देवदासाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
उक्ते तपन्तकेनेति ततो हरिशिखोऽब्रवीत् ।
एवमेव स्त्रियः क्लृप्तास्तुषकेशविषैरिव ॥१२८॥
देवदासाभिधानस्य वाराणस्यां कुटुम्बिनः ।
बभूव तरुणी भार्या दुःशीला नाम रूपिणी ॥१२९॥
कदाचित्करदानाय पत्यौ रुद्धे नृपालये ।
सा गूढकामिना भेजे निःशङ्कं सुरतं निशि ॥१३०॥
प्रत्यहं तोषयन्ती तं नानाभोजनपानकैः ।
मा भूयाद्बन्धमोक्षो मे भर्तुरित्याशशंस सा ॥१३१॥
ततः कालेन मुक्तोऽसौ राजा स्वगृहमागतः ।
हृष्टो दुःखितया सद्यः कृतकानन्दया तया ॥१३२॥
गृहीत्वाशु तमुत्सङ्गे सा प्रणम्याब्रवीत्पतिम् ।
नाथ स्वप्ने मयाद्यैव सा प्रणम्याब्रवीत्पतिम् ॥१३३॥
इत्युक्त्वा प्रददौ तस्मै भोजनं बहुलासवम् ।
सोऽपि भुक्त्वा बहुक्षीनो निद्रां भेजे रतिश्रमात् ॥१३४॥
ऊर्ध्ववेश्मस्थितं सान्यं संज्ञयाहूय वल्लभम् ।
भर्तारं घातयामास दारकस्यैव पश्यतः ॥१३५॥
तस्मिन्प्रयाते चुक्रोश चौरैरभिहतो ह्यसौ ।
ततः ससंभ्रमाह सर्वे बान्धवास्तूर्णमाययुः ॥१३६॥
देवदासं हतं दृष्ट्वा तभ्द्राता शोकविह्वलः ।
विललापाश्रुलुलितं चेष्टमानो महीतले ॥१३७॥
स्वभार्यया हतं ज्ञाता बालकस्य गिरा ततः ।
तां च तत्कामुकं च द्राग्जघ्नुरन्विष्य बान्धवाः ॥१३८॥
इत्येवं पापशीलानां स्त्रीणां कैर्ज्ञायते गतिः ।
उक्ते हरिशिखेनेति गोमुखस्तमभाषत ॥१३९॥
इति देवदासाख्यायिका ॥५॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP