खराख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
उदुम्बरं समारुह्य दास्यामि हृदयं तव ।
इत्युक्त्वा वृक्षमारुह्य भयं त्यक्त्वा तमब्रवीत् ॥५३२॥
व्रज दुष्टाशय सखे विज्ञातोऽसि चिरान्मया ।
नास्मि गर्दभवन्मूर्खो वञ्चनीयो भवद्विधैः ॥५३३॥
व्याधिक्षामं पुरा सिंहं जम्बुकः सचिवोऽब्रवीत् ।
केन नश्यति ते व्याधिरवसन्ना वयं प्रभो ॥५३४॥
सिंहोऽब्रवीद्यदि भवेत्कुतश्चित्सरसोद्धृतम् ।
गार्दभं कर्णहृदयं तेन श्यामति मे गदः ॥५३५॥
तच्छ्रुत्वा जम्बुको गत्वावदद्रजकगर्दभम् ।
भारपीदाकृशोऽत्र त्वं वनमेवैहि वृत्तिमत् ॥५३६॥
तिष्ठन्ति तत्र गर्दब्यस्तच्छ्रुत्वा स समाययौ ।
तस्य पृष्ठे ययावुग्रः स सिंहस्वनदुःसहः ॥५३७॥
मुक्तः कृच्छ्रेण दुद्राव ततः सपदि रासभः ।
क्रोष्टा विलोक्य शार्दूलं निनिन्द मृदुवादिनम् ॥५३८॥
गर्हयित्वा मृगपतिं प्रोवाचाभ्येत्य गर्दभम् ।
अपक्रान्तोऽसि किं मूर्ख गर्दभ्यो हारितास्तवया ।
प्रथमं सर्वसिद्धीनां सोढा विघ्नं सुखी भवेत् ॥५३९॥
इति तस्य गिरायातं खरं हत्वा मृगेश्वरे ।
स्नानाय याते तत्कर्णहृदयं जम्बुकोऽहरत् ॥५४०॥
क्क यातं तत्समभ्येत्य ब्रुवाणे वारणद्विषि ।
क्रोष्टावदन्न जानीषे प्रकृतः सरलाशयः ॥५४१॥
अकर्णहृदयो मूर्खो यदि न स्यादयं खरः ।
गतोऽपि दृष्टत्रासोऽपि किं पुनर्व्यसनं विशेत् ॥५४२॥
इति खराख्यायिका ॥३५॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP