उष्ट्राख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
उपपत्तिसहैर्वाक्यैर्विरक्तहृदयं नृपम् ।
विधायेति हरिं गत्वा चक्रे शङ्काकुलं वृषम् ॥३१६॥
सोऽब्रवीद्धूर्तमध्ये हि दुर्लभ जीवितं सखे ।
मुग्धसिंहाश्रयं जघ्नुरुष्ट्रं काकादयः पुरा ॥३१७॥
विकटाक्षं पुरा सिंह संग्रामक्षतविग्रहम् ।
क्षुधार्ताः सचिवा ऊचुर्द्वीपिगोमायुवायसाः ॥३१८॥
अशक्ता विग्रहे स्वामिन्नवसन्ना वयं वने ।
निराहारा न चास्माकं स्वामित्यागः शुभावहः ॥३१९॥
एष सार्थपरिभ्रष्टो य उष्ट्रस्त्वामुपागतः ।
महाकायः स पर्याप्तमस्मत्संघस्य भोजनम् ॥३२०॥
तच्छ्रुत्वा भृशमुद्विग्नमाश्रितद्रोहकीर्तनात् ।
तमङ्गीकारपदवीं धूर्ता निन्युः शनैर्हरिम् ॥३२१॥
अथोष्ट्रसंन्निधौ प्राह व्याजकल्पितसंविदा ।
वायसो मच्छरीरेन स्वामिन्वृत्तिः प्रकल्प्यताम् ॥३२२॥
नेत्युक्तवाक्ये शार्दूले तदेव प्राह जम्बुकः ।
प्रतिषिद्धे पुनस्तस्मिन्द्वीपिन्यपि निराकृते ॥३२३॥
अचिन्तयत्करभकः संरम्भस्पृष्टमानसः ।
नैवेह भक्ष्यते कश्चिदौचित्यं दर्शयाम्यहम् ॥३२४॥
स्वामिन्नस्मच्छरीरेण क्रियतां प्रणवर्तनम् ।
इत्युक्तमात्रे जघ्नुस्तं द्वीपिजम्बुकवायसाः ॥३२५॥
इत्युष्ट्राख्यायिका ॥१४॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP