अलजालाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इति वत्सेश्वरः श्रुत्वा सामात्यो दयितासखः ।
क्षणं स्मितसुधाधौतकपोलफलकोऽभवत् ॥२६॥
ततो मध्यं समारूढे व्योम्नः कमलिनीप्रिये ।
वत्सराजो नृपशतैः सहोत्थाय सभातलात् ॥२७॥
स्नात्वार्चयित्वा श्रीकण्ठं भुक्त्वान्तःपुरमभ्यगात् ।
नरवाहनदत्तोऽपि निशि शय्यागृहं ययौ ॥२८॥
वयस्यैः सहितस्तत्र नर्मकेलिकथान्तरे ।
बहिः स्थितानां शुश्राव गीतं हरिणचक्षुषाम् ॥२९॥
वाराङ्गनानां गीतेन संजातपुलकं ततः ।
मरुभूतिं समालोक्य हसन्प्राह तपन्तकः ॥३०॥
देव वेश्याङ्गनागीतध्वनिना पश्य ते सुहृत् ।
आकृष्यमाणहृदयः कुरङ्ग इव लक्ष्यते ॥३१॥
श्रुत्वेति तद्वचः प्राह मरुभूतिः स्मिताननः ।
मृषा तपन्तकेनोक्तं जानेऽहं वैशिकीं स्थितिम् ॥३२॥
क्रूराणाम क्षणरक्तानामवसाने तमःस्पृशाम् ।
संधानामिव वेश्यानां गुणिसङ्गकथैव का ॥३३॥
चपलाः क्षिप्ररुचयस्तूर्णं स्रस्तपयोधराह ।
निरम्बरदशा यान्ति पर्यन्ते वारयोषितः ॥३४॥
दर्शनेष्वेव सुखदा वेश्या वेशोज्ज्वलश्रियः ।
भोगवैरस्यकारिण्यः काठिन्यकटुकास्ततः ।
श्रूययां गणिकावृत्तं विचित्रं कथयाम्यहम् ॥३५॥
नगरे चित्रकूटाख्ये रत्नधर्माभवद्वणिक् ।
श्रीमानीशानधर्माख्यस्तस्याभूत्तनयः प्रियः ॥३६॥
कलाकलापकुशलो विद्यासु च कृतश्रमः ।
पित्रा महाधनेनासौ श्रीरक्षार्थं समर्पितः ॥३७॥
कुट्टिन्यै यमजिह्वायै वेश्यावञ्चनशिक्षणे ।
पुत्रप्रीत्या ददौ तस्यै शिक्षामूल्यं वणिग्वरः ॥३८॥
अशिक्षितेऽस्मिन्द्विगुणं ग्रहीष्यामीति संविदा ।
शिश्यतां प्रतिपन्नं तं सा गृहीत्वा वणिक्सुतम् ॥३९॥
संवत्सरेण विदधे वेश्यावञ्चनकोविदम् ।
ततः कदाचित्स युवा विसृष्टो द्रविणार्जने ॥४०॥
पित्रा जलनिधेस्तीरे स्थितं हेमपुरं ययौ ।
पञ्चकोटीः समादाय रूप्याणां सचिवैर्वृतः ॥४१॥
प्रविश्य तत्पुरं प्राप देवायतनमुत्तम म् ।
ददर्श तत्र नृत्यन्तीं हरिणायतलोचनाम् ॥४२॥
तरुणीं सुन्दरीं नाम गणिकां रतिजीविनीम् ।
प्रदाय सुहृदा तस्यै ताम्बूलं मन्मथाकुलः ॥४३॥
धन्याहमिति वादिन्या गॄहं तस्या विवेश सः ।
महार्हभूषणे तत्र कर्पूरागुरुधूपिते ॥४४॥
पुष्पोपहासरुचिरे बद्धपट्टवितानके ।
शय्यागृहे हिमस्चच्छन्यस्तचीनोत्तरच्छदे ॥४५॥
उपविष्टः समायातां लतां वाताकुलामि(व ) ।
सोऽपश्यत्सुन्दरीं हृष्टामग्राम्यहितमण्डनाम् ॥४६॥
तस्यां समुपविष्टायां प्रवृत्ते पानकोत्सवे ) ।
यथेष्टवादो मित्राणां निर्मर्यादमवर्तत ॥४७॥
ततो मकरदंष्ट्राख्या सुन्दर्या जननी शनैः
स्वयं गृहीतताम्बूला हर्षपूर्णा समाययौ ॥४८॥
संशुष्कविकटाकारां जरतीपूतनामिव ।
रक्तक्षयकरीं चौरां पिशाचीमिव वञ्चकाम् ॥४९॥
प्रणनम वणिक्पुत्रास्तां वलीनालिताङ्गिकाम् ।
कामिसर्वस्वसंहारसंख्ह्यारेखाङ्कितामिव ॥५०॥
तस्य त्यागप्रधानैः सा विपुलैर्गुणसंस्तवैः ।
जग्राह हृदयं तूर्णं सुहृदां च यथोचितैः ॥५१॥
ततो नीते विजनतां तस्मिन्क्रीडनमण्डपे ।
स लीलारसिको भेजे सुन्दर्याः सुरतोत्सवम् ॥५२॥
वैदग्ध्यमौग्ध्यसंदिग्धै रसारम्भैश्च विभ्रमैः ।
सद्भावभावितैर्भावैः स विवेश तदाशयम् ॥५३॥
ततः प्रभाते सानन्दौ गाढालिङ्गननिःसहौ ।
चक्रतुस्तौ समुत्थय श्रृङ्गरोचितमाह्निकम् ॥५४॥
इत्थं प्रतिदिनं श्रीमान्स तयाराधितः शनैः ।
हेमरत्नाम्बराश्वादि तस्यै कोटिसमं ददौ ॥५५॥
स किंचिच्छेषसर्वस्वः कालेन सुहृदो गिरा ।
पित्रा लेखेन चाज्ञप्तो द्वीपं गन्तुं समुद्ययौ ॥५६॥
ततः कृतकबाष्पाम्बुप्लावितोच्चकुचस्थली ।
आश्चिष्टानेन मूढेन सव्यथेन मुहुर्मुहुः ॥५७॥
पाणिपङ्कजविन्यस्तकपोलकलिताकृतिः ।
आश्वास्यमाना बहुशो मात्राकृतकसंचयैः ॥५८॥
सा प्रस्थितं तमवदच्छेषार्थहरणोद्यता ।
त्वां विना नैव जीवामीत्युक्त्वाभूद्गुम्फिताधरा ॥५९॥
आकृष्टः प्रेमपाशेन तया भीत्या पितुश्च सः ।
दोलाविलोकहृदयः प्रतस्थे भृशदुःखितः ॥६०॥
ततः प्रविदधे कूपे कुट्टिनी रज्जुजानकम् ।
विसृज्य गूढं पुरुषान्सुतां तत्रैव चाक्षिपत् ॥६१॥
हा हा त्वद्विरहायासनिःसहा सहसात्यजत् ।
कूपे क्षिप्ता च सुन्दर्या चुक्रोशेत्यथ कुट्टिनी ॥६२॥
श्रुत्वा प्रतिनिवृत्तस्तां सुहृद्भिस्तूर्णमुद्धृताम् ।
कण्ठे गृहीत्वा सोत्कण्ठं स रुरोद वणिक्सुतः ॥६३॥
ततस्तत्रैव तां कान्तां सेवमाः कृशोदरीम् ।
अनल्पेनैव कालेन निःशेषविभवोऽभवत् ॥६४॥
चिरात्प्रतिगृहं प्रायात्स्वबाहुस्वस्तिकांशुकः ।
कृशो विच्छायवदनस्तदाहूतोऽतिलज्जितः ॥६५॥
ततस्तज्जनकः कोपाद्यमजिह्वामुपेत्य ताम् ।
उवाच बत मत्पुत्रस्त्वयासौ शिक्षितः कलाः ॥६६॥
वञ्चितः काञ्चनपुरे कुट्टिन्या प्रीतमायया ।
विनष्टाः पञ्च कोट्यो मे शिक्षामूल्यं प्रयच्छ मे ॥६७॥
इति श्रुत्वा वणिगाक्यं पृष्ट्वा वृत्तं च तत्सुतम् ।
यमजिह्वावदत्पुत्र पुनर्गच्छ धनाप्तये ॥६८॥
एको जालप्रयोगोऽस्ति सत्यं मोहात्स विस्मृतः ।
तत्प्रत्यस्त्रं गृहाणेदमित्युक्त्वास्मै ददौ कपिम् ॥६९॥
अनेन तद्दशगुणं तया भक्षितमाप्स्यसि ।
धनमस्य प्रभावश्च प्रत्यक्षं परिदृश्यताम् ॥७०॥
इत्युक्त्वा रूप्यकशतं मर्कटायैव सा ददौ ।
निगीर्य स ततः प्रादाद्यावद्यो यः समीहते ॥७१॥
आलं नाम तमादाय मर्कटं प्रत्ययाद्वणीक् ।
बहुलद्रविणापूर्णः पुनर्हेमपुरं ययौ ॥७२॥
आसाद्य सुन्दरीं तत्र रागिणीं धनगौरवात् ।
पुनर्महोत्सवं चक्रे तद्गृहे रतिलालसः ॥७३॥
निगीर्णरूपकं तस्यै तं मर्कटमदर्शयत् ।
उद्गीर्य वक्त्रादसकृत्प्रददौ रूपकानि यः ॥७४॥
दृष्ट्वा तं सहिता मात्रा सुन्दरी समचिन्तयत् ।
अहो निधानरूपोऽयं चिन्तामणिनिभः कपिः ।
बहूपायैरसंपूर्णैः किं धनैः क्लेशचिन्तितैः ॥७५॥
इति संचिन्त्य सा मात्रा शनैः प्रियमयाचत ।
मर्कटं तं च न ददौ निजोत्सङ्गगतं वणिक् ॥७६॥
प्रीत्या विपुलनिर्बन्धात्सुन्दर्या प्रार्थितश्चिरम् ।
ददौ कोटिशतेनास्यै रूपकष्ठीविनं कपिम् ॥७७॥
तत्सर्वस्वं समादाय क्रयविक्रयसंचितम् ।
वणिङ्गिजपुरं प्रायात्ततो वैश्रवणोपमः ॥७८॥
अथाज्ञया पितुः श्रीमान्परिणीय कुलोचितम् ।
कलां गुणवतीं नाम विललास कलानिधिः ॥७९॥
कुट्टिन्या याच्यमानोऽपि स चिरात्क्षीणरूपकः ।
मर्कटो न ददौ किंचिदस्थितं दीयते कुतः ॥८०॥
स सान्त्वितोऽपि बहुशः कशाभिश्चाहतो मुहुः ।
महाधनव्ययरुषा तादितश्चमहाश्मना ॥८१॥
निर्जीवितः कृतस्ताभ्यामालो मर्कटपोतकः ।
इत्यालजालैर्ग्णिका वञ्च्यन्ते वञ्चयन्ति च ॥८२॥
इति राजसुतः श्रुत्वा कथितं मरुभूतिना ।
बभूव गणिकासङ्गसंकल्पशिथिलादरः ॥८३॥
इत्यालजालाख्यायिका ॥२॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP