संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| चतुराख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम चतुराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत चतुराख्यायिका Translation - भाषांतर एवं शक्तविनोदेन महतामपि नोदयः । किमुतैकान्तभक्षाणामस्माकं मूढचेतसाम् ॥३४४॥कृत्वेति भेदनोपायं ययौ करटकान्तिकम् । हसन्दमनकोऽभ्येत्य हृष्टोऽखिलमुवाच तम् ॥३४५॥पैशून्योऽसि ततस्तेन पुनः प्राह च जम्बुकः । हृदये तैक्ष्ण्यमादायावदच्चामृतसंनिभः ॥३४६॥एकद्रव्यार्थिनं हन्यां किं मामङ्ग विगर्हसे । पराभिघातादश्नाति विभूतिं विबुधो जनः ॥३४७॥अलक्श्यप्रतिभाद्भेदो मांसं चतुरको यथा । करभः शङ्कुकर्णाख्यः क्रोष्टा चतुरकश्च सः ॥३४८॥साचिव्यं कुशलौ सिंहं वज्रदन्तमुपाश्रितौ । ततो युद्धार्दिततनौ कदाचिद्वारणद्विषि ॥३४९॥वृत्तिच्छेदाच्चतुरकः शङ्कुकर्णमभाषत । सखे वक्त्रं कया बुध्द्या स्वामिने किं न दीयते ॥३५०॥ शरीरेणातिपुष्टेन किमनेन प्रयोजनम् । एवमस्त्विति तेनोक्तः सिंहमभ्येत्य सोऽवदत् ॥३५१॥ बृहत्प्रस्थाङ्कमानेन शरीरं संप्रयच्छति ।करभो वः स्वया बुद्ध्या प्रसादः क्रियतां विभो ॥३५२॥तद्वाक्यादथ शार्दूलः शङ्कुकर्णं विदार्य तम् । ययौ स्नानाय धॄत्वास्य द्वितीयं परिचारकम् ॥३५३॥तमाह क्र्व्यवदनं जम्बुकं चतुरस्ततः । भक्षयावो बृहन्मांसमिति श्रुत्वाब्रवीच्चसः । तच्छ्रुत्वा चतुरः प्राह तदा मे दृष्टिमर्पय ॥३५४॥अथ संभक्षिते मासे संप्राप्ते च मृगाधिपे । आलुलोके भयाक्रनतः स क्रोष्टा चतुराननम् ॥३५५॥भक्षयित्वा किमद्यापि वदनं मम वीक्ष्यसे । चतुरः प्राह तच्छ्रुत्वा तं जघान मृगेश्वरः ॥३५६॥अत्रान्तरे महसार्थभ्रष्टं करभकं परम् । कटाहवादिनं दृष्ट्वा चतुरः सिंहमब्रवीत् ॥३५७॥बृहत्प्रस्थं समादाय सोऽयं करभ आगतः । धिक्कष्टमन्धकर्णत्वं वनमन्यदितो व्रज ॥३५८॥तस्मिन्गते यथेष्टं स भक्षयन्वासयन्बहून् । प्रमोदमाप दुर्लक्ष्यः स्वार्थसिद्धयै सतां धियः ॥३५९॥इति चतुराख्यायिका ॥१६॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP