संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २४ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अनिरुद्धस्य राजपुरविजयम् Translation - भाषांतर गर्ग उवाच -इतीदं वचनं श्रुत्वानिरुद्धस्तु मुदान्वितः ॥निवेश्य कृष्णपदयोः स्वमनः प्राह तं मुनिम् ॥१॥गतः शत्रुश्च मे मोहस्त्वद्वाक्येनासिना विभो ॥अद्य त्वं गच्छ कृष्णस्य पुरीं पुत्रेण संयुतः ॥२॥तस्य वाक्यं समाकर्ण्य मुदा सांदीपनिर्मुनिः ॥कृष्णदत्तेन पुत्रेण रथस्थो द्वारकां ययौ ॥३॥स पुर्यां रामकृष्णाभ्यामादरेण निवासितः ॥पूजितो यादवैः सर्वैर्भोजेंद्रेण विधानतः ॥४॥अथ प्रद्युम्नतनयः श्यामकर्णं महोज्ज्वलम् ॥स्वर्णशृङ्खलया बद्धे मुमोच विजयाय च ॥५॥हयश्च शीघ्रं प्रव्रजन्नृपेन्द्रयशो ब्रुवान् राजपुरे गतः सः ॥यत्रानुशाल्वो नृपतिश्च राज्यंशाल्वस्य भ्राता कुरुते च नित्यम् ॥६॥तत्र वै तुरगं प्राप्तमनुशाल्वो यदृच्छया ॥गृहीत्वा वाचयामास तत्पत्रं च प्रहर्षितः ॥७॥आभिप्रायं निरीक्ष्यैव तिरश्चीनेन चक्षुषा ॥स्वसैनिकान्प्रत्युवाच रुषा प्रस्फुरिताधरः ॥८॥दिष्ट्या दिष्ट्या शत्रवो मे सर्वे चात्र समागताः ॥घातयिष्यामि तान्सर्वान्यैर्मे भ्राता च मारितः ॥९॥इत्युक्त्वा सेनया युक्तो निश्चक्राम पुराद्बहिः ॥अक्षौहिणीभिर्दशभिस्तृणीकृत्य तु यादवान् ॥१०॥तदैव वृष्णयः सर्वे दृष्ट्वा सेनां समागताम् ॥बाणवर्षां प्रमुंचंतीं मुमुचुस्ते शरांश्च वै ॥११॥उभयोः सेनयोर्युद्धं ततः समभवन्मृधे ॥खड्गैर्बाणैर्गदाभिश्च शक्तिभिर्भिंदिपालकैः ॥१२॥पलायमानां स्वां सेनामनुशाल्वो महाबलः ॥वारयित्वा नदन् युद्धे चाजगाम रथेन वै ॥१३॥तमागतं विलोक्याथ दीप्तिमान्कृष्णनन्दनः ॥तेन सार्द्धं रणं कर्त्तुं तदैव संमुखोऽभवत् ॥१४॥दीप्तिमंतं रणे वीक्ष्य धनुषा दशभिः शरैः ॥तताडामर्षितः सोऽपि द्विपं द्वीपी नखैरिव ॥१५॥ताडितस्तैः शरौघैस्तु रुधिरोक्षितबाहुना ॥नीत्वा शरासनं सद्यो बाणाञ्जग्राह रोषतः ॥१६॥निधाय किल कोदंडे दश बाणान्मुमोच ह ॥ते शरास्तच्छरीरं वै भित्वा राजन्बहिर्गताः ॥१७॥यथा तृणगृहं राजन्सहसा पन्नगाशनाः ॥तैर्बाणैर्निहतो युद्धेऽनुशाल्वो मूर्च्छितोऽभवत् ॥१८॥तत्रागत्य हरेः पुत्रो भानुः सर्वान् रिपूञ्छरैः ॥नीहाराभ्रान्भानुरिव छिन्नभिन्नांश्चकार ह ॥२०॥ततश्च दुद्रुवुः सर्वेऽनुशाल्वस्य तु सैनिकाः ॥तदैव तस्य मंत्री वै प्रचण्डो ताम रोषतः ॥२१॥शक्त्या जघान समरे सत्यभामात्मजं नृप ॥भानोश्च हृदयं भित्त्वा सा विवेश महीतले ॥२२॥स चापि मूर्च्छितो भूत्त्वा निपपात रथाद्रणे ॥स एवं कौतुकं वीक्ष्य सांबस्तत्र रुषा ज्वलन् ॥२३॥शीघ्रं गृहीत्वा कोदंडमाजगाम रथेन वै ॥प्रचण्डस्य रथं सांबः सतुरंगं ससारथिम् ॥२४॥सध्वजं शतबाणैश्च सर्वं चूर्णीचकार ह ॥रथे भग्ने गदां नीत्वा प्रचण्डो रणदुर्मदः ॥२५॥आजगाम रिपुं हंतुं पतंग इव पावकम् ॥आगतं तं विलोक्याथ चन्द्रार्काकारवर्चसा ॥२६॥शरेणैकेन सांबस्तु जहार तच्छिरो मृधे ॥हाहाकारस्तदैवासीत्तत्सेनयां नृपेश्वर ॥२७॥अथोत्थितोऽनुशाल्वस्तु मूर्च्छां त्यक्त्वा मुहूर्ततः ॥ददर्श मंत्रिणं तत्र सांबेन निहतं मृधे ॥२८॥निरीक्ष्य रथमारुह्य धन्वी खड्गी च दंशितः ॥शिलीमुखैश्चतुर्भिश्च सांबस्य चतुरो हयान् ॥२९॥द्वाभ्यां केतुं त्रिभिः सूतं पंचभिश्च शरासनम् ॥त्रिंशद्भिश्च शरैर्यानं जघान समरे नृपः ॥३०॥स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥रथं चान्यं समारुह्य रेजे जांबवतीसुतः ॥३१॥ततो गृहीत्वा कोदंडं शतबाणैरमर्षितः ॥तताड स रिपुं युद्धे सर्पं पक्षैर्यथा विराट् ॥३२॥यानस्तस्यापि भग्नोऽभूत्तुरंगाः पंचतां गताः ॥सूतो मृत्युं गतो युद्धेऽनुशाल्वो मूर्च्छितोऽभवत् ॥३३॥ततस्तत्सैनिकाः सर्वे गृध्रपक्षैः स्फुरत्प्रभैः ॥आशीविषसमैर्बाणैः सांबं जघ्नू रुषान्विताः ॥३४॥सांबमेकं रणे वीक्ष्य मधुः कृष्णसुतो रुषा ॥पारावतसमेनापि हयेनागतवान्मृधे ॥३५॥साकं सांबेन तान्सर्वान्निस्त्रिंशेन रिपून्खलान् ॥प्रहरार्द्धेन राजेन्द्र मारयन्विचचार ह ॥३६॥ततोऽनुशाल्व उत्थाय दृष्ट्वा स्वस्य पराजयम् ॥सलिलेन शुचिर्भूत्वा हंतुं सर्वान्मनो दधे ॥३७॥ब्रह्मास्त्रं संदधे रोषान्मयदैत्येन शिक्षितम् ॥अजानंस्तस्य नाशं च संप्राप्ते प्राणसंकटे ॥३८॥तस्यापि दारुणं तेजो त्रींल्लोकान्प्रदहन्महत् ॥चचार ह्यंतरिक्षे च द्वादशादित्यसन्निभम् ॥३९॥तत्तेजसा दुर्विषहेण सर्वेसंदह्यमाना यदवश्च भीताः ॥प्राद्युम्निपार्श्वं प्रययुर्ब्रुवन्तोरक्षस्व दुःखान्नृहरे महात्मन् ॥४०॥ततः कृत्वाभयं राजन् वीरो रुक्मावतीसुतः ॥ब्रह्मास्त्रेण तु ब्रह्मस्त्रं जहार प्रधने रुषा ॥४१॥वह्न्यस्त्रं सोऽपि चिक्षेप वह्निना पूरितं नभः ॥दह्यमाना च भूस्तत्र ज्वालाभिरिव खांडवम् ॥४२॥ततोऽनिरुद्धो बलवान् वारुणास्त्रं पुनर्दधे ॥प्रचंडमेघधाराभिर्वह्निः शीतलतां गतः ॥४३॥मण्डूकाः कोकिलाश्चैव मयूराः सारसादयः ॥प्रत्यनंदन्महामेघैर्वर्षां ज्ञात्वा पुनः पुनः ॥४४॥ततोऽनुशाल्वो मायावी पवनास्त्रं समादधे ॥दृष्ट्वानिरुद्धो युयुधे पर्वतास्त्रेण सर्वतः ॥४५॥ततो भारसहस्राढ्यं नीत्वा सोऽपि गदां मृधे ॥अनिरुद्धं शूरमणीं क्रुद्धो वचनमब्रवीत् ॥४६॥त्वत्सैन्ये नास्ति राजेंद्र गदायुद्धविशारदाः ॥यदि चास्ति तर्हि मह्यं तं तु शीघ्रं प्रदर्शय ॥४७॥इति तद्वाक्यमाकर्ण्य गदाधारी गदो महान् ॥उवाच चाग्रतो भूत्वानिरुद्धस्य प्रपश्यतः ॥४८॥अत्र वै बहवः संति सर्वशस्त्रविशारदाः ॥मानं मा कुरु दैत्येंद्र त्वमेकाकी रणेऽसि हि ॥४९॥न मन्यसे त्वं मद्वाक्यं मया साकं रणेऽसुर ॥कुरु पूर्वं गदायुद्धं ततोऽन्यान्द्रष्टुमर्हसि ॥५०॥इत्युक्त्वा स गदां नीत्वा लक्षभारमयीं दृढाम् ॥तथानुशाल्वं जघ्ने तु मूर्ध्नि वक्षस्थले नृप ॥५१॥अनुशाल्वस्तु गदया जघान समरे गदम् ॥ततोऽन्योन्यं गदाभ्यां च जघ्नतुः क्रोधमूर्च्छितौ ॥५२॥ततो गदः समुत्थाप्यानुशाल्वं गगनेऽक्षिपत् ॥भ्रामयित्वा शतगुणं निपपात महीतले ॥५३॥ततोऽनुशाल्व उत्थाय गृहीत्वा रोहिणीसुतम् ॥भूमौ ममर्द राजेंद्र तदद्भुतमिवाभवत् ॥५४॥गदो गजं गृहीत्वैकमनुशाल्वोपरि चाक्षिपत् ॥तमायांतं गजं नीत्वा चिक्षेप स बलानुजे ॥५५॥जानुभिर्मुष्टिभिर्घोरैः प्रहारैस्तौ च जघ्नतुः ॥मर्दितौ तावुभौ मह्यां पतितौ मूर्च्छनां गतौ ॥५६॥इति श्रीगर्गसंहितायां हयमेधखण्डे राजपुरविजयो नाम चतुर्विंशोऽध्यायः ॥२४॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP