श्रीधराख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
गोमुखेनेति कथिते कथां पृष्टो विनोदिनीम् ।
नरवाहनदत्तेन सुहृत्प्राह तपन्तकः ॥५८३॥
मालवे विषये विप्रः श्रीमानासीद्यशोधरः ।
लक्ष्मीधरश्रीधराख्यौ तस्याभूतां प्रियौ सुतौ ॥५८४॥
कदाचित्पितुरादेशात्तौ विद्यार्थितया गतौ ।
देशान्तरं विनोद्योगं विद्या कथमवाप्यते ॥५८५॥
अटवीं तौ समासाद्य दूराध्वश्रमपीडितौ ।
पृथुपादपसुच्छाये सरस्तीरे न्यषीदताम् ॥५८६॥
ततः स्नात्वा फलाहारौ यातेऽस्तं तिग्मरोचिषि ।
भिन्नाञ्जनचयश्यामैस्तिमिरैः पूरितेऽम्बरे ॥५८७॥
महातरुं समारुह्य तस्थतुर्व्याघ्रशङ्कया ।
तौ बालपल्लवैः कृत्वा शयनं विटपान्तरे ॥५८८॥
अथोदिते गजवधूनवदन्ताङ्कुरत्विषि ।
त्रुट्यत्तमःकञ्चुकाग्रे शशाङ्के यामिनीस्तने ॥५८९॥
सरोमध्यात्समुत्थाय क्रमेण परिचारिकाः ।
संमार्ज्य तां च वसुधामाकीर्य कुसुमोत्करैः ॥५९०॥
आस्तीर्य हेमपर्यङ्के शय्यां स्वच्छोत्तरच्छदाम् ।
निधाय रत्नपात्रेषु दिव्यामाल्यविलेपनम् ॥५९१॥
पानं च पृथुकर्पूरसहकाराधिवासितम् ।
ममज्जुर्लघुसंचारास्तस्मिन्नेव सरस्तटे ॥५९२॥
ततो दिव्याम्बरधरः कान्तो रुचिरकुण्डलः ।
मन्दारमालाधवलः कोऽप्युत्तस्थौ महाभुजः ॥५९३॥
अथ पर्यङ्कशयने तत्र तस्य विलासिनः ।
निशण्णस्य मुखाम्भोजान्निर्ययौ कापि कामिनी ॥५९४॥
सुतारहारधवला रणन्मुखरमेखला ।
मदविस्खलितक्काणा कलहंसीव शारदी ॥५९५॥
तस्यामभ्युदितायां च द्वितीयाप्याययौ वधूः ।
विभूषणाङ्गी ललिता लावण्येन विभूषिता ॥५९६॥
ततः पूर्वोदितां कान्तां स दिव्याभरणोज्ज्वलाम् ।
जग्राह कण्ठे सोत्कण्ठं सविलासं ससंभ्रम म् ॥५९७॥
समेत्य सुरतश्रान्ते तस्मिन्निद्रामुपागते ।
पादसंवाहनं चक्रे सा परा तस्य सुन्दरी ॥५९८॥
लक्ष्मीधरश्रीधरौ च तद्दृष्ट्वा कौतुकाकुलौ ।
अवतीर्य तरुस्कन्धात्तदन्तिकमुपागतौ ॥५९९॥
विनिद्रनयना साथ कान्तकन्ठावलम्बिनी ।
तौ दृष्ट्वा लघुसंचारा समुत्तस्थौ स्मराकुला ॥६००॥
भर्तुः पिधाय वदनं निद्रालोर्वाससा शनैः ।
सा श्रीधरमुपेत्याह निर्लज्जं भज मामिति ॥६०१॥
सोऽब्रवीद्दिव्यरूपेण कान्तेनानेन सुन्दरि ।
रमस्व परदारेषु मातर्नो मादृशां गतिः ॥६०२॥
इति तद्वचसा किंचिल्लज्जानतविलोचना ।
सावदत्कम्पसंरम्भनिःश्वासस्खलिताक्षरा ॥६०३॥
नाहं न गम्या ते कान्त प्रच्छन्नशतकामिता ।
दृष्टपञ्चनरा गम्या किं न नाम श्रुतं त्वया ॥६०४॥
इहैवासेविता नित्यं मया प्रच्छन्नकामुकाः ।
येषां रागकथाबन्धेष्वाप्तं हस्तादिदं मया ॥६०५॥
इत्युक्त्वाम्शुकपर्यन्तबद्धं सा समदर्शयत् ।
रागाङ्गुलीयशकतं नानाधातुविनिर्मितम् ॥६०६॥
तद्दृष्ट्वा श्रीधरः कर्णौ पिधायापसृतस्ततः ।
सा विबोध्य पतिं प्राह कोपकम्पतरङ्गिता ॥६०७॥
अनेन नाथ पान्थेन गाढं निद्रावृते त्वयि ।
कृताहं नष्टचारित्रा मुखं विष्टभ्य पाणीना ॥६०८॥
इति प्रियावचः श्रुत्वा खङ्गमाकृष्य दुर्मदः ।
सकोपः श्रीधरं हन्तुमुद्ययौ भ्रुकुटीमुखः ॥६०९॥
अपरास्य सती भार्या सा निर्भूषणविग्रहा ।
असतीव्रताअवेद्य कोपानलमवारयत् ॥६१०॥
सोऽप्यङ्गुलीयकशतं तस्या दृष्ट्वा पराञ्चले ।
प्रसाद्य विप्रं विदधे तां पापां कृत्तनासिकाम् ॥६११॥
सतीव्रतप्रत्ययाय दृशा दग्ध्वा महातरुम् ।
तत्रापरापि तज्जाया दृशैव समजीवयत् ॥६१२॥
ततः सोऽपि द्विजसुतौ प्राह प्रीतिरसाकुलः ।
काश्मीरे भवशर्माख्यो द्विजोऽहमभवं पुरा ॥६१३॥
अहं कदाचित्सद्धर्मश्रमणादाहितव्रतः ।
निवारितो ब्रह्मचर्यादनयैव बलान्निशि ॥६१४॥
बुद्धादरादहं जातो जलेऽस्मिन्सिद्धिभाजनम् ।
व्रतभङ्गान्न तु प्राप्तो गन्तुं तत्परमं पदम् ॥६१५॥
इति ब्रुवाणः स तया बध्वा चारित्रशुभ्रया ।
नीतः स्वतपसा क्षिप्रं विमानेन सुरावनीम् ॥६१६॥
लक्ष्मीधरश्रीधरौ च स्थितौ तत्रैव विस्मितौ ।
प्रातर्ददृशतुर्दिव्यरूपं यक्षकुमारकम् ॥६१७॥
तद्दिष्टदिव्यसंभोगौ तस्माद्विद्यामवाप्य तौ ।
जग्मतुस्तौ समामन्त्र्य निजगेहं महाशयौ ॥६१८॥
इति श्रीधराख्यायिका ॥४२॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP