संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४१ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राधाकृष्णमिलनम् Translation - भाषांतर श्रीगर्ग उवाच -आहूतो राधया कृष्णः सन्ध्यायां नन्दनंदनः ॥जगाम शश्वदेकान्ते शीतलं कदलीवनम् ॥१॥रंभादलैश्चंदनस्य पंकयुक्तं मनोहरम् ॥स्फारास्फुरन्नभ्रगेहं यमुनावायुशीकरम् ॥२॥एतादृशं राधिकायाः सुन्दरं मेघमंदिरम् ॥सर्वं दुःखाग्निना नित्यं भस्मीभूतं बभूव ह ॥३॥श्रीदामशापेन नृप दुःखेन वृषभानुजा ॥तनुं रक्षति तत्रापि कृष्णागमनहेतवे ॥४॥निशम्य कृष्णं स्ववने समागतंसखीमुखाच्छ्रीवृषभानुनंदिनी ॥आनेतुमुत्थाय वरासनात्त्वरंद्वारे सखीभिर्नृप सा जगाम ह ॥५॥ददौ ह्यासनपाद्याद्यानुपचारान्व्रजेश्वरी ॥वदंती कुशलं वाक्यं कृष्णा कृष्णं व्रजेश्वरम् ॥६॥परिपूर्णतमं दृष्ट्वा परिपूर्णतमा नृप ॥जहौ विरहजं दुःखं संयोगे हर्षपूरिता ॥७॥चकार स्वस्याः शृङ्गारं वस्त्रालंकारचंदनैः ॥कुशस्थल्यां गते नाथे शृङ्गारो न कृतस्तया ॥८॥पुरा तया न भुक्तं च तांबूलं मिष्टभोजनम् ॥कृतं न शय्याशयनं क्वचिद्धास्यं न वा कृतम् ॥९॥सिंहासने स्थितं राधा देवं मदनमोहनम् ॥हर्षाश्रूणि प्रमुंचंती जगौ गद्गदया गिरा ॥१०॥राधोवाच -गोकुलं मथुरां त्यक्त्वा गतः कस्मात्कुशस्थलीम् ॥वद तन्मे हृषीकेश त्वं साक्षाद्गोकुलेश्वरः ॥११॥क्षणं युगसमं नाथ जानामि त्वद्वियोगतः ॥घटीं मन्वंतरसमां द्विपरार्द्धसमं दिनम् ॥१२॥कस्मिन्कुकाले विरहो मे बभूव च दुःखदः ॥येन त्वच्चरणौ देव न पश्यामि सुखप्रदौ ॥१३॥यथा रामं तु सीतेव मानसं वरटेव च ॥तथा रासेश्वरं त्वां तु मानदं हि समुत्सहे ॥१४॥सर्वं जानासि सर्वज्ञ किं दुःखं कथयाम्यहम् ॥शतवर्षं गतं नाथ वियोगो न गतो मम ॥१५॥इत्युक्त्वा वचनं राजन्स्वामिनी स्वामिनं परम् ॥वियोगखिन्ना दुःखानि स्मरंती सा रुरोद ह ॥१६॥दृष्ट्वा प्रियां रुदंतीं तां प्रियः प्राह प्रियं वचः ॥तस्माश्च शमयन्वाक्यैः कृष्णः कश्मलमेव च ॥१७॥श्रीकृष्ण उवाच -न कर्तव्यस्त्वया राधे शोकश्च तनुशोषकः ॥तेजश्चैकं द्विधाभूतभावयोः ऋषयो विदुः ॥१८॥यत्राहं त्वं सदा तत्र यत्र त्वं ह्यहमेव च ॥वियोग आवयोर्नास्ति मायापुरुषयोर्यथा ॥१९॥भेदं हि चावयोर्मध्ये ये पश्यंति नराधमाः ॥देहांते नरकान्राधे ते प्रयांति स्वदोषतः ॥२०॥अथातस्त्वं तु मां राधे नित्यं द्रक्ष्यसि चांतिके ॥प्रभाते चक्रवाकीव चक्रवाकं प्रियंकरम् ॥२१॥किंचित्कालेन दयिते गोपगोपीभिरेव च ॥साकं त्वयाक्षरं ब्रह्म श्रीगोलोकं व्रजाम्यहम् ॥२२॥गर्ग उवाच -माधवस्य वचः श्रुत्वा गोपीभिः सह राधिका ॥प्रसन्ना पूजयामास रमेशं च रमा यथा ॥२३॥श्रीराधया पुनः कृष्णो रासार्थं प्रार्थितो नृप ॥प्रस्रन्नो वृंदकारण्ये रासं कर्तुं मनो दधे ॥२४॥इति श्रीगर्गसंहितायां हयमेधखण्डेराधाकृष्णमेलनं नामैकचत्वारिंशोऽध्यायः ॥४१॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP