संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ५२ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ५२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता चन्द्रहास-अनिरुद्ध मिलनम् Translation - भाषांतर गर्ग उवाच -समागतं यज्ञहयं विलोक्यश्रीचन्द्रहासो व्रजचन्द्रदासः ॥सद्यो गृहीत्वा किल तस्य पत्रंस वाचयामास तदैव हृष्टः ॥१॥तत्पत्रं वाचयित्वाऽऽह महाभागवतो नृप ॥अहो पश्यामि नेत्राभ्यां पौत्रं श्रीपरमात्मनः ॥२॥केन पुण्येन पूर्वेण कृष्णतुल्यं यदूत्तमम् ॥मया न दृष्टः श्रीकृष्णो मायामानुषविग्रहः ॥३॥सहितः कार्ष्णिजेनाहं तस्माद्गच्छामि द्वारकाम् ॥तत्र पश्यामि श्रीकृष्णं बलं प्रद्युम्नमेव च ॥४॥उग्रसेनं महाराजं श्रीकृष्णेनापि पूजितम् ॥इत्युक्त्वा निर्ययौ राजा ह्यनिरुद्धं विलोकितुम् ॥५॥गृहीत्वा चोपचाराँश्च गंधपुष्पाक्षतादिकान् ॥दिव्यवस्त्राणि रत्नानि गृहीत्वा तुरगं च सः ॥६॥सवः पुरजनैः सार्द्धं मालातिलकशोभितैः ॥गीतवादित्रघोषैश्च पद्भ्यां राजा जगाम ह ॥७॥आगतं तं नृपं दृष्ट्वा नागरैः सहितं नृप ॥अनिरुद्धो मुदायुक्तो मंत्रिणं चेदमब्रवीत् ॥८॥अनिरुद्ध उवाच -कोऽयं राजा महामंत्रिन्सर्वैः पुरजनैः सह ॥आगतो मिलनार्थं वा तस्य वार्तां वदस्व नः ॥९॥उद्धव उवाच -नृपोऽयं चंद्रहासाख्यो केरलाधिपतेः सुतः ॥मृतयोर्मातृपित्रोश्च कुलिंदेनानुपालितः ॥१०॥आबाल्यात्कृष्णचन्द्रस्य भक्तस्तेनापि रक्षितः ॥दुष्टबुद्धेः प्रधानस्य सुतां यः परिणीतवान् ॥११॥यस्मै कुन्तलको राजा राज्यं दत्वा वनं ययौ ॥तस्याख्यानं द्वारकायां मया कृष्णमुखाच्छ्रुतम् ॥१२॥यस्मै स्वदर्शनं दातुं श्रीकृष्णोऽत्रागमिष्यति ॥उद्धवस्य वचः श्रुत्वा विस्मितोऽभूद्यदूत्तमः ॥१३॥गत्वानिरुद्धनिकटे चन्द्रहासो जनैर्वृतः ॥श्यामकर्णं ददौ प्रीतो धनानि बहुशस्तथा ॥१४॥गजानामर्द्धलक्षं च रथानां लक्षमेव च ॥तुरगाणामेककोटिं मुद्राणां हि सहस्रकम् ॥१५॥गवयानां सहस्रं च शिबिकानां सहस्रकम् ॥धेनूनां दशलक्षं च शिञ्जानामयुतं तथा ॥१६॥एककोटिं सुवर्णानां रौप्याणां च चतुर्गुणम् ॥लक्षमाभरणानां च माधवाय ददौ नृपः ॥१७॥चन्द्रहास उवाच -नमोऽनिरुद्धाय सुरोत्तमाय श्रीकृष्णपौत्राय जनेश्वराय ॥प्रद्युम्नपुत्राय यदूत्तमाय देवाय पूर्णाय नमः पराय ॥१८॥इति भक्तवचः श्रुत्वा प्रसन्नो मदनात्मजः ॥संश्लाघ्य प्रददौ तस्मै प्रदीप्तां रत्नमालिकाम् ॥ १९॥चन्द्रहासस्तु राजेन्द्र राज्ये कृत्वा तु मंत्रिणम् ॥स्वपुराद्यादवैः सार्द्धं गंतुं चालं मनोऽकरोत् ॥२०॥उषित्वा तत्पुरे सर्वे ह्येकरात्रं यदूत्तमाः ॥प्रातःकाले ययू राजंश्चन्द्रहासेन संयुताः ॥२१॥जगाम ह्यग्रतस्तेभ्यो तुरगः पत्रशोभितः ॥ततः सप्तवतीं दृष्ट्वा ह्यावर्त्तशतसंकुलाम् ॥२२॥तटं तरंगैर्निघ्नंतीं दीर्घवेगां दुरत्ययाम् ॥नौकाभिः संयुतां दृष्ट्वा वीरः प्रद्युम्ननन्दनः ॥२३॥अक्षौहिणीशतयुतः पारं गंतुं मनो दधे ॥स पूर्वं गजमारुह्य सांबाद्यैः परिवेष्टितः ॥२४॥नावं त्यक्त्वा नृपश्रेष्ठ प्रविवेश नदीजले ॥प्रथमं सलिलं तस्यां समलं च बभूव ह ॥२५॥ततः पंकद्रवा भूमिश्चित्रमेतद्बभूव ह ॥हसंतो यादवाः सर्वे विस्मयं परमं ययुः ॥२६॥अथ व्रजंस्तुरंगस्तु स जगाम शनैः शनैः ॥नारायणसरो यत्र मध्ये सिंधुसमुद्रयोः ॥२७॥पपौ तिर्थजलं तत्र तुरगश्च तृषातुरः ॥ततस्तत्राययुः सर्वेऽनिरुद्धाद्या यदूत्तमाः ॥२८॥धर्मद्वेषकरान्नीचान्म्लेच्छाञ्जित्वा मृधांगणे ॥दृष्ट्वा तुरंगमं तत्र स्नानं चक्रुः सरोवरे ॥२९॥इति श्रीगर्गसंहितायां हयमेधखण्डेनारायणसरोगमनं नाम द्विपंचाशत्तमोऽध्यायः ॥५२॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP