संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः|
अध्यायः २८

अश्वमेधखण्डः - अध्यायः २८

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


गर्ग उवाच -
कृत्वा तु शौचादिकमेव कर्म
प्रभातकाले यदुनन्दनश्च ॥
जगाम पारं यदुभिश्च सिंधो
रामो यथा वै कपिभिर्नृपेन्द्र ॥१॥
ददृशुस्तत्र ते गत्वानिरुद्धाद्याश्च यादवाः ॥
उपद्वीपं पांचजन्यं शतयोजनविस्तृतम् ॥२॥
राजते तत्र राजेन्द्र नाम्ना वै चासुरी पुरी ॥
विंशद्योजनविस्तीर्णा दैत्यवृन्दसमाकुला ॥३॥
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ॥
अशोकैः पाटलैराम्रैर्मंदारैः कोविदारकैः ॥४॥
निंबुजंबूकदंबैश्च प्रियालपनसैस्तथा ॥
सालैस्तालैस्तमालैश्च मल्लिकाजातियूथिकैः ॥५॥
नीपैः कदंबैर्बकुलैश्चंपकैर्मदनाभिधैः ॥
शोभिता नगरी रम्या रत्‍नप्रासादसंयुता ॥६॥
यदून्समागताञ्छ्रुत्वा मयं मायाविनं खलः ॥
प्रेषयामास गणितुं यादवानां महात्मनाम् ॥७॥
स चापि शुकरुपेण गत्वा दृष्ट्वा यदूत्तमान् ॥
आगत्य स्वपुरीमध्ये बल्वलं विस्मितोऽब्रवीत् ॥८॥
मय उवाच -
कः करिष्यति संख्यां वै वृष्णीनां बलिनां नृप ॥
नियुतानां च नियुतकोटिनाऽऽस्ते स कार्ष्णिजः ॥९॥
सेतुं कृत्वा शरैः सिन्धोः प्राप्ताः सर्वे तवोपरि ॥
तेषां पश्य बलं राजन्देवविस्मयकारकम् ॥१०॥
सागरस्य शरैः सेतुं न दृष्टं न श्रुतं कृतम् ॥
वृद्धेन च मया राजंस्त्वदग्रेऽद्य विलोकितम् ॥११॥
राघवेण पुरा सेतुं पाषाणैर्द्रुमवेष्टितम् ॥
स्वनाम्नश्च प्रतापेन लंकाया निकटे कृतम् ॥१२॥
तत्सर्वं च मया दृष्टमद्य दृष्टं हि चाद्‌भुतम् ॥
श्रीकृष्णेन पुरा राजन्कंसाद्याः शकुनादयः ॥१३॥
मारिताः संगरे दैत्या नृपाः सर्वे विनिर्जिताः ॥
कृष्णस्तु भगवान्साक्षाद्‍ब्रह्मणा प्रार्थितः पुरा ॥१४॥
गोलोकादागतो भूमौ भक्तानां रक्षणाय च ॥
अकृतानां च नाशाय कुशस्थल्यां विराजते ॥१५॥
तस्माद्यदूत्तमाः सर्वेऽनिरुद्धाद्या महाबलाः ॥
भीषणं च बकं जित्वा ह्यन्याञ्जित्वात्र चागताः ॥१६॥
पुत्राः पौत्राश्च कृष्णस्य ज्ञातयश्च यदूत्तमाः ॥
आकाशं जेतुमिच्छंति का वार्ता भूतलस्य च ॥१७॥
अनिरुद्धाय तस्माद्वै तुरगं देहि बल्वल ॥
दैत्यानां हतशेषाणां कुलकौशल्यहेतवे ॥१८॥
ततोऽनिरुद्धाय हयं च दत्वा-
सुरद्विषां वै सुखहेतवे च ॥
श्रीकृष्णचंद्रं प्रभजंश्च भुंक्ष्व
राज्यं स्वकीयं तपसा नु लब्धम् ॥१९॥
एवं शुभैश्च वचनैर्बोध्यमानोऽपि बल्वलः ॥
निःश्वस्योवाच रोषेण मयं कृष्णपराङ्मुखः ॥२०॥
बल्वल उवाच -
विना युद्धेन त्वं दैत्य कथं भीतो भविष्यसि ॥
वदिष्यसि ममाग्रे त्वं शूरहास्यकरं वचः ॥२१॥
त्वं बुद्धिबलहीनश्च वृद्धत्वाच्छठतां गतः ॥
तस्मात्त्वदीयं वचनं नाहं गृह्णामि सांप्रतम् ॥२२॥
यदि कृष्णो हरिः साक्षादेते कृष्णस्य वंशजाः ॥
ममाग्रे शिवभक्तस्य किं करिष्यंति पौरुषम् ॥ २३॥
भयं मा कुरु तस्मात्वं मायाः कुत्र गतास्तव ॥
अहं तवाश्रयेणापि युद्धं कर्तुं व्रजामि वै ॥२४॥
अनिरुद्धो महाशूरः शूराः किं न वयं स्मृताः ॥
स्थिते मयि महीमध्ये कोऽयं गर्वोऽभवन्महत् ॥२५॥
फलं गर्वस्य प्राप्नोतु मम निर्मुक्तसायकैः ॥
अद्य मे निशिता बाणा अनिरुद्धं च मानिनम् ॥२६॥
प्रकुर्वंति रणे दैत्य रक्तांगं छिन्नकंचुकम् ॥
यथा किंशुकवृक्षं वै वसंतदिवसाः किल ॥२७॥
दारयंतु कपोलानि नाराचा मम हस्तिनाम् ॥
हयान्पश्यंतु शतशो रुधिरौघपरिप्लुतान् ॥२८॥
पिबंतु योगिनीवृंदा रुधिराणि नृमस्तकैः ॥
काली भवतु संतुष्टा मद्वैरिक्रव्यभक्षणैः ॥ २९॥
मम बाहुबलं सर्वे पश्यंतु सुभटाः किल ॥
महाकोदंडनिर्मुक्तभल्लकोटीर्विमुंचतः ॥३०॥
इति तद्वाक्यमाकर्ण्य मयो मायी महामतिः ॥
जानन्कृष्णस्य माहात्म्यं मदांधं चेदमब्रवीत् ॥३१॥
मय उवाच -
यदा विजेष्यसि रणे कृष्णपुत्रांश्च यादवान् ॥
आगमिष्यति श्रीकृष्णो जेतुं त्वां वा बलश्च वै ॥३२॥
इति श्रुत्वा महादैत्यः सत्यं हितकरं वचः ॥
कालपाशेन संबद्धो न जग्राह रुषा ज्वलन् ॥३३॥
बल्वल उवाच -
ममारी रामकृष्णौ च शत्रवो वृष्णयश्च मे ॥
तान्सर्वान्मारयिष्यामि यैर्मे मित्राश्च मारिताः ॥ ३४॥
हत्वा च यादवानत्र पश्चाद्यज्ञं करोम्यहम् ॥
तस्य दिग्विजयेनापि विजेष्यामि हरेः पुरीम् ॥३५॥
मय उवाच -
मानं मा कुरु दैत्येन्द्र कालरूपसस्तुरंगमः ॥
प्राप्तस्तव पुरे हंतुं हतशेषान्महासुरान् ॥३६॥
अनिरुद्धशराः सर्वे सद्यस्तव पुरीं नृप ॥
छिन्नां भिन्नां शूरहीनां करिष्यंति न संशयः ॥३७॥
हिरण्याक्षादयो दैत्या रावणाद्या निशाचराः ॥
मारिता येन सः कृष्णो जातो यदुकुले श्रुतम् ॥३८॥
किंचिद्‌राज्यस्य मानेन त्वं न जानासि बल्वल ॥
प्रयच्छ तुरगं तस्मै न युद्धसमयोऽस्ति हि ॥३९॥
बल्वल उवाच -
अहं जानामि त्वद्वार्तां युद्धं तैर्न करिष्यसि ॥
अनिरुद्धं गच्छ तस्मात्त्वं विभीषणवत्किल ॥४०॥
गर्ग उवाच -
बल्वलस्य वचः श्रुत्वा मयो मायाविदां वरः ॥
प्रतिव्योढुं तत्र दुखमिदमेवान्वपद्यत ॥४१॥
वैरभावेन पूर्वं वै वैकुण्ठं बहवो गताः ॥
निशाचराश्च दैत्याश्च तं भावं यः करोति हि ॥४२॥
इत्थं विचार्य सहसा स उवाच महासुरम् ॥
मय उवाच -
अद्य त्वां च महावीरं न निषेधं करोम्यहम् ॥४३॥
युद्धं कुरु रणे गत्वा यदून्मारय सायकैः ॥
अहमेव करिष्यामि युद्धं त्वद्वाक्यतो मृधे ॥
इत्युक्त्वा वचनं सोऽपि विरराम प्रहर्षयन् ॥४४॥
ऊर्ध्वकेशो नदः सिंहः कुशाम्बाद्याश्च मंत्रिणः ॥
ऊचुः प्रकुपिताः सर्वे चत्वारो बल्वलं नृप ॥४५॥
मंत्रिण ऊचुः
पूर्वं वयं गमिष्यामो हंतुं सर्वान् यदूत्तमान् ॥
बहुभिर्दिवसै राजन्संग्रामं न कृतं यतः ॥४६॥
चिन्तां मा कुरु राजेन्द्र मयदैत्येन संयुतः ॥
क्षणेन मारयिष्यामो कोटिशः कोटिशो नरान् ॥४७॥
गर्ग उवाच -
तेषां भाषितमाकर्ण्य बल्वलस्तु मुदान्वितः ॥
चकाराज्ञां नृपश्रेष्ठ रणार्थे रणकोविदः ॥४८॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
दैत्यमन्त्रवर्णनं नामाष्टाविंशोऽध्यायः ॥२८॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP