संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३७ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दैत्यसहायार्थं समागतः भैरवमोहनः Translation - भाषांतर वज्रनाभिरुवाच -कुनंदने हते ब्रह्मन्बल्वले मूर्च्छिते रणे ॥न कृतं तु सहायं वै रुद्रेण करुणात्मना ॥१॥कस्मान्न चागतो रुद्रो यज्ञः पूर्णः कथं भवेत् ॥कथं विमुक्तस्तुरगस्तन्मे व्याख्यातुमर्हसि ॥२॥सौतिरुवाच -इति तस्य वचः श्रुत्वा गर्गो ज्ञानवतां वरः ॥स्मृत्वा सर्वां कथां ब्रह्मन्नुवाच यदुसत्तम् ॥३॥गर्ग उवाच -बल्वले मूर्च्छिते राजन्हते शूरे कुनन्दने ॥महाकोपं शिवश्चक्रे प्रेरितस्तु सुरर्षिणा ॥४॥आरुह्य नंदिनं क्रुद्धो भक्तरक्षाकरः शिवः ॥चन्द्ररेखां वहन्मूर्ध्नि जटाजूटांतरे नृप ॥५॥सर्पहारैर्मुण्डहारैर्भस्मलिप्तो भयंकरः ॥दशबाहुः पञ्चमुखो नेत्रै: पञ्चदशैर्वृतः ॥६॥सिंहचर्मांबरधरो मदमत्तो भयंकरः ॥त्रिशूलपट्टिशधरो धनुर्बाणधरः परः ॥७॥कुठारपाशपरिघभिंदिपालैर्विभूषितः ॥सहस्ररविसंकाशः सर्वभूतगणावृतः ॥८॥हंतुं सर्वान्वृष्णिवरान्कार्ष्णिजप्रमुखान्मृधे ॥कैलसादाययौ शीघ्रं चालयन्पृथिवीतलम् ॥९॥कोलाहलो महानासीदाकाशे भूतले नृप ॥देवदैत्यनराः सर्वे भयं प्रापुश्च विस्मिताः ॥१०॥सगणं सपरीवारमागतं वीक्ष्य शंकरम् ॥क्रुद्धं प्रलयकर्तारं भयं प्रापुर्यदूत्तमाः ॥११॥अनिरुद्धस्य च मुखं निस्तेजस्कमभूद्भयात् ॥चकंपे हृदयं तस्य दुःखितस्य रणांगणे ॥१२॥ततः प्रत्याह वचनं निष्ठुरं सर्वयादवान् ॥शूलं गृहीत्वा हस्तेन गिरीशः क्रोधपूरितः ॥१३॥शंकर उवाच -अनिरुद्धः कुत्र गतो गतः कुत्र सुनन्दनः ॥सांबादयः कुत्र गता भक्तं हत्वा कुनन्दनम् ॥१४॥बल्वलं मूर्च्छितं कृत्वा मद्भक्तं दैत्यसत्तमम् ॥तस्यानुगान्मृधे हत्वा कुत्र यास्यंति वृष्णयः ॥१५॥तस्मात्सर्वान्हनिष्यामि मद्भक्तानां रिपून्मृधे ॥अहं विष्णुर्विधिश्चैते भक्तं रक्षंति दुःखतः ॥१६॥गर्ग उवाच -इत्युदीर्य्यानिरुद्धं स प्रेषयामास भैरवम् ॥त्वं हि योद्धुं गच्छ शूर कार्ष्णिजं जयिनं मृधे ॥१७॥सुनंदनं नंदिनं च प्रेषयामास रोषतः ॥गदं च वीरभद्रं वै सांबं च शिखिवाहनम् ॥१८॥भानुञ भृंगिणं युद्धे विरूपाक्षः समादिशत् ॥यदूंश्च प्रेषयामास भूतप्रेतांस्ततः शिवः ॥१९॥ततस्ते रुद्रवचनाद्भूतप्रेतविनायकाः ॥भैरवाः प्रमथाश्चैव वेताला ब्रह्मराक्षसाः ॥२०॥उन्मादाश्चैव कूष्माण्डा आजग्मुः कोटिशो मृधे ॥भूतानि जघ्नुश्चांगारैर्यादवाश्च विनायकाः ॥२१॥पट्टिशैर्भैरवाः शूलैः खट्वांगैः प्रमथाः किल ॥जनानश्वान्गृहीत्वा तु भक्ष्यंति ब्रह्मराक्षसाः ॥२२॥यातुधानाश्चरर्वयन्तो मनुष्याणां शिरांसि च ॥कपालैस्तत्र वेतालाः पिबंतो रुधिरं रणे ॥२३॥पिशाचास्तत्र नृत्यन्ति प्रेता गायंति एव हि ॥शिरांसि कंदुकानीव क्षेपयंतो मुहुर्मुहुः ॥२४॥अट्टहासं प्रकुर्वन्तः प्रधावंत इतस्ततः ॥गजान्रथांश्चर्वयन्तो दृश्यन्ते रणमंडले ॥२५॥रक्तं पिशाच्यो डाकिन्यः पाययंत्यः सुतान्मृधे ॥मारोदीरिति वादिन्य अक्षीणि च तदाऽमृजन् ॥२६॥उन्मादाश्चैव कूष्मांडा निर्माय मुण्डकैः स्रजः ॥संयच्छंति महेशाय शूराणां स्वर्गगामिनाम् ॥२७॥हाहाकारस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥दुद्रुवंतो भयादश्वा धावंतस्तत्र दंतिनः ॥२८॥वीराः प्रपतिता युद्धे गता मृत्युं सहस्रशः ॥दृष्ट्वा चेत्थं गणबलं दीप्तिमान्माधवात्मजः ॥२९॥चापे निधाय विशिखान्मुमुचे परमाद्भुतम् ॥ते शरा विविशुस्तिग्मा भूतप्रेतविनायकान् ॥३०॥कोटिशः कोटिशो राजन्यथारण्यं शिखण्डिनः ॥ततश्च दुद्रुवुर्भिन्नाः सर्वे भूतगणाः शरैः ॥३१॥केचिन्निपतिता युद्धे केचिद्वै निधनं गताः ॥न हताश्च शरैः केऽपि पतिताः पूर्वमेव च ॥३२॥पलायिते प्रेतगणे भैरवः क्रोधपूरितः ॥त्रिशूली सारमेयस्थ आजगाम कृतांतवत् ॥३३॥तं दृष्ट्वा कालरूपं च भैरवं तु भयंकरम् ॥न कोऽपि युयुधे तेनानिरुद्धो युयुधे नृप ॥३४॥अनिरुद्धः पंचशरैस्तताड भैरवं मृधे ॥स चापि परिघेणापि बभञ्ज तद्रथं वरम् ॥३५॥सोऽप्यन्यं रथमारुह्य सज्जं कृत्वा धनुर्दृढम् ॥तताड दशभिर्बाणै रौद्रं मायाविनं मृधे ॥३६॥तैर्बाणैर्निहतः सोऽपि किंचित्कश्मलतां गतः ॥त्रिशूलं त्रिशिखं तस्मै चिक्षेप ज्वलनप्रभम् ॥३७॥शूलं समागतं दृष्ट्वा बाणैश्चिच्छेद कार्ष्णिजः ॥छिन्नं स्वीयं त्रिशूलं वै दृष्ट्वा रुद्रसुतो बली ॥३८॥ससृजे मायया तत्र मुखादनलमेव च ॥तेनाग्निना जज्वलुश्च मही वृक्षा दिशो दश ॥३९॥पदातीनां रथानां च हयानां दंतिनां तथा ॥जज्वलुश्च शरीराणि मुञ्जपुष्पप्रतूलवत् ॥४०॥केचित्प्रज्वलिता वीराः केचिद्वै भस्मतां गताः ॥अग्निना पूरितं सैन्यं कृष्णं केचित्स्मरंति हि ॥४१॥सेनां भयातुरां दृष्ट्वानिरुद्धो धन्विनां वरः ॥दधार विशिखं चापे ज्ञात्वा मायां विनिर्मिताम् ॥४२॥मंत्रयित्वा च मंत्रेण पर्जन्यास्त्रेण सायकम् ॥मुमोच गगने शीघ्रं स्मरन्कृष्णपदांबुजम् ॥४३॥शरे मुक्ते समागत्य मेघाः प्रववृषुर्जलम् ॥अग्निः शांतिं गतो राजन्यथा प्रावृट् तथा बभौ ॥४४॥शिखंडिनः कोकिलाश्च चातकाः सारसादयः ॥मण्डूकाद्याश्च प्रजगुरिंद्रगोपा विरेजिरे ॥४५॥पुरंदरस्य चापेन सौदामिन्या बभौ नभः ॥प्रयासं निष्फलं दृष्ट्वा भैरवो भैरवं रवम् ॥४६॥चकार स्वमुखेनापि सर्वेषां त्रासयन्मनः ॥ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥४७॥विचेलुर्दिग्गजास्तारा राजद्भूखण्डमण्डलम् ॥तदैव बधिरीभूता बभूवुः पतिता नराः ॥४८॥पुनश्च भैरवः क्रुद्धो हस्तं हस्तेन पीडयन् ॥निष्पिषन्नधरं दंतैर्लेलिहानः स्वजिह्वया ॥४९॥नेत्राभ्यां रक्तवर्णाभ्यां पश्यन्सर्पैर्विभूषितः ॥जग्राह परशुं तीक्ष्णं तृणीकृत्य यदूत्तमम् ॥५०॥तदैव जृंभणास्त्रेणानिरुद्धो रणकोविदः ॥भैरवं मोहयामास श्रीकृष्ण इव शंकरम् ॥५१॥तेनास्त्रेण रणे राजन्ननिरुद्धस्य पश्यतः ॥पपात भूतले रौद्रो जृंभितो निद्रितोऽभवत् ॥५२॥इति श्रीगर्गसंहितायां हयमेधखण्डेभैरवमोहनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP