संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३३ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मृतस्य बल्वलपुत्रस्य यौवनप्राप्तिः Translation - भाषांतर सैन्यपाल उवाच -अत्रागताश्च सर्वेऽपि धन्विनो युद्धदुर्मदाः ॥युवराजो नृपसुतो रणे चात्र न दृश्यते ॥१॥स किं करिष्यति गृहे मारयित्वा च मत्सुतम् ॥स भुशुण्डीमुखेनापि तन्मार्गं किं न यास्यति ॥२॥इत्युक्त्वा रोषताम्राक्षो ग्रहीतुं नृपनन्दनम् ॥जगाम नगरीं शीघ्रं सैन्यपालः प्रहर्षितः ॥३॥स राजपुत्रो मदिरां पीत्वा वै भोजनांतरे ॥चकार शयनं रात्रौ विस्मृतो मदविह्वलः ॥४॥तत्पत्नी बोधयामास भर्तारं नृपनन्दनम् ॥श्रुत्वा पटहनिर्घोषं रुदती भयविह्वला ॥५॥उत्तिष्ठोत्तिष्ठ हे वीर प्रातःकालो बभूव ह ॥त्वत्पितुः शासनं पुर्य्यां भेरीघोषेण श्रूयते ॥६॥ये न यास्यंति युद्धार्थं ते वधार्हाः सुतादयः ॥तस्मात्प्रयाहि शीघ्रं त्वं गत्वा तात विलोकय ॥७॥प्रियया बोधितः सोऽपि चैतन्यो न बभूव ह ॥पुनः सा बोधयामास ससैन्ये बल्वले गते ॥८॥ततः स निद्रां च विहाय चोत्थितःसद्यो गृहीत्वा सशरं धनुः किल ॥शिवं गणेशं मनसा च संस्मर-ञ्जगाम युद्धाय रथेन भूपजः ॥९॥तमागतं वीक्ष्य नृपस्य नन्दन-मुवाच रोषेण तु सैन्यपालकः ॥कथं त्वया दैत्यवरस्य शासनंविलोपितं केन बलेन मां वद ॥१०॥मत्सुतस्त्वादृशो भूत्वा शीघ्रं नागतवान्मृधे ॥स मारितो बल्वलेन शतघ्नीप्रमुखेन च ॥११॥तस्माद्गच्छ पितुः पार्श्वं सत्यवादी पिता तव ॥मारयिष्यति शीघ्रं वै नेतुं त्वां प्रेषितोऽस्म्यहम् ॥१२॥वचस्तीक्ष्णं समाकर्ण्य भयाच्छुष्कमुखस्तु सः ॥पितुः सकाशात्स ययौ सुधन्वा दुःखितो यथा ॥१३॥ददर्श पितरं गत्वा दैत्यवृंदैः समावृतम् ॥रथस्थं कुपितं तत्र ह्यनिरुद्धजयोत्सुकम् ॥१४॥दृष्ट्वा तातं नमस्कृत्य व्रीडितो भयविह्वलः ॥अधोमुखः स्थितो भूमौ दानवेंद्रस्य पश्यतः ॥१५॥बल्वलः कुपितः प्राह दंतान्दंतैर्विनिष्पिषन् ॥आज्ञाभंगस्त्वया केन कृतः स्वात्मविघातने ॥१६॥तस्माद्विभीतं किल युद्धमण्डलाद्-गृहे गतं प्राणपरीप्सया सुतम् ॥कुनन्दनं शत्रुसमं मलीमसंहित्वा शतघ्नीवदनेन हन्म्यहम् ॥१७॥इत्युक्त्वा स्वसुतं वीरो दुःखादश्रुपरिप्लुतः ॥खिन्नः प्रत्याह मनसि प्रतिज्ञा किं कृता मया ॥१८॥अहो विनापराधेन सैन्यपालसुतो हतः ॥तेन पापेन मत्पुत्रो मरिष्यति न संशयः ॥१९॥मोचयिष्ये यदि सुतं वीरं मृत्युमुखाद्बलात् ॥तदा मत्सैनिकाः सर्वे मां शपंति हसंति च ॥२०॥शोचंतमित्थं नृपतिं च दुःखितंस्वपुत्रशोकेन तु खिन्नमानसम् ॥विलोक्य रोषेण हसन्नमर्षितोह्युवाच वाक्यं किल सैन्यपालकः ॥२१॥सैन्यपाल उवाच -एनं मारय शीघ्रं त्वं स्वपुत्रं च कुनन्दनम् ॥पश्चाद्भवति संग्रामो यादवानां च दानवैः ॥२२॥त्वं सत्यवादी दैत्येंद्र इदं कर्म च दारुणम् ॥न करिष्यसि दुःखेन निरयस्ते भविष्यति ॥२३॥सत्याद्रामसमं पुत्रं तत्याज कोसलेश्वरः ॥हरिश्चंद्रः प्रियां पुत्रं स्वात्मानं चैव भूपते ॥२४॥बलिश्चैव महीं सर्वां जीवनं च विरोचनः ॥स्वकीर्तिं च शिबिश्चैव दधीचिः स्वतनुं तथा ॥२५॥पृषध्रं तु गुरुश्चैव रंतिदेवश्च भोजनम् ॥आज्ञाभंगकरं पुत्रं तथा मारय त्वं नृप ॥२६॥त्वया पूर्वं च यत्प्रोक्तं स्वपुत्रमपि भ्रातरम् ॥आज्ञाभंगकरं हन्मि शीघ्रमन्यस्य का कथा ॥२७॥तस्मिन्देशे च वस्तव्यं यस्मिन्भूपश्च सत्यवाक् ॥तस्मिन्देशे न वस्तव्यं यस्मिन्भूपो ह्यसत्यवाक् ॥२८॥गर्ग उवाच -इति तद्वाक्यमाकर्ण्य बल्वलः खिन्नमानसः ॥मारणार्थं तु तस्यापि तस्मै चाज्ञां चकार ह ॥२९॥ततो जगाम दुःखाढ्यो यदूनां संमुखे तु सः ॥सैन्यपालस्तु तस्याज्ञां तत्पुत्राग्रे न्यवेदयत् ॥३०॥श्रुत्वा प्रत्याह वचनं शीघ्रं तस्मै कुनंदनः ॥राजपुत्र उवाच -कर्तव्या च नृपस्याज्ञा त्वया परवशेन वै ॥३१॥रामेण तु हृतं शीर्षं स्वमातुः पितुराज्ञया ॥सैन्यपाल प्रतीतोऽहं कृताधर्मक्रिया मया ॥३२॥मरणान्न भयं मह्यं शतघ्न्यां च निवेशय ॥इत्युक्त्वा राजपुत्रस्तु स्वकिरीटं तथांगदम् ॥३३॥मुक्ताहारं स्वर्णहारं कुण्डले कटकानि च ॥ब्राह्मणेभ्यो ददौ सर्वं ते दुःखादाशिषं ददुः ॥३४॥ततः स्नात्वा स तीर्थस्य लेपयित्वा च मृत्तिकाम् ॥तुलसीपल्लवं मालां मुखे कण्ठे निधाय च ॥३५॥ब्रुवञ्छ्रीकृष्ण रामेति चकार स्मरणं हरेः ॥सैन्यपालस्तु तं शीघ्रं गृहीत्वा भुजयोर्बलात् ॥३६॥कारयामास राजेंद्र शतघ्नीवदने रुषा ॥हाहाकारस्तदैवासीत्सैनिका रुरुदुर्भृशम् ॥३७॥रुरोद बल्वलस्तत्र रुरुदुस्ते द्विजातयः ॥दृष्ट्वा शतघ्नीं तत्रापि प्रतप्तां मदपूरिताम् ॥३८॥ताम्रगोलकसंयुक्तामग्नियुक्तां भयंकराम् ॥स राजपुत्रः श्रीकृष्णं सर्वव्यापिनमीश्वरम् ॥३९॥अश्रुपूर्णमुखो भूत्वा प्रत्याह विमलं वचः ॥४०॥कृष्णं मुकुन्दमरविंददलायताक्षंशंखेन्दुकुंददशनं नरनाथवेषम् ॥इंद्रादिदेवगणवंदितपादपद्मंप्राणप्रयाणसमये च हरिं स्मरामि ॥४१॥श्रीकृष्ण गोविंद हरे मुरारेश्रीकृष्ण गोविंद कुशस्थलीश ॥श्रीकृष्ण गोविंद व्रजेश भूपश्रीकृष्ण गोविंद भयात्प्रपाहि ॥४२॥स्मरणात्तव गोविन्द ग्राहान्मुक्तो मतंगजः ॥स्वायंभुवश्च प्रह्लादो ह्यंबरीषो ध्रुवस्तथा ॥४३॥आनर्त्तश्चैव कक्षीवान्मृगेंद्राद्बहुला तथा ॥रैवतश्चंद्रहासश्च तथाहं शरणं गतः ॥४४॥पूर्वं भवति मे मृत्युः संग्रामं च विना ह्यहो ॥न तोषितश्च प्रधनेऽनिरुद्धो विशिखैर्मया ॥४५॥न तोषिता यादवाश्च न दृष्टाः कृष्णनंदनाः ॥शार्ङ्गमुक्तैश्च विशिखैर्न देहः शकलीकृतः ॥४६॥कुनन्दनस्य शूरस्य स्तेनस्येवाभवद्गतिः ॥त्वद्भक्तं मां च पापिष्ठास्तस्मात्सर्वे हसंति हि ॥४७॥यं वीक्ष्य भूमौ च पलायते वैयमो मरिष्यंति विनायकाश्च ॥निरंकुशं कृष्णजनं च पूज्यंकथं शतघ्नी किल मां हनिष्यति ॥४८॥गर्ग उवाच -इत्थं वदति शूरे वै सैन्यपालस्य चाज्ञया ॥शतघ्नीं मुमुचे कश्चिद्धाहाशब्दस्तदाभवत् ॥४९॥स्मरणात्कृष्णचंद्रस्य चित्रमेकं बभूव ह ॥शतघ्नी शीतला जाता ज्वाला शांतिं गता नृप ॥५०॥दृष्ट्वाऽऽश्चर्यं च तत्रापि जनाः सर्वे नृपादयः ॥विसिष्मू राजशार्दूल सैन्यपालस्तदाब्रवीत् ॥५१॥शतघ्न्यां शुष्कमदिरा गोलकेन समन्विता ॥न विद्यते त्वसौ तस्मान्न मृतो रणमण्डले ॥५२॥इति तस्य वचः श्रुत्वा प्रोचुर्वीरा रुषान्विताः ॥अयं निष्किल्बिषः शूरः कृष्णभक्तो महामतिः ॥५३॥रक्षितस्तेन दुःखाद्वै पुनर्हंतुं च नार्हसि ॥तेषां वाक्यं समाकर्ण्य सैन्यपालो रुषान्वितः ॥५४॥ददर्श राजपुत्रं वै शतघ्नीवदने स्थितम् ॥जपंतं कृष्ण कृष्णेति स्रजा मीलितलोचनम् ॥ ५५॥दृष्ट्वा तं च पुनर्हंतुं शतघ्नीं मुमुचे खलः ॥सा शतघ्नी तदा भिन्ना शब्दो वज्रनिपातवत् ॥५६॥बभूव सैन्यपालस्तु गोलकेन मृतोऽभवत् ॥तथा तदनुगास्तस्य ज्वालया ज्वलिताः किल ॥५७॥हाहाशब्दं प्रकुर्वंतो दुद्रुवुः केचिदेव हि ॥केचिद्वै बधिरीभूताः केचिद्धूमेन विह्वलाः ॥५८॥ततश्च ददृशुः सर्वे नृपपुत्रं च निर्भयम् ॥चक्रुर्जयजयारावं बल्वलाद्या नृपेश्वर ॥५९॥दैत्या ऊचुःयं च रक्षति श्रीकृष्णस्तं को भक्षति मानवः ॥भक्तं हंतुं चागतो यः स विनश्यति दैवतः ॥६०॥तस्मात्कृष्णसमो नास्ति येनायं रक्षितो भयात् ॥सर्वे वयं नमस्यामस्तं कृष्णं भक्तवत्सलम् ॥६१॥इति श्रीगर्गसंहितायां हयमेधखण्डेराजपुत्रजीवनं नाम त्रयत्रिंशोऽध्यायः ॥३३॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP