काकबकाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
निशम्येति वचस्तस्य ययौ दमनकः प्रभोः ।
समीपं संशयस्थाने सेवाकालो हि धीमताम् ॥२७३॥
स विज्ञाय प्रभोश्चेतः शब्दमात्रविसंस्थुलम् ।
प्राह प्रायो भवन्त्येव बाढशब्दा घनादिषु ॥२७४॥
मांसपूर्णेति विज्ञाय भेरीप्रध्वानमन्थरम् ।
क्रोष्टापश्यत्समुत्पाट्य पुरा काष्ठं च चर्म च ॥२७५॥
इत्युक्ता स्वामिनं धीमान्ययौ शब्दानुगः शनैः ।
विलोक्य वृषभं तत्र साक्षेपमिदमब्रवीत् ॥२७६॥
अहो मूढ न जानीषे स्वामिनं पिङ्गलं हरिम् ।
तत्पादसेवाबाह्यस्य का नु रक्षा वने तव ॥२७७॥
तच्छ्रुत्वा कम्पितमनास्ततः संजीवनोऽभवत् ।
दत्ताभयोऽथ तेनैव नीतः पिङ्गलकान्तिकम् ॥२७८॥
स प्रणम्य प्रसादार्ददृशा तेनावलोकितः ।
कृतकृत्यमिवात्मानं मेने विगतसंभ्रमः ॥२७९॥
स कालेनान्तरङ्गोऽभून्मृगराजस्य स्सेवकः ।
आसान्न एवं प्रह्वेण नृपाः कान्ताश्च सादराः ॥२८०॥
तयोर्विश्रम्भमालोक्य बाह्यतादतितापितौ ।
क्षुत्क्षामौ पेततुर्दुःकैः सचिवौ जम्बुकौ हरेः ॥२८१॥
ततो दमनकः प्राह सचिवो मन्दबुद्धिना ।
संजीवसिंहयोः प्रीतिर्विनाशायात्मनः कृता ॥२८२॥
उपायश्चिन्तनीयोऽत्र जाने तावद्विभेदने ।
( उपायक्रमसाध्यं यद्बलसाध्यं न तद्भवेत् ॥२८३॥
श्रूयते कृष्णसर्पो हि धिया काकेन पातितः ) ।
वृक्षमूलाश्रयः सर्पः पुरा वायसपोतकान् ।
भक्षयामास तद्दुःखकृशाभूद्वायसप्रिया ॥२८४॥
गोमायुकः सुहृत्पृष्टस्तया तामाह दुःखिताम् ।
समाश्वसिहि सर्पोऽयं विनंक्ष्यति बको यथा ॥२८५॥
कपटव्रतमास्थाय मत्स्यान्प्राह पुरा बकः ।
प्रस्तुतो धीवरैर्युष्मध्द्रदे प्रातर्महाक्षयः ॥२८६॥
युष्मद्विनाशे नष्टोऽहं यूयं वृत्तिर्यतो मम ।
इत्युक्तिचकितान्मत्स्यान्रक्षार्थं नेतुमुद्यतः ॥२८७॥
बकस्तान्भक्षयन्कालं स निनाय यथारुचि ।
अतिलौल्योद्धृतेनाथ कर्कटेन निपातितः ॥२८८॥
उपायश्चिन्त्यतां सर्पवधे श्रुत्वेति वायसी ।
जहार राजनिलयात्सहसा हेमसूत्रिकाम् ॥२८९॥
आदाय स्वकुलायाग्रनम्रशाखावलम्बिनीम् ।
चकार ददृशुस्तां च नराः सर्पदुरासदाम् ॥२९०॥
विधाय दलशो बाणैर्व्याज्मारोहणोद्यताः ।
हृष्ट्वा विलोक्य तत्काकी स्वयं भूषणमत्यजत् ॥२९१॥
इति काकबकाख्यायिका ॥१०॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP