संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
नापिताख्यायिका

नापिताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


जाते ततः सुते विप्रः कदाचिन्निर्गतो गृहात् ।
रक्शायै नकुलं धृत्वा पुत्रस्य गृहयोषितम् ॥५५८॥  
अथ सर्पं महाभोगं बालहिंसार्थमुत्थितम् ।
नकुलः खण्डशः कृत्वा रक्ताक्तो निर्ययौ गृहात् ॥५५९॥
तमभ्येत्य द्विजो दृष्ट्वा शिशुं मत्वा हतं सुतम् ।
अयोमुखेन कोपान्धो जघान नकुलं क्षणात् ॥५६०॥
गेहं प्रविश्य निहतं वीक्ष्य सर्पं भयंकरम् ।
स्थितं च बालकं स्वस्थं शुशोचानुशयाकुलः ॥५६१॥
असम्यग्वीक्षितं द्रष्टुं पण्डितो नानुवर्तते ।
अनुकारात्परिभवं याति नापितवन्नरः ॥५६२॥
वणिक्षीणधनोऽपश्यत्स्वप्ने भिक्षुत्रयं पुरा ।
तैश्च स व्याहृतः सोऽस्मान्हत्व द्रविणमाप्स्यसि ॥५६३॥
स प्रबुद्धो वणिप्रातर्दृष्ट्वा भिक्षुत्रयं पुरः ।
अताडयताडिताश्च बभूवुर्धनराशयः ॥५६४॥
तद्वृत्तं नापितो दृष्ट्वा वणिग्वेश्मनि दुर्मतिः ।
धनार्थी स्वगॄहं गत्वा जघान किल भिक्षुकान् ॥५६५॥
तं भिक्षुकवधाद्राजा शुनि जग्राह नापितम् ।
अत्यानालोच्यकार्येषु प्रवृत्तिर्दुःखकारणम् ॥५६६॥
इति नापिताख्यायिका ॥३९॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP