संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४० अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णेन सह यादवसैन्यस्य व्रजप्रवेशम् Translation - भाषांतर गर्ग उवाच -मुक्तस्तुरंगः कृष्णेन पत्रचामरभूषितः ॥प्रययौ स बहून्देशान्नेत्राभ्यां च विलोकयन् ॥१॥बल्वलं निर्जितं श्रुत्वा नानादेशाधिपा नृपाः ॥हयं न जगृहुः प्राप्तं श्रीकृष्णस्य भयान्नृप ॥२॥इत्थं व्रजन्भारते वै यदुवीरतुरंगमः ॥एकमासेन राजेंद्र प्राप्तोऽभूद्व्रजमण्डले ॥३॥ततः कृष्णां समुत्तीर्य दृष्ट्वा वृन्दावनं वनम् ॥तमालस्य तले राजन्स्थितोऽभूद्धयसत्तमः ॥४॥दूर्वां चरंतं तुरगं विलोक्यविहाय गास्ते किल गोपबालाः ॥समाययुस्ते नृप कौतुकेनहयस्य पार्श्वे करताडनैश्च ॥५॥इति पश्यत्सु सर्वेषु श्रीदामा गोपनायकः ॥जग्राह लीलया राजञ्चरंतं चंचलं हयम् ॥६॥गोपाशेन हयं बद्ध्वा गले गोपैः समन्वितः ॥केनोत्सृष्टो वदन्वाक्यं नन्दस्य निकटं ययौ ॥७॥आगतं वाजिनं दृष्ट्वा नन्दोऽपि हर्षपूरितः ॥तत्पत्रं वाचयित्वाऽऽह सर्वान्गद्गदया गिरा ॥८॥उग्रसेनहयश्चैष पुरे मम समागतः ॥पालितो ह्यनिरुद्धेन मत्पौत्रेण सर्वतः ॥९॥गृह्णामि यज्ञतुरगं मित्राणां मिलनाय च ॥ततः प्रपौत्रं पश्यामि कृष्णाकारं प्रियंकरम् ॥१०॥इत्युक्त्वा नन्दराजस्तु द्र्ष्टुं गोपैः समन्वितः ॥कथयित्वा यशोदाग्रेऽभिप्रायं निर्ययौ पुरात् ॥११॥तदैव यादवाः सर्वे भोजवृष्ण्यंधकादयः ॥हयस्य पृष्ठतो लग्नास्तत्राजग्मुर्नृपेश्वर ॥१२॥विलोकयंतो नयपालतीर्थेतथा च मार्गे मिथिलामयोध्याम् ॥बर्हिष्मतीं चैव हि कान्यकुब्जंसांकर्षणं गोकुलमेव राजन् ॥१३॥मार्तंडकन्यां मथुरां पुरीं चविराजते यत्र तु केशवश्च ॥वृंदावने नन्दपुरे नृपेंद्रसमागताः कृष्णयुताश्च सर्वे ॥१४॥नन्दग्रामं तत्र दृष्ट्वा रथस्थो नन्दनंदनः ॥सर्वेषामग्रतो भूत्वा ह्याययौ यादवैर्वृतः ॥१५॥ददर्श तत्र पुरतो गोपालैः पितरं हरिः ॥संस्थितं तु पुरस्कृत्य वारणेन्द्रमलंकृतम् ॥१६॥वादित्रैः शंखशब्दैश्च जयशब्दैर्नृपेश्वर ॥पुष्पालंकारकलशलाजाद्यैः परिभूषितम् ॥१७॥ततश्च यादवाः सर्वे नेमुर्नंदं निरीक्ष्य च ॥हर्षाश्रुविप्लुता राजन्नुद्धवाद्याश्च तत्र वै ॥१८॥तदैव नन्दराजस्य दक्षिणांगमथास्फुरत् ॥उवाच दृष्ट्वा मनसि ह्युत्तमं शकुनं नृप ॥१९॥अद्य पश्यामि नेत्राभ्यां कृष्णं किं प्रियवादिनम् ॥यस्मान्ममाक्षिः स्फुरति दक्षिणश्च प्रियंकरः ॥ २०॥मन्नेत्रगोचरः कृष्णो यदा भूयात्तदा ह्यह्यम् ॥गवां लक्षं प्रदास्यामि ब्राह्मणेभ्यो ह्यलंकृतम् ॥२१॥इत्युक्त्वा वचनं नंदो विरराम यदा नृप ॥तदाशृणोत्स्वपुत्रस्यागमनं व्रजवासिभिः ॥२२॥श्रीकृष्णागमनं श्रुत्वा नन्दो विरहविप्लुतः ॥पश्यन्हरिं च सर्वेषां विचचार रुदन्निव ॥२३॥वदन्कृष्णेति कृष्णेति गिरा गद्गदया भृशम् ॥हे कृष्णचन्द्र क्व गतो दुःखितं मां न पश्यसि ॥२४॥ततो निरीक्ष्य पितरं श्रीकृष्णः पितृवत्सलः ॥अवप्लुत्य रथात्तूर्णं पपात चरणौ पितुः ॥२५॥श्रीनन्दराजस्तनयं समुत्थाप्य चिरागतम् ॥स्नापयामास सलिलैः कृत्वा वक्षसि नेत्रयोः ॥२६॥अक्षिभ्यां कृष्णचन्द्रस्तु मुमोचाश्रु घृणातुरः ॥श्रीदामादीन्सखीन्दृष्ट्वा पश्चात्प्रेमपरिप्लुतः ॥२७॥पृथक्पृथक्परिरेभे कृष्णप्रेमपरिप्लुप्तः ॥भक्तानां कोऽस्ति माहात्म्यमहो वक्तुं धरातले ॥२८॥नन्दाद्या रुरुदुर्गोपाः श्रीकृष्णाद्याश्च यादवाः ॥प्रवक्तुं न समर्थास्ते सर्वे विरहविक्लवाः ॥२९॥अश्रुपूर्णमुखः कृष्णो गोपान्गद्गदया गिरा ॥सर्वानाश्वासयामास प्रेमानंदसमाकुलान् ॥३०॥परिपूर्णतमं साक्षाच्छ्रीकृष्णं जगदीश्वरम् ॥तादृशं ददृशुः सर्वे यादृशो मथुरां गतः ॥३१॥नवीननीरदश्यामं किशोरवयसं शिशुम् ॥शरत्प्रभातकमलकांतिमोचनलोचनम् ॥३२॥शरत्पूर्णेंन्दुशोभाढ्यं शोभास्वाच्छादनाननम् ॥कोटिमन्मथलावण्यं लीलानंदितसुन्दरम् ॥३३॥सस्मितं मुरलीहस्तं द्विभुजं ह्यतिसुन्दरम् ॥तडिद्वस्त्रधरं देवं मत्स्यकुण्डलिनं हरिम् ॥३४॥चन्दनोक्षितसर्वांगम् कौस्तुभेन विराजितम् ॥आजानुमालतीमालावनमालाविभूषितम् ॥३५॥मयूरपिच्छचूडं च सद्रत्नमुकुटोज्ज्वलम् ॥पक्वबिंबाधरोष्ठं च नासिकोन्नतशोभनम् ॥३६॥एवं कृष्णस्य राजेन्द्र रूपं नैत्रैर्व्रजौकसः ॥पपुरानन्दसंमग्नाः पीयूषं मानवा इव ॥३७॥अनिरुद्धं ततो नन्दः सांबादींश्चैव यादवान् ॥आशिषं प्रददौ राजन्प्रीतः प्रेमपरिप्लुतः ॥३८॥ततः सर्वैश्च यदुभिः पुत्रपौत्रसमन्वितः ॥विवेश स्वपुरं नन्दो गतदुःखो महामतिः ॥३९॥अवप्लुत्य रथात्कृष्णः सांबाद्यैः परिभूषितः ॥त्वरं स्वमातुर्भवनमानंदं प्रददन्ययौ ॥४०॥दृष्ट्वा स्वमातरं कृष्णो गृहद्वारे समागताम् ॥रुदतीं बाष्पकण्ठी तां ननाम प्ररुदन्हरिः ॥४१॥यशोदा तस्य जननी स्वप्राणेभ्यः प्रियं सुतम् ॥उपगूह्य ददौ तस्मै गिरा गद्गदयाऽऽशिषः ॥४२॥नन्दस्तथोपनंदश्च तथा षड्वृषभानवः ॥वृषभानुवरश्चैव ह्येते द्रष्टुं समाययुः ॥४३॥तत्रागतानां गोपानां श्रीकृष्णो यादवैर्वृतः ॥यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥४४॥ते तु कृष्णस्य कुशलं पप्रच्छुर्मुदिताननाः ॥तेषां कृष्णस्तु भगवान्पप्रच्छ कुशलं परम् ॥४५॥ततश्च यमुनातीरे वृंदारण्ये नृपेश्वर ॥बभूवुः शिबिराः सर्वेऽनिरुद्धस्य महात्मनः ॥४६॥शिबिरेष्वनिरुद्धाद्या सांबाद्याश्चोद्धवादयः ॥निवासं चक्रिरे कृष्णः स्थितोऽभून्नंदपत्तने ॥४७॥आगतेभ्यश्च सर्वेभ्यो नंदः कृष्णेन संयुतः ॥भोजनं प्रददौ राजन्पशुभ्यश्च तृणानि च ॥४८॥इति श्रीगर्गसंहितायां हयमेधखण्डेव्रजप्रवेशो नाम चत्वारिंशोऽध्यायः ॥४०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP