संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| सुमानसाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम सुमानसाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सुमानसाख्यायिका Translation - भाषांतर ततः प्रातः समुत्थाय राजपुत्रः सुःऋद्वृतः । कृताह्निको वरोद्यानं प्रययौ फुल्लपादपम् ॥१६९॥ तत्र मत्तालिमालाङ्ककुमुदस्मेरविभ्रमे ।अवतीर्णां दिवः कान्तां ददर्श वरकन्यकाम् ॥१७०॥ कन्याशतैरनुगतां सतारामिव रोहिणीम् । नवलावण्यपीयूषप्लाविताखिलदिङ्मुखाम् । मुग्धाश्चकोरवनिता यत्कान्तिनिवहं ययुः ॥१७१॥तां वीक्ष्य कार्तिकीचन्द्रवदनां मदनावनिम् । विस्मितो राजतनयो हर्शोत्कर्षोक्तमप्यभूत् ॥१७२॥नेत्रपेयं वपुस्तस्याः पश्यन्ननिमिषेक्षणः । पप्रच्छ मन्मथाक्रान्तस्तां नामाभिजनश्रियम् ॥१७३॥ तेन कामाभिरामेण रामा हृदयहारिणी । सा पृष्टा प्राह सोत्कम्पकुचविन्यस्तलोचना ॥१७४॥शिखरे काञ्चनाशैले तुषारधरणीभृत ः । स्फटिकाह्वयशाः श्रीमानस्ति विद्याधरेश्वरः ॥१७५॥( तस्य शक्तियशा नाम सुताहं पार्वतीवरात् । जाता हेमप्रभाख्यायां देव्यां देवाधिपप्रिया ॥१७६॥कालेन मम शर्वाण्या सदाराधनतुष्टया । यौवनश्रियमालोक्य वितीर्णः प्रवरो वरः ॥१७७॥वत्सभूपालतनयो भाविविद्याधरेश्वरः ) । नरवाहनदत्तस्ते भविष्यत्यचिराप्त्पतिः ॥१७८॥इति देव्या समादिष्टा प्रहृष्टा पितुराज्ञया । विद्याभिस्तद्वराप्ताभिस्त्वामहं द्रष्तुमागता ॥१७९॥व्रजामि तावदचिरात्संगमो नौ भविष्यति । इत्युक्त्वा सानुगा व्योम्ना प्रययौ मञ्जुभाषिणी ॥१८०॥स्वप्नदृष्टमिवाशेषं मन्यमानस्तदद्भुतम् ।नरवाहनदत्तोऽभूच्चिन्तालोचननिश्चलः ॥१८१॥स शनैर्विरहाक्रान्तः स्मरसंतापनिःसहः ।विनोदिनीं कथां कांचित्कथयेत्याह गोमुखम् ॥१८२॥स प्राह काञ्चनपुरीपतिरासीत्सुमानसः । राजा विराजमानानां श्रेयसां यशसां निधिः ॥१८३॥ ( तं कदाचित्सभास्थानस्थितं शबरकन्यका ।कान्ता मुक्तालता नाम प्रतीहारेण सूचिता ॥१८४॥पञ्जरस्थं समादाय शुक्रं मरकतच्छविम् । अन्तः प्रविष्टा प्रोवाच प्रणम्य जगतीपतिम् ॥१८५॥शुकोऽयं देव योग्यो मे विज्ञानमधुरध्वनिः ) । इत्युक्त्वा भूमिपालस्य पञ्जरं निदधे पुरः ॥१८६॥ततः कृताह्निको राजा शुकमाहूय तं रहः ।पप्रच्छ सर्वशास्त्रज्ञं विज्ञानावाप्तिकारणम् ॥१८७॥ राज्ञा स पृष्टः प्रोवाच श्रूयतामद्भुतं विभो । ( अस्ति हेमवती नाम संसारविपुलाटवी ॥१८८॥तत्र रोहीतकतरौ शुक्ललक्षसमाश्रये ) । जनितोऽहं प्रवयसा शुकेनात्यन्तपेशलः ॥१८९॥दैवान्मां जननीहीनमवर्धयत वत्सलः । मत्पिता बन्धुहीनेषु याति स्नेहो ह्यनल्पताम् ॥१९०॥कदाचिन्मृगयासक्तैर्वने तस्मिन्विलोडिते । हतेभक्रोडहरिणैः पुलिन्दैः पिशिताशिभिः ॥१९१॥ जरन्निशादेनैकेन तमारुह्य महीरुह्यम् ।ग्रीवामोटननिर्जीवा नीतास्तेनाखिलाः शुकाः ॥१९२॥ ततः स्वकर्मणः शेषात्पतितः पर्णसंचये । स्नातुं प्रपतेन नीतोऽहं मुनिना करुणाब्धिना ॥१९३॥मारीचनाम्ना तेनाहं स्थापितः कृपयाश्रमे ।दृष्टः पुलस्त्यमुनिना सहासं दिव्यचक्षुषा ॥१९४॥आत्मनो दुर्नयस्येदं भुङ्के फलमयं शुकः । इति ब्रुवाणं पप्रच्छुः पुलस्त्यं मत्कथां द्विजाः ॥१९५॥सोऽभ्यदभवच्छ्रीमान्त्रत्नाकरपुरे नृपः ।ज्योतिःप्रभाख्यो भूपालमौलिलालितशासनः ॥१९६॥सोमप्रभोऽभवत्तस्य चन्द्रांशः स्वप्नसूचितः । पुत्रः कान्तिनिधिर्लोकलोचनानन्दनिर्झरः ॥१९७॥यौवराज्ये धृतः पित्रा सोऽथ दिग्विजयोद्यतः ।निर्ययौ विपुलानीकैररातिविभवाशनिः ॥१९८॥सह प्रियकराख्येन मन्त्रिपुत्रेण धीमता ।विजित्य पृथिवीं सर्वां विपुलं प्राप काननम् ॥१९९॥ कान्तां वनश्रियं तत्र लीलयैव विलोकयन् ।ददर्श किन्नरं दिव्यरत्नाम्बरविभूषितम् ॥२००॥ तं कौतुकादनुसरन्स्फटिकस्वच्छविग्रहम् । ततः पवनवेगेन तुरगेण धुतांशुकः ॥२०१॥ अमानुषीं भुवं प्राप्य विश्रम्य सरसि क्षणात् ।कैलासशिखराकारमपश्यत्त्र्यम्बकालयम् ॥२०२॥तत्रोपवेणयन्तीं च दिव्यकन्यां विलोक्य सः । पप्रच्छाकालतपसः कारणं यौवनावनीम् ॥२०३॥सा प्राह हिमशैलेन्द्रशिखरे काञ्चनाह्वये । पद्मकूटाभिधानोऽस्ति श्रीमान्विद्याधराधिपः ॥२०४॥मनोरथप्रभा नाम सुताहं स्नेहशालिनः । तस्य रत्नप्रभाख्यायां पत्न्यां जाता यशस्विनः ॥२०५॥कालेन यौवनवती कदाचित्स्नातुमागता । सरस्तत्र स्मराकारमपश्यं मुनिपुत्रकम् ॥२०६॥ ततोऽहं तं विलोक्यैव पुष्पायुधवशीकृता । अभवं कम्पकलिकालतेव पवनाकुला ॥२०७॥अथ तत्सचिवः पृष्टो मत्सख्या पद्मलेखया । उवाच बुद्धदत्ताख्यस्तज्जन्मक्रमशः कथाम् ॥२०८॥अस्ति दीधितिमान्नाम मुनीन्द्रो विजितेन्द्रियः ।तं सरः स्नातुमायान्तं सरोलक्ष्मीर्व्यलोकयत् ॥२०९॥तं दृष्ट्वैव सकामायां मानसस्तनयः क्षणात् । जातोऽयं रश्मिमान्नाम तस्यां साक्षादिव स्मरः ॥२१०॥इति तद्वचनं श्रुत्वा सखी नाम कुलं च मे । तस्मै न्यवेदयज्ज्ञात्वा स्मरसंयोगमावयोः ॥२११॥ततोऽहं पितुरादेशादाहूता शशिलेखया । मुषितेवायतध्याना सशल्येवाहितव्यथा । भूतग्रस्तेव सोन्मादा ततोऽहमभवं क्षणात् ॥२१२॥मां विना मुनिपुत्रोऽपि स मनोभवतापितः । बभूव बालनलिनीवलयालंकृतस्थितिः ॥२१३॥ ( ततः सखीं विसृज्यासौ ताम्यन्मानसमायया । आनीतो निजमुद्यानं निशीथे संगमाशया ॥२१४॥अत्र फुल्ललताजालगुञ्जन्मधुकराकुले । प्रौढचन्द्रकरस्मेरः स्मृत्वा मां जीवितं जहौ ॥२१५॥ततोऽहं तूर्णमायाता तमपश्यं तथागतम् । रूपद्वेषादिवाभ्येत्य हतं मकरकेतुना ॥२१६॥ हा प्रियेति विलप्याहं यावन्न पतिता भुवि । अवतीर्य दिवस्तावदनैषीत्कोऽपि तत्तनुः ॥२१७॥ततः प्रवेष्टुकामां मामनले शोकसंस्थिताम् । प्राप्स्यसीमं पुनरपि प्राह मां कोऽपि खेचरः ॥२१८॥तदाशालम्बनधृतिस्ततः शीतांशुशेखरम् । इति स्थिताहं वरदं ध्यायन्ती पार्वतीपतिम् ॥२१९॥इति सोमप्रभः श्रुत्वा तत्र विद्याधरीवचः । तां प्राह विस्मितः क्कासौ पद्मलेखा सखी तव ॥२२०॥इति सा राजपुत्रेण पृष्टा प्रोवाच सुन्दरी । सिंहविक्रमनामास्ति श्रीमान्विद्याधराधिपः ॥२२१॥ अस्ति तस्येन्दुवदना तनया मकरन्दिका । दग्धोऽपि हरकोपेन यत्कान्त्या जीवितः स्मरः ॥२२२॥ अपांशुलेखनात्सा मे सखी प्राणा बहिश्चराः ।तया मद्दुःखमाकर्ण्य विवाहे नियमः कृतः ॥२२३॥तां बोधयितुमद्यैव पद्मलेखा सखी मया । विसृष्टा तत्पितुर्वाक्यात्सुतानियमदुःखितः ॥२२४॥इत्युक्त्ववत्यां विद्याभृत्कन्यकायां समाययौ । तस्मिनेन्व क्षणे क्षिप्रं तद्विसृष्टैव सा सखी ॥२२५॥ विद्याधरेणानुगता पद्मलेखा समेत्य ताम् । उवाच सखि नोद्वाहं मन्यते मकरन्दिका ॥२२६॥अयं देवजयो नाम विद्याधरकुमारकः । तया विसृष्टस्त्वां वक्तुमिहैवागम्यतामिति ॥२२७॥ततो देवजयेनापि तदेवोक्ता व्यचिन्तयत् । मनोरथप्रभा किंचिध्द्यानस्तिमितलोचना ॥२२८॥सख्या परिणयेनैवं मद्दुःखान्नियमः कृतः । रूपवान्राजपुत्रोऽयं तस्याः समुचितः पतिः ॥२२९॥गृहीत्वैनं प्रयाम्येव तदन्तिकमहं यतः ।एतन्मुखेन्दुमालोक्य सा प्रतिज्ञां विमोक्ष्यति ॥२३०॥मत्वेति राजपुत्रेण सह देवजयेन सा । मनोरथप्रभा प्रायात्पद्मलेखानुगा सखीम् ॥२३१॥अन्तःपुरे तामासाद्य ततः सा मकरन्दिकाम् । ( परिष्वज्य मिथो भेजे सा मुग्धा स्फटिकासनम् ॥२३२॥सोमप्रभं विलोक्यैव सुन्दरं मकरन्दिका ) । बभूवानन्दनिष्यन्दमकरीकृतमानसा ॥२३३॥ राजपुत्रोऽपि तां वीक्ष्य हरिणायतलोचनाम् । लक्ष्यतां पञ्चबाणस्य प्रययौ विस्मयाकुलः ॥२३४॥तयो परस्परस्मेरस्मरसंरम्भनिर्भरः ।यूनोरभून्महत्स्वेदप्रकम्पपुलकोत्सवः ॥२३५॥अत्रान्तरे राजसूनोर्मन्त्रिपुत्रः प्रियंकरः ।तुरङ्गखुरमुद्राङ्कां शनकैः प्राप पद्धतिम् ॥२३६॥ अस्मिन्नेवान्तरे शीघ्रसंचारो लेखहारकः । ज्योतिःप्रभस्य संदेशाद्राजपुत्रं समाययौ ॥२३७॥तूर्णमेहीति स पितुः श्रुत्वाज्ञां मन्त्रिसूनुना । संगतो दयितामेव ध्यायन्मूढ इवाभवत् ॥२३८॥अचिरात्त्वां समेष्यामीत्येवं हि कृतसंविदम् । विद्याधरेन्द्रसुतया सानुगः स्वपुरं ययौ ॥२३९॥ ततः सा विग्रहोन्मत्ता शनकैर्मकरन्दिका । निजकर्मविपाकाच्च तत्पिताप्यभवच्छुकः ॥२४०॥सोऽयमेव शुकस्तस्याः पिता विद्याधरेश्वरः ।पुलस्त्येनेति भवतो श्रुत्वाहं जातिमस्मरम् ॥२४१॥असौ निषादी मत्पुत्री दत्ता तुभ्यमियं तया । सोमप्रभो राजपुत्रः शिवादिष्टः समेष्यति ॥२४२॥अथैनां निजरूपं तदास्थितां मकरन्दिकाम् । मनोरथप्रभापि त्वामद्यैव समुपैष्यति । सरोजिन्या मुनिवरस्त्वं हि लक्ष्मीसुतः प्रभो ॥२४३॥इत्युक्त्वा स शुकः प्राप निजं वैद्याधरं वपुः । जातिस्मरो विधायैव तं राजानं सुमानसम् ॥२४४॥अत्रान्तरे समाक्रान्तश्चिन्तयन्मकरन्दिकाम् । आदिष्टः शंभुना स्वप्ने तद्वृत्तान्तं निवेद्य तम् ॥२४५॥तेनैवासौ समभ्यायाद्देशं सोमप्रभोऽथ तम् ।मुक्तां निशादभावात्तामवाप्य मकरन्दिकाम् ॥२४६॥मनोरथप्रभा ज्ञात्वा विद्यया तद्विचेष्टितम् । समेत्यभेजे राजानं तं यातं मुनिपुत्रताम् ॥२४७॥ ततो मिथो न््दुस्ते गत्वा तुहिनभूधरम् । इत्येव खेचरासङ्गो नृणां भवति कर्मतः ॥२४८॥त्वं च तां शक्तियशसं विद्याधरनृपात्मजाम् ।अचिरात्प्राप्स्यसि विभो गौर्यादिष्टं न संशयः ॥२४९॥एवमुत्तमसत्त्वानां गाढं प्रणयरागिणाम् ।कुलाचारोपपन्नानां भवत्येव समागमः ॥२५०॥स तामसमनारीभिः कुलाचारविपर्ययात् । संगमप्रान्तविरसः शीलध्वंसादिदुर्णयैः ॥२५१॥ इति सुमानसाख्यायिका ॥८॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP