मण्डुकाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
उक्त्वेति विरते तस्मिन्नमात्ये नीतिशंसिनि ।
उलूकः काकमादाय स्वमेव शिबिरं ययौ ॥५०८॥
तं शत्रुसंश्रयासन्ननाशं वीक्ष्य स्वयं प्रभुम् ।
उलूकमन्त्री प्रययावागामिभयशङ्कया ॥५०९॥
चिरजीवी समाश्वास्य छिद्रं दुर्गं समीक्ष्य च ।
आहूय वायसपतिं ददाहोलूकमण्डलम् ॥५१०॥
दग्धोलूहगुहां पूर्णामभिषिच्य निजं प्रभुम् ।
चिरजीवी निजजनैः पूज्यमानो मुदं ययौ ॥५११॥
ततः पपच्छ सद्भृत्यं राज्यमासाद्य वायसः ।
कथं शत्रुगृहे कालस्त्वया नीतोऽतिदुःसहः ॥५१२॥
सोऽब्रवीद्विपुलं दुःखमवाप्तं कालकाङ्क्षिणा ।
शत्रुः स्कन्धेन वोढव्यः प्राज्ञैः सपदि सर्पवत् ॥५१३॥
सर्पस्तडागमासाद्य वृत्तिच्छेदकृशः पुरा ।
धूर्तः प्रोवाच मण्डुकापुरा दष्तो मया द्विजः ॥५१४॥
तच्छापादेव यातोऽस्मि सर्वमण्डूकवाहनम् ।
मण्डुकराजस्तच्छ्रुत्वा चक्रे तं वाहनं मुदा ॥५१५॥
स्कन्धे गॄहीत्वा मण्डूकं स नानागतिकोविदः ।
ययाचे भोजनं मन्दं वपुः कृत्वा मृदुस्वरः ॥५१६॥
शनिः शनैस्तदादेशात्सर्वमण्डुकसंक्षयम् ।
चक्रे शत्रुगृहेष्वेवं तिष्थेत्कार्यवशागतः ॥५१७॥
इति मण्डुकाख्यायिका ॥३१॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP