रासभाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
न्यगोर्धशाखिनिलयो वायसाधिपतिः पुरा ।
बबूव वर्णमेघाख्य)स्तमालश्यामलच्छविः ॥४३७॥
तस्योलूकपतिर्वैरी रिपुमर्दः कुलक्षयम् ।
चकार निशि सर्वो हि देशकालाश्रयाद्बली ॥४३८॥
स सैन्यकृतशोकार्तः पञ्च पप्रच्छ वायसान् ।
( प्रधानामात्यसंस्थासु नियुक्तान्मुनिकोविदान् ) ॥४३९॥
देशत्यागमुवाचैकः कालहारं तथाकारः ।
बलिना संधिमन्योऽथ तूर्णमन्यपराक्रम म् ॥४४०॥
पञ्चाङ्गं पञ्चमो मन्त्रमपरः शत्रुनाशनम् ।
दुर्जया हि सदा घूकाः शत्रवो वाक्कृतेन नः ॥४४१॥
श्रुत्वेति वायसपतिर्मन्त्रिणं चिरजीविनम् ।
पप्रच्छ कारणं पृष्टः सोऽप्याह श्रूयतामिति ॥४४२॥
मित्राणी शत्रुतां यान्ति शत्रवो यान्ति मित्रताम् ।
वाक्कृतेनैव वाग्दोषाच्छ्रूयते गर्दभो हतः ॥४४३॥
द्वीपिचर्मावनद्धाङ्गो रजकेन पुरा खरः ।
पोषाय परसस्येषु ग्रीष्मे त्यक्तः स दुर्बलः ॥४४४॥
सस्यगोप्ताथ तं दृष्ट्वा चकितो द्वीपिरूपिणम् ।
द्र्द्राव छन्नकोदण्डः कम्बलच्छन्नविग्रहः ॥४४५॥
सस्यपुष्टशरीरोऽथ तं मत्वा गर्दभीं खरः ।
उद्दण्डमेहनोऽधावदत्युत्तालखुरद्वयः ॥४४६॥
मां द्वीपिनं ज्ञास्यतीति तं मनोहरया गिरा ।
घटयन्निव संमत्तोऽवदत्सामोचितं खरः ॥४४७॥
गर्दभं च गिरा ज्ञात्वा जघान स धनुर्धरः ।
वाग्दोषेणेति निहतो गर्दभो बुद्धिलाघवात् ॥४४८॥
इति रासभाख्यायिका ॥२३॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP