वेश्याख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अत्रैव गोमुखः प्राह प्रस्तावसदृशीं कथाम् ।
राजा विक्रमसिंहाख्यः प्रतिष्ठानपुरेऽभवत् ॥८४॥
बभूव शशिलेखाख्या प्रिया तस्य सुलोचना ।
अनन्तगुणनामा च सचिवो धीमतां वरः ॥८५॥
स कदाचिन्महीपालो बलिभिः पञ्चभिर्नृपैः ।
निरुद्धनगरो मानी स्वयं युद्धाय निर्ययौ ॥८६॥
स तैः समरभङ्गाद्यैर्विजितो युधि शत्रुभिः ।
सहानन्तगुणेनैव छन्नो देशान्तरं ययौ ॥८७॥
आसाद्य सुन्दरीं चैव रागिणी धनगौरवात् ।
शनिरुज्जयिनीं प्राप्य गणिकाया निवेशनम् ।
रम्यं कुमुदिकाख्यायां सोऽविशन्मन्त्रिणा सह ॥८८॥
तं राजलक्षणोपेतं सिंहस्कन्धं महाभुजम् ।
सिषेवे सा महीपालं प्रेमबन्धैः सविभ्रमैः ॥८९॥
स राजा द्रविणं तस्या गृहादादाय भूरिदः ।
याचकेभ्यो ददौ नित्यं निजवद्विपुलाशयः ॥९०॥
अत्यन्तरागिणीं मता नृपतिस्तां सविस्मयः ।
मन्त्रिणं प्राह पश्येमां मदेकशरणामिति ॥९१॥
( अमात्यः प्राह मा राजन्वेश्यासु प्रत्ययं कृथाः ।
दृक्संविभागमप्येता नैव कुर्वन्त्यकारणम् ॥९२॥
इति ) श्रुत्वा नृपश्चक्रे परीक्षायै मृगीदृशः ।
मिथ्यैवातुरमात्मानं कृतकत्यक्तजीवितम् ॥९३॥
सोऽथ कूटमृतस्तेन मन्त्रिणा कृतसंविदा ।
नीतः श्मशानं हा राजन्निति तारप्रलापिना ॥९४॥
ततः सा गणिका दुःखात्कल्पिते प्रवरेऽनले ।
कण्ठे गृहीत्वा तं कान्तं त्यक्तुमात्मानमुद्ययौ ॥९५॥
अत्रोत्तस्थौ नरपतिः संजातप्रमादाकुलः ।
तां गाढरागिणीं ज्ञात्वा तं निनिन्द च मन्त्रिणम् ॥९६॥
संजाताधिकविश्रम्भं सेवमानं घटस्तनी ।
कान्ता क्ष्मापालतिलकं बभाषे मन्त्रिपुंगवः ॥९७॥
( दृष्टानुमरणात्तस्यास्त्वदेकशरणा मतिः ।
तथापि देव जानेऽहं कूटमेतद्विचेष्टितम् ॥९८॥
इति मन्त्रिवरो राजा श्रद्दधे नैव सस्मितः ) ।
संजातप्रत्ययो रागः कस्य वाचा निवर्तते ॥९९॥
अत्रान्तरे स भूपालः शुश्राव महिषीं निजाम् ।
तस्मिन्रणे मानभङ्गशोकात्संत्यक्तजीविताम् ॥१००॥
ततो दुःखाकुलं दृष्ट्वा क्षिप्रं श्रुत्वा च तत्कथाम् ।
प्रगल्भललना स्वैरं नृपं कुमुदिकावदत् ॥१०१॥
राज्ञो न शोभते शोकस्तव दोर्दर्पशालिनः ।
पराक्रमो हि वीराणां मानभङ्गे प्रतिक्रिया ॥१०२॥
सन्त्येव मे सहस्राणि मत्तवारणवाजिनाम् ।
हेम्नश्चैतैः कृतोद्योगो जहि शत्रून्धनुर्धर ॥१०३॥
इति तद्वचसा राजा हविषेव हुताशनः ।
स्फूर्जत्प्रतापः प्रययौ परांस्तु तुरगद्विपैः ॥१०४॥
बलिना सुहृदा सार्धं राज्ञा धवलकीर्तिना ।
गत्वा जघान ताञ्शत्रून्सानुगानुग्रविक्रमः ॥१०५॥
श्रीमान्विक्रमसेनोऽथ राज्यं प्राप्य निजं पुनः ।
वराङ्गनानां विदधे प्रधानान्तःपुरे स्त्रियम् ॥१०६॥
ततः सा प्राह भूपालं कृतज्ञ श्रृणु देव मे ।
संकल्पकल्पविटपी सर्वदैव प्रवर्तसे ॥१०७॥
शत्रवो विजिताः सर्वे प्राप्ता श्रीर्यशसा सह ।
त्वया धैर्यसहायेन प्रणयिप्रियकारिणा ॥१०८॥
अद्य चेत्करुणा चित्ते तवास्मिन्प्रेमलेशके ।
तन्मे वितर भूपाल सतताभीप्सितं वरम् ॥१०९॥
उज्जयिन्यां नरेन्द्रेण बद्धो मे हृदयप्रियः ।
द्विजन्मा श्रीधरो नाम स बलान्मुच्यतां त्वया ॥११०॥
तदर्थमेव राजेन्द्र सेवितोऽसि मया चिरम् ।
इति श्रुत्वा महीपालस्तथेत्याह सविस्मयः ॥१११॥
ततः स विपुलानीको विजित्योज्जयिनीपतिम् ।
मोक्षयित्वा द्विजसुतं पुनः स्वपुरमाययौ ॥११२॥
प्रहृष्टां संगताम तेन चिराद्यूना द्विजन्मना ।
दत्त्वा बहुगुणं हेम क्ष्मापतिर्विससर्ज ताम् ॥११३॥
अथान्तगुणो मन्त्री विहस्य नृपमब्रवीत् ।
एतदर्थं पुरा देव सा भवन्तमसेवयत् ॥११४॥
दृशान्यत्र गिरान्यत्र चेतसान्यत्र कृतिम म् ।
प्रेम संदर्शयन्त्येव कुशला वेशयोषितः ॥११५॥
इति मन्त्रिवचः श्रुत्वा भूपालो विस्मयाकुलः ।
एवमेतदिति प्राह तन्मतिं प्रशशंस च ॥११६॥
गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः ।
कुटिलं गणयामास गणिकावृत्तमद्भुतम् ॥११७॥
इति वेश्याख्यायिका ॥३॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP