिजातं च दत्वा रक्ष सुरान्भयात् ॥३४॥
यद्भयाद्वाति पवनो वह्निर्दहति यद्भयात् ॥
भयाद्यन्मृत्युश्चरति ब्रध्नो व्रजति यद्भयात् ॥३५॥
यस्माद्बिभेति ब्रह्मा वै कपर्दी च पुरंदरः ॥
तं न जानासि कृष्णं वै भौमं हत्वा समागतम् ॥३६॥
गर्ग उवाच -
इति श्रुत्वा शची वाक्यं भामां कृष्णं च लज्जया ॥
नत्वा जगाम सदनमात्मनं च विगर्हती ॥३७॥
ततः शक्रं नमंतं च व्रीडितं वीक्ष्य माधवः ॥
उवाच शक्र मा व्रीडां गते च भिदुरे कुरु ॥३८॥
द्वंद्वयुद्धे हि चैकस्य भविष्यति पराजयः ॥
इति श्रुत्वा च प्रोवाच वचनं पाकशासनः ॥३९॥
इन्द्र उवाच -
यस्मिञ्जगत्सकलमेतदनादिमध्ये
यस्माद्यतश्च न भविष्यति सर्वभूतात् ॥
तेनोद्भवप्रलयपालनकारणेन
व्रीडा कथं भवति देवि निराकृतस्य ॥४०॥
सकलभुवनसूतेर्मूर्तिरन्यातिसूक्ष्मा
विदितसकलवेद्यैर्ज्ञायते यस्य नान्यैः ॥
तमजमकृतमीशं शाश्वतं स्वेच्छयैनं
जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥४१॥
इत्युक्त्वा सत्यभामां वै शक्रस्तूष्णीं बभूव ह ॥
ततः प्रहस्य भगवान्प्राह गंभीरया गिरा ॥४२॥
भवान्देवाधिपः शक्र वयं भूमिनिवासिनः ॥
क्षंतव्यमपराधं तद्भवता च कृतं मया ॥४३॥
भोः शक्र पारिजातश्च नीयतामुचितास्पदम् ॥
गृहीतोऽयं मया सत्यभामावचनकारणात् ॥४४॥
गृहाण कुलिशं चेदं प्रहितं यत्त्वया मयि ॥
तवैवास्त्रं शुनासीर तद्वैरिषु निवारणम् ॥४५॥
इन्द्र उवाच -
कृष्ण किं मोहयसि मां नरोऽहमिति किं वद ॥
जानीमस्त्वां जगन्नाथं न तु सूक्ष्मविदो वयम् ॥४६॥
योऽसि सोऽसि जगत्त्राण प्रवृत्तौ नाथ संस्थितिः ॥
विश्वस्य शल्यनिष्कर्षं करोषि गरुडध्वज ॥४७॥
अयं च नीयतां कृष्ण पारिजातः कुशस्थलीम् ॥
नरलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥४८॥
आगमिष्यति गोविन्द स्वयमेव त्रिविष्टपम् ॥
श्रीगर्ग उवाच -
तच्छ्रुत्वा वज्रिणे वज्रं दत्त्वा सोऽप्याजगाम कौ ॥४९॥
द्वारकां द्वारकानाथः स्तूयमानः सुरेश्वरैः ॥
उपाध्माय ततः कंबुं संस्थितो द्वारकोपरि ॥५०॥
उत्पादयामास मुदं द्वारकावासिनां नृप ॥
सुपर्णादवतीर्याथ कृष्णो भामासमन्वितः ॥५१॥
पारिजातं च निष्कूटे स्थापयामास लीलया ॥
जुष्टं सुरद्रुमं कृष्णो भ्रमरैः स्वर्गपक्षिभिः ॥५२॥
अथैकस्मिन्मुहूर्ते वै माधवे माधवः स्वयम् ॥
उवाह राजकन्याश्च पृथग्गेहेषु धर्मतः ॥५३॥
षोडशस्त्रीसहस्राणि अष्टाधिकशतानि च ॥
तावंति चक्रे रूपाणि परिपूर्णतमो हरिः ॥५४॥
एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ॥
यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥५५॥
इति श्रीगर्गसंहितायामश्वमेधखंडे श्रीगर्गवज्रनाभसंवादे
पारिजातानयनं नाम पञ्चमोऽध्यायः ॥५॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
N/A
References : N/A
Last Updated : May 22, 2021
TOP