लक्ष्मीसेनाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
कथां तपन्तकेनेति कथितां नरवाहनमम ।
श्रुत्वा प्रहृष्टं प्रोवाच गोमुखोऽपि विनोदिनीम् ॥६१९॥
उत्पलाख्येन वणिजा लक्ष्मीदत्ताभिधः सुतः ।
पुरा विवासितः प्रायान्मालिन्या सह भार्यया ॥६२०॥
निर्जलामटवीं प्रा(प्य प्रियां तृष्णानिपीडिताम् ।
दृष्ट्वा स्वभुजमुत्पाट्य स तां रक्तमपाययत् ॥६२१॥
दिनैर्बहुभिरासाद्य) श्रान्तः शीतजलां नदीम् ।
स्नात्वा चकार तत्तीरे प्राणवृत्तिं वधूसखः ॥६२२॥
ददर्श तत्र निर्लूनकरपादं विनासिकम् ।
अन्तरूढं तरङ्गौघैर्नरमुत्तानशायिनम् ॥६२३॥
तं कंचिज्जीवमालोक्य संजातकरुणोऽथ सः ।
विगाह्य तटिनीं क्षिप्रमानिनाय वणिक्सुतः ॥६२४॥
प्रत्यग्रनिग्रही तस्य वस्त्रचीरेण रुग्णिका ।
वध्वा तस्य चिरं चक्रे विपिने भेषजक्रियाम् ॥६२५॥
पत्यौ प्रयाते स्नानाय मानिनी काममोहिता ।
ततः कदाचित्संरूढच्छेदतुण्डं तमब्रवीत् ॥६२६॥
भज मां चिरसंकल्पं मम पूरय निर्जने ।
स्त्रीणां हि ललितं चेतो न शाम्यति रतं विना ॥६२७॥
इत्यर्थितस्तया रुग्णो भुजाभ्यां गाधपीडिताम् ।
तां निर्दयपरामर्दैः सुचिरं समतोषयत् ॥६२८॥
स्नात्वा प्रतिनिवृत्तोऽथ वणिक्पुत्रो ददर्श ताम् ।
मिथ्यैव विहितव्याधिं तथा दीर्घं प्रलापिनीम् ॥६२९॥
तटिनीप्रान्तसंजातां मह्यमेनां महौषधीम् ।
समाहरेति स तया प्रेरितो गन्तुमुद्ययौ ॥६३०॥
तत्करालम्बिना वल्लीदाम्ना हासपदं गतः ।
तथैव त्यक्तपाशोऽसौ नदीमध्ये पपात च ॥६३१॥
स ततः सलिलोत्फालैर्गमलालिङ्गनक्षमैः ।
अविभावित(?)विक्रम्यैर्न्यस्तो हर्षपुरीतटे ॥६३२॥
तस्मिन्नवसारे राज्ञि हर्षपुर्या दिवं गते ।
अभिशेकगजेन्द्रेण स गृहीतो वणिग्वरः ॥६३३॥
तत्राभिषेकपुण्याहे निर्गत्य द्विरदाधिपः ।
यमारोपयति स्कन्धे स राजेति स्थितिः सदा ॥६३४॥
स तेन कुञ्जरेन्द्रेण नीतो राज्यश्रिया युतः ।
योषित्सु न मतिं चक्रे स्मरन्भार्याविचेष्टितम् ॥६३५॥
पृथ्वीराज्यं समासाद्य प्रजापालनतत्परः ।
स तत्र कालमनयत्सर्वार्थिसुरपादपः ॥६३६॥
सापि तं रुग्णमादाय स्कन्धे रागवशीकृ[ता ।
बभ्राम निखिलां पृथ्वीं भिक्षावाहितभोजना ॥६३७॥
अहो पतिव्रता कापि पश्येयं या पतिं निजम् ।
स्कन्धे वहति कृ]त्ताङ्गं जनास्तामित्यपूजयन् ॥६३८॥
कालेन सा हर्षपुरीं प्राप्ता तस्मै महीभुजे ।
प्रदर्शिता मन्त्रिवरैस्तत्सतीव्रतविस्मितैः ॥६३९॥
सोऽपि तां प्रत्यभिज्ञाय तं च रुग्णं स्मयाकुलः ।
राजा स सर्वं वृत्तान्तं सचिवेभ्यो न्यवेदयत् ॥६४०॥
तौ निरस्य विरक्तोऽथ लक्ष्मीसेनोऽभवन्मुदा ।
विपुले राज्यसारेऽपि ललनाविपुलाशयः ॥६४१॥
इति लक्ष्मीसेनाख्यायिका ॥४३॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP