छागाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
तस्मादुलूको नार्होऽयमिति तद्वचसा पुरा ।
नष्टराज्योऽभवद्वैरी काकानामित्यमङ्गलः ॥४६५॥
छलेन पातय रिपून्सर्वोपायपरिक्षये ।
छलेन भ्रंशितः स्थानाद्धूर्तैः शत्रुभिरग्रजः ॥४६६॥
स्कन्धे छगलमादय व्रजन्तं ब्राह्मणं पथि ।
( वञ्चनायाब्रुवन्धूर्ताः संघशः कृतसंविदः ) ॥४६७॥
अहो श्वा मृगहा नूनमयं कस्य द्विजर्षभ ।
स्कन्धेन वोढो मार्गेषु नृपोपायनमेष वा ॥४६८॥
एकस्मिन्नित्यपक्रान्ते दूरमन्यावथोचतुः ।
अहो विचित्रं पश्यावः स्कन्धेन यदयं द्विजः ॥४६९॥
श्वानं वहति किं नु स्यादयं व्याधो द्विजाकृतिः ।
तयोः श्रुत्वेति विप्रस्तं निधाय भुवि शङ्कितः ॥४७०॥
पस्पर्श पाणिना पुच्छविषाणवृषणादिषु ।
उन्मत्ता विलपन्त्येते छागो नायमिति स्वयम् ॥४७१॥
पुनः स्कन्धे समादाय तं ययौ चतुरो द्विजः ।
ततः परे समभ्येत्य कक्षानियमिताम्बराः ।
ऊचुर्द्विजोऽयमस्पृश्यः श्वापक इव पापभाक् ॥४७२॥
अहो महाजने नायं लज्जते कुलपांसनः ।
श्वानं वहति यः स्कन्धे पथि याति च संस्पृशेत् ॥४७३॥
इत्याकर्ण्य भृशोद्विग्नस्त्यक्वाजं दुःखितो द्विजः ।
बहोनामेकवाक्येन संजातप्रत्ययोऽभवत् ॥४७४॥
मायावी राक्षसो नूनमजोऽयं स्यान्न संशयः ।
इति संचिन्त्य तत्याज तं द्विजो धूर्तवञ्चितः ॥४७५॥
छागमादाय भुक्त्वा ते धूर्ता मुमुदिरे परम् ।
इति व्याजेन शत्रूणां कुर्यात्संपदि वञ्चनाम् ॥४७६॥
इति छागाख्यायिका ॥२६॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP