संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः १३ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः १३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दिग्विजयार्थं यदुसैन्यस्य अभियानम् Translation - भाषांतर श्रीगर्ग उवाच -अथ नत्वा गुरून्सोऽपि प्रायात्प्रष्टुं च देवकीम् ॥रोहिणीं रुक्मिणीं भामामन्याः सर्वा हरिप्रियाः ॥१॥नत्वा रतिं रुक्मिवतीमहं गच्छाम्युवाच ह ॥राज्ञाऽऽदिष्टः पालनार्थं हयस्य सह यादवैः ॥२॥ताश्च गद्गदभाषिण्यस्तं परिष्वज्य कर्ष्णिजम् ॥आशिषं प्रददू राजंस्तस्मै च प्रणताय वै ॥३॥नत्वा ताश्च ययौ सोऽपि भार्याणां भवनानि च ॥तमागतं स्वभर्तारं तिस्त्रः पत्न्यो विलोक्य च ॥४॥आदरं तस्य ताश्चक्रुर्विरहात्खिन्नमानसाः ॥आश्वासयित्वा ताः सोऽपि चाजगाम सभां किल ॥५॥आथाध्वरार्थे राजेंद्र मुनिभिः कृतमंगलः ॥सर्वान्नृषीन्गुरूंशचैव नृपेन्द्रं शूरमेव च ॥ ६॥वसुदेवं च हलिनं कृष्णं स्वपितरं तथा ॥अन्यांश्च यादवान्पूज्याननिरुद्धः प्रणम्य च ॥७॥पूजितो नागरैः सर्वैर्धनुष्याणिः शरी नृप ॥बद्धगोधांगुलित्राणः कवची कुण्डलावृतः ॥८॥उपानद्गूढपादश्च पंचास्यसमविक्रमः ॥करवालधरश्चर्मी किरीटी शक्तिहस्तकः ॥९॥महावीरः सुवर्णस्य ह्यलंकारैरलंकृतः ॥पुरंदररथेनापि निर्ययौ स्वपुराद्बहि: ॥१०॥गीतवादित्रघोषेण ब्रह्मघोषेण कार्ष्णिजम् ॥यास्यंतं चामरैर्युक्तं ददृशुः पुरवासिनः ॥११॥ततः श्रीकृष्णचंद्रेण प्रेषिता उद्धवादयः ॥भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥१२॥अथ राजा यदून्प्राहानिरुद्धस्य च यादवाः ॥सहायार्थं तु प्रधने वदतात्कः प्रयास्यति ॥१३॥उग्रसेनवचः श्रुत्वा सांबो जांबवतीसुतः ॥सर्वेषां पश्यतां नत्वा नृपं वचनमब्रवीत् ॥१४॥सांब उवाच -अनिरुद्धस्य राजेन्द्र सहायमहमेव च ॥महारणे च शत्रुभ्यः करिष्ये सर्वदा किल ॥१५॥यद्यहं तस्य रक्षां वै न करिष्ये रणांगणे ॥प्रतिज्ञां मम राजेंन्द्र शृणुष्व सत्यवादिनः ॥१६॥त्याज्यां तु दशमीविद्धां यः कृत्वैकादशीं नरः ॥प्रयाति यां गतिं राजंस्तामहं प्राप्नुयां ध्रुवम् ॥१७॥गोहन्तॄणां गतिर्या तु या गतिर्ब्रह्मघातिनाम् ॥सा गतिर्मम भूयाद्वै न कुर्यां कर्म चेदिदिम् ॥१८॥गर्ग उवाच -इत्युक्त्वा वचनं सोऽपि ययौ चांतःपुरं ततः ॥नत्वा च मातरं सर्वमभिप्रायं न्यवदेयत् ॥१९॥श्रुत्वा सा तं परिष्वज्य विरहादाशिषं ददौ ॥ततो मातॄस्तु ताः सर्वा नत्वा पत्नीगृहं गतः ॥२०॥सा तमायांतमालोक्य लक्ष्मणा वरलक्षणा ॥दत्त्वासनं बाष्पकंठी न तु किंचिदुवाच ह ॥२१॥आश्वासयित्वा तां सांबो ह्यभिप्रायमवर्णयत् ॥इति श्रृत्वा पतिं प्राह विरहात्खिन्नमानसा ॥२२॥लक्ष्मणोवाच -अनिरुद्धस्य तुरगो रक्षणीयस्त्वया पते ॥युद्धं हि संमुखं कार्यं विमुखं न कदाचन ॥२३॥त्वद्भ्रातॄणां स्त्रियः संति मानवत्यः सहस्रशः ॥संग्रामे यदि ते नाथ निशम्य च पराजयम् ॥२४॥स्मितानना भविष्यंति दृष्ट्वा मां च तव प्रियाम् ॥तदा दुःखतमेनाथ मरणं तु भविष्यति ॥२५॥श्रुत्वैतद्वचनं सांबो प्रत्युवाच प्रियां हसन् ॥सांब उवाच -प्रधने मम संप्राप्तं त्रैलोक्यं संमुखं किल ॥२६॥श्रोष्यसे त्वं मया भद्रे सर्वं च विदलीकृतम् ॥यदि सांबो रणाच्छूरो विमुखो जायते शुभे ॥२७॥तदा सोऽस्तु स्वपापेन ब्रह्मविप्रविनिंदकः ॥पुनस्त्वहं न पश्यामि चन्द्राकारं तवाननम् ॥२८॥गर्ग उवाच -इत्याश्वास्य प्रियां सांबो द्वितीयां च प्रयत्नतः ॥अभिमन्युं सुभद्रां च मिलित्वा निर्ययौ गृहात् ॥२९॥चापी नैस्त्रिंशकः सज्जो स्यंदनी यादवैर्वृतः ॥प्राप्तश्चोपवने सांबोऽनिरुद्धो यत्र वर्तते ॥३०॥ततः स्वभ्रातरः सर्वे श्रीकृष्णेन गदादयः ॥प्रेषिता आत्मजाश्चैव भानुदीप्तिमदादयः ॥३१॥सर्वे हि धन्विनः शूरा दंशिता युद्धकोविदाः ॥चतुरंगबलोपेता निर्जग्मुः कोटिशः पुरात् ॥३२॥तालहंसमीनबर्हिमृगराजध्वजै रथैः ॥दिव्यैश्च कनकांगैश्च चतुर्वाजिसमन्वितैः ॥३३॥महोच्चैर्देवधिष्ण्याभैश्छत्रचामरसंयुतैः ॥सूर्याभैश्च सुवर्णस्य कुम्भैर्जालकतोरणैः ॥३४॥रेजुः सर्वे कृष्णसुताः कुशस्थल्या विनिर्गताः ॥ततश्च निर्ययू राजन्हेमनीडाश्च हस्तिनः ॥३५॥गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखाः ॥अंजनाभा कज्जलाभा घनश्यामा मदच्युताः ॥३६॥राजीवमूलसदृशाः शुक्लदंता मृगद्विपाः ॥महोच्चाः पर्वताकारा रणद्घंटा महोद्भटाः ॥३७॥ऐरावतकुलेभाश्च तिस्रः शुण्डाश्च पाण्डुराः ॥चतुर्दंतास्तु कृष्णेन भौमान्नीताश्च निर्ययुः ॥३८॥ध्वजयुक्ता लक्षगजा लक्षदुंदुभिसंयुताः ॥लक्षाः शून्या महामात्यैः स्वर्णकंबलमंडिताः ॥३९॥ततः शूरैश्च संयुक्ता गजेंद्रा एककोटयः ॥इतस्ततो विरेजुस्ते बलेऽब्धौ मकरा यथा ॥४०॥उत्पाट्य गुल्माञ्छुंडैश्च क्षेपयंतो नभस्तले ॥महीं पादैः कपयंत आर्द्रीकृत्य मदैरपि ॥४१॥प्रासाददुर्गशैलांगान्पातयंतः शिरःस्थलैः ॥रिपूणां च बलं सर्वं खण्डयंतो महबलाः ॥४२॥श्यामपीतकृष्णशुक्लरक्तवर्णैश्च कंबलैः ॥सुवर्णशृङ्खलैर्युक्ता रेजुरेतादृशा गजाः ॥४३॥ततस्तुरंगमा ये वै नारदेन विलोकिताः ॥ते सर्वे निर्गता राजन्स्वर्णहारैश्च संयुताः ॥४४॥केचिद्वै चंचलांगाश्च धूम्रवर्णा मनोहराः ॥श्यामवर्णाः पद्मवर्णाः कृष्णवर्णाः सुकंधराः ॥४५॥दुग्धाभा घोटकाः केचित्तथा कीलालसन्निभाः ॥हरिद्राभाः कुंकुमाभाः पालाशकुसुमप्रभाः ॥४६॥केचिच्चित्रविचित्रांगाः स्फटिकांगा मनोजवाः ॥हरिद्वर्णास्ताम्रवर्णाः कौसुंभाभाः शुकप्रभाः ॥४७॥इन्द्रगोपनिभा गौरा दिव्याः पूर्णेंदुसन्निभाः ॥सिन्दूरांगाश्चाग्निवर्णा रविबालसमप्रभाः ॥४८॥एते तुरंगमा राजन्सर्वदेशात्समागताः ॥पुर्यां कृष्णप्रतापेन ते तु सर्वे विनिर्गताः ॥४९॥कृष्णस्य वाजिशालासु ये वर्तंते च ते हयाः ॥वैकुण्ठवासिनश्चैव श्वेतद्वीपनिवासिनः ॥५०॥केचिन्मयूरवर्णाश्च नीलकण्ठनिभास्तथा ॥विद्युद्वर्णास्तार्क्ष्यवर्णाः सर्वे पक्षैरलंकृताः ॥५१॥शिखामणिधराः शुक्लचामरैः समलंकृताः ॥स्रग्भिर्मुक्ताफलानां च रक्तवस्त्रैर्विभूषिताः ॥५२॥स्वर्णेन मंडिताः पुच्छमुखपट्टस्फुरत्प्रभाः ॥सर्वांगसुन्दरा दिव्या निर्गतास्ते सहस्रशः ॥५३॥न स्पृशन्तः पदैर्भूमिं ह्येते कृष्णहया नृप ॥चंचला वायुवेगाश्च मनोवेगा मनोहराः ॥५४॥बुद्बुदेष्वतिगाश्चैव पक्वसूत्रेषु भूपते ॥लूताजालेषु केचिद्वै चलंतः पारदं ह्यनु ॥५५॥स्फारा वारिषु दृश्यंते निराधारा नृपेश्वर ॥अन्येऽपि निर्गता राजन्म्लेच्छदेशभवा हयाः ॥५६॥शतयोजनगाश्चैव कोटिशः कोटिशो नृप ॥गर्तदुर्गनदीसौधशैलादींश्च हरेर्हयाः ॥उल्लंघयंतो नृपते सवीरास्ते तुरंगमाः ॥५७॥ततश्च निर्ययुः सर्वे द्वारकायाः पदातिनः ॥धन्विनो दंशिताः शूरा महाबलपराक्रमाः ॥५८॥खड्गचर्मधरा उच्चा लौहकंचुकमंडिताः ॥संग्रामे बहुशत्रूणां जेतारो गजसन्निभाः ॥५९॥इत्थं विनिर्गतं सैन्यं यादवानां निरीक्ष्य च ॥देवदैत्यनराः सर्वे विस्मयं परमं गताः ॥६०॥इति श्रीगर्गसंहितायां हयमेधखण्डेयदुसैन्यनिर्गमनं नाम त्रयोदशोऽध्यायः ॥१३॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP