भद्रघटाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अनङ्गीकृतकामाय नमो वामार्धधारिणे ।
शिवायाश्चर्यरूपाय निष्कलाय कलाभृते ॥१॥
ततः कदाचिदास्थानस्थितं वत्सनरेश्वरम् ।
वणिग्व्यजिज्ञपत्प्रह्वः प्रतीहारेण सूचितः ॥२॥
देवाभवद्दुर्गतो मे दासो वसुधराभिधः ।
मयाद्य तस्य शिखरे कापि संपद्विलोकिता ॥३॥
मया सकौतुकं पृष्टः प्राह मद्यमदाकुलः ।
प्राप्तो मया नृपद्वारादनर्घ्यो रत्नकङ्कणः ॥४॥
रत्नत्रयवतस्तस्मादुपाद्यैको मणिर्मया ।
दत्तो रूपकलक्षेण वणिजा विजनस्थिते ॥५॥
इति तद्वचनं श्रुत्वा मयान्विष्टो वणिक्स्वयम् ।
हिरण्यगुप्तो धनवान्विपुलक्रयविक्रयः ॥६॥
वणिजा रत्नदत्तेन श्रुत्वेत्यावेदितं नृपः ।
तं विसृज्य प्रतीहारसंदिष्टावानिनाय तौ ॥७॥
ताभ्यां कङ्कणमासाद्य रत्नमुत्पाटितं च तौ ।
कृपया वत्सभूपेन मूर्खाविति न दण्डितौ ॥८॥
ततो नर्मसुहॄत्प्राह हासशीलो वसन्तकः ।
अहो नु पुण्यहीनेन हारितोऽनेन कङ्कणः ॥९॥
दैवाद्वा कर्मयोगाद्वा लक्ष्मीः प्राप्तापि गोचरम् ।
प्रमादादल्पबुद्धीनां सहसैव विनश्यति ॥१०॥
वराको विप्रलब्धोऽत्र कटकेन सुदुर्गतः ।
स्वप्नवन्मन्दभाग्योऽसौ तत्रैव श्रूयतामिति ॥११॥
भारिकः शुभदत्ताख्यः पुरे पाटलिपुत्रके ।
काष्ठान्याहर्तुमगमद्वनं विपुलपादपम् ॥१२॥
दिव्यमाल्याम्बरधरं तत्र यक्षचतुष्टयम् ।
ददर्श विगतस्तत्र प्राहुस्ते तमथादरात् ॥१३॥
अरे चतुररूप त्वं मनुष्यः परिदृश्यसे ।
निर्जनेऽस्मिन्वने भद्र परिचर्यां कुरुष्व नः ।
( भोजनं तावदधुना देहि नानारसोचितम् ॥१४॥
अमुष्माद्भद्रघटकाद्यदिष्टं तदवाप्यते ।
इति तद्वचसा तूर्णं घटकात्तत्प्रदर्शितात् ) ॥१५॥
यथोदितं समुद्धॄत्य तेभ्यो भोगान्वरान्ददौ ।
तदाज्ञया स्वयं प्राप यथेच्छमशनं ततः ॥१६॥
दिव्यं विलेपनं मालां शयनं च घटोद्धृतम् ।
तेभ्यो भुक्तोत्तरं दत्त्वा स परं विस्मयं ययौ ॥१७॥
इत्थं तत्सेवया नित्यं कंचित्कालं निनाय सः ।
कालेन तुष्टास्ते यक्षास्तमेवास्मै ददुर्घटम् ॥१८॥
नमोऽस्तु तस्य सेवायै सर्वसिद्धिभुवा यया ।
यक्षा अपि वशं यान्ति दुर्लक्षा विषमाशया ॥१९॥
स भद्रघटमादाय भारिकः स्वगृहं ययौ ।
चिन्तामणिप्रभात्तस्मात्परामृद्धिमवाप्तवान् ॥२०॥
ततस्तदुद्धृतैर्भोगैः सुहृद्बन्धुजनैर्वृतः ।
महोत्स्वं स विदधे सदा मधुमदाकुलः ॥२१॥
विभूतिकारणं पृष्टः कौतुकात्स्वजनैरथ ।
हर्षाद्भद्रघटं स्कन्धे कृत्त्वा क्षीबो ननर्त सः ॥२२॥
मददोषात्पपातासौ सशब्दं वसुधातले ।
तस्मिन्निपतिते मत्ते ययौ शकलतां घटः ॥२३॥
भग्ने मनोरथैः सार्धं घटे यक्षान्तिकं गते ।
स्वप्नवद्वञ्चितः प्राप दशां स्वामेव भारिकः ॥२४॥
इत्येवं क्षीणभाग्यानामयोग्यानां प्रमादिनाम् ।
दृष्टनष्टा भवन्त्येव विद्युत्तुल्या विभूतयः ॥२५॥
इति भद्रघटाख्यायिका ॥१॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP