संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ६० अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ६० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता श्रीकृष्णसहस्रनाम Translation - भाषांतर गर्ग उवाच -अथोग्रसेनो नृपतिः पुत्रस्याशां विरज्य च ।व्यासं पप्रच्छ सन्देहं ज्ञात्वा विश्वं मनोमयम् ॥१॥उग्रसेन उवाच -ब्रह्मन्केन प्रकारेण हित्वा च जगतः सुखम् ।भजेत्कृष्णं परंब्रह्म तन्मे व्याख्यातुमर्हसि ॥२॥व्यास उवाच -त्वदग्रे कथयिष्यामि सत्यं हितकरं वचः ।उग्रसेन महाराज शृणुष्वैकाग्रमानसः ॥३॥सेवनं कुरु राजेन्द्र राधाश्रीकृष्णयोः परम् ।नित्यं सहस्रनामभ्यामुभयोर्भक्तितः किल ॥४॥सहस्रनाम राधाया विधिर्जानाति भूपते ।शङ्करो नारदश्चैव केचिद्वै चास्मदादयः ॥५॥उग्रसेन उवाच -राधिका नामसाहस्रं नारदाच्च पुरा श्रुतम् ।एकान्ते दिव्यशिबिरे कुरुक्षेत्रे रविग्रहे ॥६॥न श्रुतं नामसाहस्रं कृष्णस्याक्लिष्टकर्मणः ।वद तन्मे च कृपया येन श्रेयोऽहमाप्नुयाम् ॥७॥गर्ग उवाच -श्रुत्वोग्रसेनवचनं वेदव्यासो महामुनिः ।प्रशस्य तं प्रीतमना प्राह कृष्णं विलोकयन् ॥८॥व्यास उवाच -शृणु राजन्प्रवक्ष्यामि सहस्रं नाम सुन्दरम् ।पुरा स्वधाम्नि राधायै कृष्णेनानेन निर्मितम् ॥९॥श्रीभगवानुवाच -इदं रहस्यं किल गोपनीयंदत्ते च हानिः सततं भवेद्धि ।मोक्षप्रदं सर्वसुखप्रदं शंपरं परार्थं पुरुषार्थदं च ॥१०॥रूपं च मे कृष्णसहस्रनामपठेत्तु मद्रूप इव प्रसिद्धः ।दातव्यमेवं न शठाय कुत्रन दाम्भिकायोपदिशेत्कदापि ॥११॥दातव्यमेवं करुणावृतायगुर्वंघ्रिभक्तिप्रपरायणाय ।श्रीकृष्णभक्ताय सतां परायतथा मदक्रोधविवर्जिताय ॥१२॥ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमंत्रस्य नारायणऋषिः ।भुजङ्गप्रयातं छन्दः । श्रीकृष्णचन्द्रो देवता ।वासुदेवो बीजं । श्रीराधा शक्तिः । मन्मथः कीलकं ।श्रीपूर्णब्रह्मकृष्णचन्द्रभक्तिजन्मफलप्राप्तये जपे विनियोगः ॥॥छंदः - श्रीभुजङ्गप्रयातअथ ध्यानम् -शिखिमुकुटविशेषं नीलपद्माङ्गदेशंविधुमुखकृतकेशं कौस्तुभापीतवेशम् ।मधुररवकलेशं शं भजे भ्रातृशेषंव्रजजनवनितेशं माधवं राधिकेशम् ॥१३॥इति ध्यानम्हरिर्देवकीनन्दनः कंसहंतापरात्मा च पीताम्बरः पूर्णदेवः ।रमेशस्तु कृष्णः परेशः पुराणःसुरेशोऽच्युतो वासुदेवश्च देवः ॥१४॥धराभारहर्ता कृती राधिकेशःपरो भूवरो दिव्यगोलोकनाथः ।सुदाम्नस्तथा राधिकाशापहेतु-र्घृणी मानिनी मानदो दिव्यलोकः ॥१५॥लसद्गोपवेषो ह्यजो राधिकात्माचलत्कुण्डलः कुन्तली कुन्तलस्रक् ।रथस्थः कदा राधया दिव्यरत्नःसुधासौधभूचारणो दिव्यवासाः ॥१६॥कदा वृन्दकारण्यचारी स्वलोकेमहारत्नसिंहासनस्थः प्रशान्तः ।महाहंसभैश्चामरैर्वीज्यमान-श्चलच्छत्रमुक्तावलीशोभमानः ॥१७॥सुखी कोटिकन्दर्पलीलाभिरामःक्वणन्नूपुरालङ्कृतांघ्रिः शुभांघ्रिः ।सुजानुश्च रंभाशुभोरुः कृशाङ्गःप्रतापी भुशुण्डासुदोर्दण्डखण्डः ॥१८॥जपापुष्पहस्तश्च शातोदरश्री-र्महापद्मवक्षस्थलश्चन्द्रहासः ।लसत्कुन्ददन्तश्च बिम्बाधरश्रीःशरत्पद्मनेत्रः किरीटोज्ज्वलाभः ॥१९॥सखीकोटिभिर्वर्तमानो निकुञ्जेप्रियाराधया राससक्तो नवाङ्गः ।धराब्रह्मरुद्रादिभिः प्रार्थितः सद्-धराभारदूरीकृतोऽर्थं प्रजातः ॥२०॥यदुर्देवकीसौख्यदो बन्धनच्छित्-सशेषो विभुर्योगमायी च विष्णुः ।व्रजे नन्दपुत्रो यशोदासुताख्योमहासौख्यदो बालरूपः शुभाङ्गः ॥२१॥तथा पूतना मोक्षदः श्यामरूपोदयालुस्त्वनोभञ्जनः पल्लवांघ्रिः ।तृणावर्त्तसंहारकारी च गोपोयशोदायशो विश्वरूपप्रदर्शी ॥२२॥तथा गर्गदिष्टश्च भाग्योदयश्री-र्लसद्बालकेलिः सरामः सुवाचः ।क्वणन्नूपुरैः शब्दयुग्रिङ्गमाण-स्तथा जानुहस्तैर्व्रजेशाङ्गणे वा ॥२३॥दधिस्पृक्च हैयङ्गवीदुग्धभोक्तादधिस्तेयकृद्दुग्धभुग्भाण्डभेत्ता ।मृदं भुक्तवान्गोपजो विश्वरूपःप्रचण्डांशुचण्डप्रभामण्डिताङ्गः ॥२४॥यशोदाकरैर्बंधनं प्राप्त आद्योमणिग्रीवमुक्तिप्रदो दामबद्धः ।कदा नृत्यमानो व्रजे गोपिकाभिःकदा नन्दसन्नन्दकैर्लाल्यमानः ॥२५॥कदा गोपनन्दांकगोपालरूपीकलिन्दाङ्गजाकूलगो वर्त्तमानः ।घनैर्मारुतैश्च्छिन्नभाण्डीरदेशेगृहीतो वरो राधया नन्दहस्तात् ॥२६॥निकुञ्जे च गोलोकलोकागतेऽपिमहारत्नसङ्घैः कदम्बावृतेऽपि ।तदा ब्रह्मणा राधिकासद्विवाहेप्रतिष्ठां गतः पूजितः साममंत्रैः ॥२७॥रसी रासयुङ्मालतीनां वनेऽपिप्रियाराधया राधितार्थं रमेशः ।धरानाथ आनन्ददः श्रीनिकेतोवनेशो धनी सुन्दरो गोपिकेशः ॥२८॥कदा राधया प्रापितो नन्दगेहेयशोदाकरैर्लालितो मन्दहासः ।भयी क्वापि वृन्दारकारण्यवासीमहामन्दिरे वासकृद्देवपूज्यः ॥२९॥वने वत्सचारी महावत्सहारीबकारिः सुरैः पूजितोऽघारिनामा ।वने वत्सकृद्गोपकृद्गोपवेषःकदा ब्रह्मणा संस्तुतः पद्मनाभः ॥३०॥विहारी तथा तालभुग्धेनुकारीसदा रक्षको गोविषार्त्तिप्रणाशी ।कलिन्दाङ्गजाकूलगः कालियस्यदमी नृत्यकारी फणेष्वप्रसिद्धः ॥३१॥सलीलः शमीज्ञानदः कामपूर-स्तथा गोपयुग्गोप आनन्दकारी ।स्थिरी ह्यग्निभुक्पालको बाललीलःसुरागश्च वंशीधरः पुष्पशीलः ॥३२॥प्रलम्बप्रभानाशको गौरवर्णोबलो रोहिणीजश्च रामश्च शेषः ।बली पद्मनेत्रश्च कृष्णाग्रजश्चधरेशः फणीशस्तु नीलाम्बराभः ॥३३॥महासौख्यदो ह्यग्निहारव्रजेशःशरद्ग्रीष्मवर्षाकरः कृष्णवर्णः ।व्रजे गोपिकापूजितश्चीरहर्ताकदम्बे स्थितश्चीरदः सुन्दरीशः ॥३४॥क्षुधानाशकृद्यज्ञपत्नीमनस्पृक्-कृपाकारकः केलिकर्तावनीशः ।व्रजे शक्रयागप्रणाशी मिताशीशुनासीरमोहप्रदो बालरूपी ॥३५॥गिरेःपूजको नन्दपुत्रो ह्यगध्रःकृपाकृच्च गोवर्धनोद्धारिनामा ।तथा वातवर्षाहरो रक्षकश्चव्रजाधीशगोपाङ्गनाशङ्कितः सन् ॥३६॥अगेन्द्रोपरि शक्रपूज्यः स्तुतः प्राङ्मृषाशिक्षको देव गोविन्दनामा ।व्रजाधीशरक्षाकरः पाशिपूज्यो-ऽनुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी ॥३७॥चलच्चारुवंशीक्वणः कामिनीशोव्रजे कामीनीमोहदः कामरूपः ।रसाक्तो रसी रासकृद्राधिकेशोमहामोहदो मानिनीमानहारी ॥३८॥विहारी वरो मानहृद्राधिकाङ्गोधराद्वीपगः खण्डचारी वनस्थः ।प्रियो ह्यष्टवक्रर्षिद्रष्टा सराधोमहामोक्षदः पद्महारी प्रियार्थः ॥३९॥वटस्थः सुरश्चन्दनाक्तः प्रसक्तोव्रजं ह्यागतो राधया मोहिनीषु ।महामोहकृद्गोपिकागीतकीर्तीरथस्थः पटी दुःखिताकामिनीशः ॥४०॥वने गोपिकात्यागकृत्पादचिह्न-प्रदर्शी कलाकारः काममोही ।वशी गोपिकामध्यगः पेशवाचःप्रियाप्रीतिकृद्रासरक्तः कलेशः ॥४१॥रसारक्तचित्तो ह्यनन्तस्वरूपःस्रजा संवृतो बल्लवीमध्यसंस्थः ।सुबाहुः सुपादः सुवेशः सुकेशोव्रजेशः सखा वल्लभेशः सुदेशः ॥४२॥क्वणत्किङ्किणीजालभृन्नूपुराढ्योलसत्कङ्कणो ह्यङ्गदी हारभारः ।किरीटी चलत्कुण्डलश्चाङ्गुलीय-स्फुरत्कौस्तुभो मालतीमण्डिताङ्गः ॥४३॥महानृत्यकृद्रासरङ्गः कलाढ्य-श्चलद्धारभो भामिनीनृत्ययुक्तः ।कलिन्दाङ्गजाकेलिकृत्कुंकुमश्रीःसुरैर्नायिकानायकैर्गीयमानः ॥४४॥सुखाढ्यस्तु राधापतिः पूर्णबोधःकटाक्षस्मिती वल्गितभ्रूविलासः ।सुरम्योऽलिभिः कुन्तलालोलकेशःस्फुरद्बर्हकुन्दस्रजा चारुवेषः ॥४५॥महासर्पतो नन्दरक्षापरांघ्रिःसदा मोक्षदः शङ्खचूडप्रणाशी ।प्रजारक्षको गोपिकागीयमानःककुद्मिप्रणाशप्रयासः सुरेज्यः ॥४६॥कलिः क्रोधकृत्कंसमंत्रोपदेष्टातथाक्रूरमंत्रोपदेशी सुरार्थः ।बली केशिहा पुष्पवर्षोऽमलश्री-स्तथा नारदाद्दर्शितो व्योमहन्ता ॥४७॥तथाक्रूरसेवापरः सर्वदर्शीव्रजे गोपिकामोहदः कूलवर्ती ।सती राधिकाबोधदः स्वप्नकर्ताविलासी महामोहनाशी स्वबोधः ॥४८॥व्रजे शापतस्त्यक्तराधासकाशोमहामोहदावाग्निदग्धः पतिश्च ।सखीबन्धनान्मोहिताक्रूर आरात्-सखीकङ्कणैस्ताडिताक्रूररक्षी ॥४९॥रथस्थो व्रजे राधया कृष्णचन्द्रःसुगुप्तो गमी गोपकैश्चारुलीलः ।जलेऽक्रूरसन्दर्शितो दिव्यरूपोदिदृक्षुः पुरीमोहिनीचित्तमोही ॥५०॥तथा रङ्गकारप्रणाशी सुवस्त्रःस्रजी वायकप्रीतिकृन्मालिपूज्यः ।महाकीर्तिदश्चापि कुब्जाविनोदीस्फुरच्चण्डकोदण्डरुग्णप्रचण्डः ॥५१॥भटार्तिप्रदः कंसदुःस्वप्नकारीमहामल्लवेषः करीन्द्रप्रहारी ।महामात्यहा रङ्गभूमिप्रवेशीरसाढ्यो यशःस्पृग्बली वाक्पटुश्रीः ॥५२॥महामल्लहा युद्धकृत्स्त्रीवचोऽर्थीधरानायकः कंसहन्ता यदुः प्राक् ।सदा पूजितो ह्युग्रसेनप्रसिद्धोधराराज्यदो यादवैर्मण्डिताङ्गः ॥५३॥गुरोः पुत्रदो ब्रह्मविद्ब्रह्मपाठीमहाशङ्खहा दण्डधृक्पूज्य एव ।व्रजे ह्युद्धवप्रेषितो गोपमोहीयशोदाघृणी गोपिकाज्ञानदेशी ॥५४॥सदा स्नेहकृत्कुब्जया पूजिताङ्ग-स्तथाक्रूरगेहंगमी मंत्रवेत्ता ।तथा पाण्डवप्रेषिताऽक्रूर एवसुखी सर्वदर्शी नृपानन्दकारी ॥५५॥महाक्षौहिणीहा जरासन्धमानीनृपो द्वारकाकारको मोक्षकर्ता ।रणी सार्वभौमस्तुतो ज्ञानदाताजरासन्धसङ्कल्पकृद्धावदंघ्रिः ॥५६॥नगादुत्पतद्द्वारिकामध्यवर्तीतथा रेवतीभूषणस्तालचिह्नः ।यदू रुक्मिणीहारकश्चैद्यवेद्य-स्तथा रुक्मिरूपप्रणाशी सुखाशी ॥५७॥अनन्तश्च मारश्च कार्ष्णिश्च कामोमनोजस्तथा शम्बरारी रतीशः ।रथी मन्मथो मीनकेतुः शरी चस्मरो दर्पको मानहा पञ्चबाणः ॥५८॥प्रियः सत्यभामापतिर्यादवेशो-ऽथ सत्राजितप्रेमपूरः प्रहासः ।महारत्नदो जाम्बवद्युद्धकारीमहाचक्रधृक्खड्गधृग्रामसंधिः ॥५९॥विहारस्थितः पाण्डवप्रेमकारीकलिन्दाङ्गजामोहनः खाण्डवार्थी ।सखा फाल्गुनप्रीतिकृन्नग्रकर्तातथा मित्रविन्दापतिः क्रीडनार्थी ॥६०॥नृपप्रेमकृद्गोजितः सप्तरूपो-ऽथ सत्यापतिः पारिबर्ही यथेष्टः ।नृपैः संवृतश्चापि भद्रापतिस्तुविलासी मधोर्मानिनीशो जनेशः ॥६१॥शुनासीरमोहावृतः सत्सभार्यःसतार्क्ष्यो मुरारिः पुरीसङ्घभेत्ता ।सुवीरःशिरःखण्डनो दैत्यनाशीशरी भौमहा चण्डवेगः प्रवीरः ॥६२॥धरासंस्तुतः कुण्डलच्छत्रहर्तामहारत्नयुग्राजकन्याभिरामः ।शचीपूजितः शक्रजिन्मानहर्तातथा पारिजातापहारी रमेशः ॥६३॥गृही चामरैः शोभितो भीष्मकन्या-पतिर्हास्यकृन्मानिनीमानकारी ।तथा रुक्मिणीवाक्पटुः प्रेमगेहःसतीमोहनः कामदेवापरश्रीः ॥६४॥सुदेष्णः सुचारुस्तथा चारुदेष्णो-ऽपरश्चारुदेहो बली चारुगुप्तः ।सुती भद्रचारुस्तथा चारुचन्द्रोविचारुश्च चारू रथी पुत्ररूपः ॥६५॥सुभानुः प्रभानुस्तथा चन्द्रभानु-र्बृहद्भानुरेवाष्टभानुश्च साम्बः ।सुमित्रः क्रतुश्चित्रकेतुस्तु वीरो-ऽश्वसेनो वृषश्चित्रगुश्चन्द्रबिम्बः ॥६६॥विशङ्कुर्वसुश्च श्रुतो भद्र एकःसुबाहुर्वृषः पूर्णमासस्तु सोमः ।वरः शान्तिरेव प्रघोषोऽथ सिंहोबलो ह्यूर्ध्वगोवर्धनोन्नाद एव ॥६७॥महाशो वृकः पावनो वह्निमित्रःक्षुधिर्हर्षकश्चानिलोऽमित्रजिच्च ।सुभद्रो जयः सत्यको वाम आयु-र्यदुः कोटिशः पुत्रपौत्रप्रसिद्धः ॥६८॥हली दण्डधृग्रुक्मिहा चानिरुद्ध-स्तथा राजभिर्हास्यगो द्यूतकर्ता ।मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्चमहासुन्दरः कामपुत्रो बलीशः ॥६९॥महादैत्यसंग्रामकृद्यादवेशःपुरीभञ्जनो भूतसंत्रासकारी ।मृधी रुद्रजिद्रुद्रमोही मृधार्थीतथा स्कन्दजित्कूपकर्णप्रहारी ॥७०॥धनुर्भञ्जनो बाणमानप्रहारीज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण ।भुजाछेदकृद्बाणसंत्रासकर्तामृडप्रस्तुतो युद्धकृद्भूमिभर्ता ॥७१॥नृगं मुक्तिदो ज्ञानदो यादवानांरथस्थो व्रजप्रेमपो गोपमुख्यः ।महासुन्दरीक्रीडितः पुष्पमालीकलिन्दाङ्गजाभेदनः सीरपाणिः ॥७२॥महादंभिहा पौण्ड्रमानप्रहारीशिरश्छेदकः काशिराजप्रणाशी ।महाक्षौहिणीध्वंसकृच्चक्रहस्तःपुरीदीपको राक्षसीनाशकर्ता ॥७३॥अनन्तो महीध्रः फणी वानरारिःस्फुरद्गौरवर्णो महापद्मनेत्रः ।कुरुग्रामतिर्य्यग्गतो गौरवार्थःस्तुतः कौरवैः पारिबर्ही ससाम्बः ॥७४॥महावैभवो द्वारकेशो ह्यनेक-श्चलन्नारदः श्रीप्रभादर्शकस्तु ।महर्षिस्तुतो ब्रह्मदेवः पुराणःसदा षोडशस्त्रीसहस्रस्थितश्च ॥७५ ॥॥गृही लोकरक्षापरो लोकरीतिःप्रभुर्ह्युग्रसेनावृतो दुर्गयुक्तः ।तथा राजदूतस्ततो बन्धभेत्तास्थितो नारदप्रस्तुतः पाण्डवार्थी ॥७६॥नृपैर्मन्त्रकृद्ह्युद्धवप्रीतिपूर्णोवृतः पुत्रपौत्रैः कुरुग्रामगन्ता ।घृणी धर्मराजस्तुतो भीमयुक्तःपरानन्ददो मंत्रकृद्धर्मजेन ॥७७॥दिशाजिद्बली राजसूयार्थकारीजरासन्धहा भीमसेनस्वरूपः ।तथा विप्ररूपो गदायुद्धकर्ताकृपालुर्महाबन्धनच्छेदकारी ॥७८॥नृपैः संस्तुतो ह्यागतो धर्मगेहंद्विजैः संवृतो यज्ञसंभारकर्ता ।जनैः पूजितश्चैद्यदुर्वाक्क्षमश्चमहामोहदोऽरेः शिरश्च्छेदकारी ॥७९॥महायज्ञशोभाकरश्चक्रवर्तीनृपानन्दकारी विहारी सुरारी ।सभासंवृतो मानहृत्कौरवस्यतथा शाल्वसंहारको यानहन्ता ॥८०॥सभोजश्च वृष्णिर्मधुः शूरसेनोदशार्हो यदुर्ह्यंधको लोकजिच्च ।द्युमन्मानहा वर्मधृग्दिव्यशस्त्रीस्वबोधः सदा रक्षको दैत्यहन्ता ॥८१॥तथा दन्तवक्त्रप्रणाशी गदा धृग्-जगत्तीर्थयात्राकरः पद्महारः ।कुशी सूतहन्ता कृपाकृत्स्मृतीशो-ऽमलो बल्वलाङ्गप्रभाखण्डकारी ॥८२॥तथा भीमदुर्योधनज्ञानदाता-परो रोहिणीसौख्यदो रेवतीशः ।महादानकृद्विप्रदारिद्र्यहा चसदा प्रेमयुक्श्रीसुदाम्नः सहायः ॥८३॥तथा भार्गवक्षेत्रगन्ता सरामो-ऽथ सूर्योपरागश्रुतः सर्वदर्शी ।महासेनया चास्थितः स्नानयुक्तोमहादानकृन्मित्रसम्मेलनार्थी ॥८४॥तथा पाण्डवप्रीतिदः कुन्तिजार्थीविशालाक्षमोहप्रदः शान्तिदश्च ।वटे राधिकाराधनो गोपिकाभिःसखीकोटिभी राधिकाप्राणनाथः ॥८५॥सखीमोहदावाग्निहा वैभवेशःस्फुरत्कोटिकन्दर्पलीलाविशेषः ।सखीराधिकादुःखनाशी विलासीसखीमध्यगः शापहा माधवीशः ॥८६॥शतं वर्षविक्षेपहृन्नन्दपुत्र-स्तथा नन्दवक्षोगतः शीतलाङ्गः ।यशोदाशुचः स्नानकृद्दुःखहन्तासदागोपिकानेत्रलग्नो व्रजेशः ॥८७॥स्तुतो देवकीरोहिणीभ्यां सुरेन्द्रोरहो गोपिकाज्ञानदो मानदश्च ।तथा संस्तुतः पट्टराज्ञीभिराराद्-धनी लक्ष्मणाप्राणनाथः सदा हि ॥८८॥त्रिभिः षोडशस्त्रीसहस्रस्तुताङ्गःशुको व्यासदेवः सुमन्तुः सितश्च ।भरद्वाजको गौतमो ह्यासुरिः सद्-वसिष्ठः शतानन्द आद्यः सरामः ॥८९॥मुनिः पर्वतो नारदो धौम्य इन्द्रो-ऽसितोऽत्रिर्विभाण्डः प्रचेताः कृपश्च ।कुमारः सनन्दस्तथा याज्ञवल्क्योऋभुर्ह्यङ्गिरा देवलः श्रीमृकण्डः ॥९०॥मरीची क्रतुश्चौर्वको लोमशश्चपुलस्त्यो भृगुर्ब्रह्मरातो वसिष्ठः ।नरश्चापि नारायणो दत्त एवतथा पाणिनिः पिङ्गलो भाष्यकारः ॥९१॥सकात्यायनो विप्रपातञ्जलिश्चा-थ गर्गो गुरुर्गीष्पतिर्गौतमीशः ।मुनिर्जाजलिः कश्यपो गालवश्चद्विजः सौभरिश्चर्ष्यशृङ्गश्च कण्वः ॥९२॥द्वितश्चैकतश्चापि जातूद्भवश्चघनः कर्दमस्यात्मजः कर्दमश्च ।तथा भार्गवः कौत्सकश्चारुणस्तुशुचिः पिप्पलादो मृकण्डस्य पुत्रः ॥९३॥सपैलःस्तथा जैमिनिः सत्सुमन्तु-र्वरो गाङ्गलः स्फोटगेहः फलादः ।सदा पूजितो ब्राह्मणः सर्वरूपीमुनीशो महामोहनाशोऽमरः प्राक् ॥९४॥मुनीशस्तुतः शौरिविज्ञानदातामहायज्ञकृच्चाभृतस्नानपूज्यः ।सदा दक्षिणादो नृपैः पारिबर्हीव्रजानन्ददो द्वारिकागेहदर्शी ॥९५॥महाज्ञानदो देवकीपुत्रदश्चा-सुरैः पूजितोऽहीन्द्रसेनादृतश्च ।सदा फाल्गुनप्रीतिकृत्सत्सुभद्रा-विवाहे द्विपाश्वप्रदो मानयानः ॥९६॥भुवं दर्शको मैथिलेन प्रयुक्तोद्विजेनाशु राज्ञा स्थितो ब्राह्मणैश्च ।कृती मैथिले लोकवेदोपदेशीसदावेदवाक्यैः स्तुतः शेषशायी ॥९७॥परीक्षावृतो ब्राह्मणैश्चामरेषुभृगुप्रार्थितो दैत्यहा चेशरक्षी ।सखा चार्जुनस्यापि मानप्रहारीतथा विप्रपुत्रप्रदो धामगन्ता ॥९८॥विहारस्थितो माधवीभिः कलाङ्गोमहामोहदावाग्निदग्धाभिरामः ।यदुर्ह्युग्रसेनो नृपोऽक्रूर एवतथा चोद्धवः शूरसेनश्च शूरः ॥९९॥हृदीकश्च सत्राजितश्चाप्रमेयोगदः सारणः सात्यकिर्देवभागः ।तथा मानसः सञ्जयः श्यामकश्चवृको वत्सको देवको भद्रसेनः ॥१००॥नृपोऽजातशत्रुर्जयो माद्रिपुत्रो-ऽथ भीष्मः कृपो बुद्धिचक्षुश्च पाण्डुः ।तथा शन्तनुर्देवबाह्लीक एवा-थ भूरिश्रवाश्चित्रवीर्यो विचित्रः ॥१०१॥शलश्चापि दुर्योधनः कर्ण एवसुभद्रासुतो विष्णुरातः प्रसिद्धः ।स जन्मेजयः पाण्डवः कौरवश्चतथा सर्वतेजा हरिः सर्वरूपी ॥१०२॥व्रजं ह्यागतो राधया पूर्णदेवोवरो रासलीलापरो दिव्यरूपी ।रथस्थो नवद्वीपखण्डप्रदर्शीमहामानदो गोपजो विश्वरूपः ॥१०३॥सनन्दश्च नन्दो वृषो वल्लभेशःसुदामार्जुनः सौबलस्तोक एव ।स कृष्णोंऽशुकः सद्विशालर्षभाख्यःसुतेजस्विकः कृष्णमित्रो वरूथः ॥१०४॥कुशेशो वनेशस्तु वृन्दावनेश-स्तथा माथुरेशाधिपो गोकुलेशः ।सदागोगणो गोपतिर्गोपिकेशो-ऽथ गोवर्धनो गोपतिः कन्यकेशः ॥१०५॥अनादिस्तु चात्मा हरिः पूरुषश्चपरो निर्गुणो ज्योतिरूपो निरीहः ।सदा निर्विकारः प्रपञ्चात्परश्चस सत्यस्तु पूर्णः परेशस्तु सूक्ष्मः ॥१०६॥द्वारकायां तथा चाश्वमेधस्य कर्तानृपेणापि पौत्रेण भूभारहर्ता ।पुनः श्रीव्रजे रासरङ्गस्य कर्ताहरीराधया गोपिकानां च भर्ता ॥१०७॥सदैकस्त्वनेकः प्रभापूरिताङ्ग-स्तथा योगमायाकरः कालजिच्च ।सुदृष्टिर्महत्तत्त्वरूपः प्रजातःसकूटस्थ आद्याङ्कुरो वृक्षरूपः ॥१०८॥विकारस्थितश्च ह्यहङ्कार एवस वै कारकस्तैजसस्तामसश्च ।नमो दिक्समीरस्तु सूर्यः प्रचेतो-ऽश्विवह्निश्च शक्रो ह्युपेन्द्रस्तु मित्रः ॥१०९॥श्रुतिस्त्वक्च दृग्घ्राणजिह्वागिरश्चभुजामेढ्रकः पायुरङ्घ्रिः सचेष्टः ।धराव्योमवार्मारुतश्चैव तेजो-ऽथ रूपं रसो गन्धशब्दस्पृशश्च ॥११०॥सचित्तश्च बुद्धिर्विराट् कालरूप-स्तथा वासुदेवो जगत्कृद्धताङ्गः ।तथाण्डे शयानः सशेषः सहस्र-स्वरूपो रमानाथ आद्योऽवतारः ॥१११॥सदा सर्गकृत्पद्मजः कर्मकर्तातथा नाभिपद्मोद्भवो दिव्यवर्णः ।कविर्लोककृत्कालकृत्सूर्यरूपोनिमेषो भवो वत्सरान्तो महीयान् ॥११२॥तिथिर्वारनक्षत्रयोगाश्च लग्नो-ऽथ मासो घटी च क्षणः काष्ठिका च ।मुहूर्तस्तु यामो ग्रहा यामिनी चदिनं चर्क्षमालागतो देवपुत्रः ॥११३॥कृतो द्वापरस्तु त्रितस्तत्कलिस्तुसहस्रं युगस्तत्र मन्वन्तरश्च ।लयः पालनं सत्कृतिस्तत्परार्धंसदोत्पत्तिकृद्द्व्यक्षरो ब्रह्मरूपः ॥११४॥तथा रुद्रसर्गस्तु कौमारसर्गोमुनेः सर्गकृद्देवकृत्प्राकृतस्तु ।श्रुतिस्तु स्मृतिः स्तोत्रमेवं पुराणंधनुर्वेद इज्याथ गान्धर्ववेदः ॥११५॥विधाता च नारायणः सत्कुमारोवराहस्तथा नारदो धर्मपुत्रः ।मुनिः कर्दमस्यात्मजो दत्त एवस यज्ञोऽमरो नाभिजः श्रीपृथुश्च ॥११६॥सुमत्स्यश्च कूर्मश्च धन्वन्तरिश्चतथा मोहिनी नारसिंहः प्रतापी ।द्विजो वामनो रेणुकापुत्ररूपोमुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता ॥११७॥धनुर्वेदभाग्रामचन्द्रावतारःससीतापतिर्भारहृद्रावणारिः ।नृपः सेतुकृद्वानरेन्द्रप्रहारीमहायज्ञकृद्राघवेन्द्रः प्रचण्डः ॥११८॥बलः कृष्णचन्द्रस्तु कल्किः कलेश-स्तु बुद्धः प्रसिद्धस्तु हंसस्तथाश्वः ।ऋषीन्द्रोऽजितो देववैकुण्ठनाथोह्यमूर्तिश्च मन्वन्तरस्यावतारः ॥११९॥गजोद्धारणः श्रीमनुर्ब्रह्मपुत्रोनृपेन्द्रस्तु दुष्यन्तजो दानशीलः ।सदृष्टः श्रुतो भूत एवं भविष्यद्-भवत्स्थावरो जङ्गमोऽल्पं महच्च ॥१२०॥इति श्रीभुजङ्गप्रयातेन चोक्तंहरे राधिकेशस्य नाम्नां सहस्रम् ।पठेद्भक्तियुक्तो द्विजः सर्वदा हिकृतार्थो भवेत्कृष्णचन्द्रस्वरूपः ॥१२१॥महापापराशिं भिनत्ति श्रुतं य-त्सदा वैष्णवानां प्रियं मङ्गलं च ।इदं रासराकादिने चाश्विनस्यतथा कृष्णजन्माष्टमीमध्य एव ॥१२२॥तथा चैत्रमासस्य राकादिने वा-थ भाद्रे च राधाष्टमीसद्दिने वा ।पठेद्भक्तियुक्तस्त्विदं पूजयित्वाचतुर्धा सुमुक्तिं तनोति प्रशस्तः ॥१२३॥पठेत्कृष्णपुर्यां च वृन्दावने वाव्रजे गोकुले वापि वंशीवटे वा ।वटे वा क्षये वा तटे सूर्यपुत्र्याःस भक्तोऽथ गोलोकधाम प्रयाति ॥१२४॥भजेद्भक्तिभावाच्च सर्वत्र भूमौहरिं कुत्र चानेन गेहे वने वा ।जहाति क्षणं नो हरिस्तं च भक्तंसुवश्यो भवेन्माधवः कृष्णचन्द्रः ॥१२५॥सदा गोपनीयं सदा गोपनीयंसदा गोपनीयं प्रयत्नेन भक्तैः ।प्रकाश्यं न नाम्नां सहस्रं हरेश्चन दातव्यमेवं कदा लम्पटाय ॥१२६॥इदं पुस्तकं यत्र गेहेऽपि तिष्ठेद्-वसेद्राधिकानाथ आद्यस्तु तत्र ।तथा षड्गुणाः सिद्धयो द्वादशापिगुणैस्त्रिंशतैर्लक्षणैस्तु प्रयान्ति ॥१२७॥इति श्रीमद्गर्गसंहितायामश्वमेधखण्डेश्रीकृष्णसहस्रनामवर्णनं नामैकोनषष्टितमोऽध्यायः ॥५९॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP