मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे| शिवगीतिमाला पंचाशती श्रीविठोबाअण्णाकृत पदे श्रीमत्सीतारामायनम: श्रीविठोबा अण्णांचें संक्षिप्त चरित्र. रघुवीरराव रचित पदे राम प्रार्थना प्रकरण रघुपतीचें ध्यान कित्ताध्यान रामपरिवार प्रार्थना प्रार्थना पश्चात्तापपर पद मारूतीचें पद मारुतीवर्णन पश्चात्तापपर पद दशावताराचें वर्णन पदे १ ते ४ पदे ५ ते ८ पदे ९ आणि १० षट्कोण यंत्र ध्यान भजन पंचामृत पूजेवीं अनुक्रमश: पदें अपराध स्तोत्र ध्यान प्रकरण शिवजयजयकारध्यानं रामजयजयकारध्यानं रामाचें जयजयकार ध्यान वेंकटेशाचें नीरांजन ध्यान श्रीमहालक्ष्मीचें ध्यान आरती नृसिंहाची आरती रामाची आरती जानकीची आरती कृष्णाची आरती तुलसीची नामध्यान शतक स्वकीय मनास उपदेश उपदेश पद कृष्णपर पद आख्यानांत अवश्य लागणारी कविता कौसल्या वसिष्ठ दशरथाचें सांत्वन करितो अहिल्योद्धार रामराज्य वियोग सीतास्वयंवर जानकीची धन्यता सीताहरणानंतर रामाचा वियोग लक्ष्मण शक्ती रामाचे मंद भाग्य रामायण कथेचा सारांश प्रल्हादचरित्र ध्रुवचरित्र रुक्मिणी स्वयंवर सुभद्राहरण भीष्मपर्वांतील भीष्मप्रतिज्ञा द्रौपदीस्वयंवराचें पद रामायण बालकांडे पत्रिका कंकणबंधनमुक्तिप्रसंग भगवन्नामरत्नमालाष्टक श्रीजगदंबिकास्तोत्रम् रामस्तोत्रम् शिवगीतिमाला पंचाशती शिवगीतिमाला पंचाशती अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते. Tags : padevithobaपदविठोबा संस्कृत शिवगीतिमाला पंचाशती Translation - भाषांतर (गीतिवृत्तं)कटिलंबितकरिकृत्तिं कुटिलं शशिशावकं शिरसि दधतम् ॥जटिलं ज्वलनविभूषितनिटिलं परमेश्वरं हृदालम्बे ॥१॥शारदशशांकरुचिरे नारदमुखमौनिगीतगुणनिकरे ॥मारदहनचतुरे मम पारदचलमपि मनश्चिरं रमते ॥२॥चंचच्चंदिररोचिश्चयचारुरुचे विचित्रचरिताय ॥चंडीश्वराय सुचिरं संचिंतय चित्त चंद्रचूडाय ॥३॥आरोहति चित्रपदं चित्तमपर्णान्वितोप्ययं स्थाणु: ॥भवतापतप्तवपुषां दलयति दाहं गतोपि द्दष्टिपथम् ॥४॥शंभो मनुष्यधर्मा प्रेमाख्यसुधारसस्य पात्रं ते ॥आस्तां बत त्रिलोचन किमहं न भवान्यपांगविषयोऽपि ॥५॥अहमपि किं च कुबेर: किन्नरराजा उभौ हि तत्रैक: ॥मित्रं न परो दासो ननु युक्तं विषमलोचनस्यैतत् ॥६॥योगो दिगम्बरस्याऽकिंचित्कर इति विभो कथं वाच्यम् ॥ननु राजराजपदवीमारोहति येन गुहयकेशोऽपि ॥७॥किं भिक्षुणा प्रदेयं दिगंबरेणेति वंचनां न कुरु ॥न हि भूतिमंतमन्यं भवत: सुरमण्डलीषु पश्यामि ॥८॥लिखितं च यत्कपाले नरस्व धात्रा तदन्यथा नैव ॥इति वदसि चेद्दयाब्धे प्राय: पश्यामि तत्तवैव करे ॥९॥तव कालकूटकाटवपरिषहणे पाटवं तदा मन्ये ॥दारिद्याख्यं पास्यसि सुमनस्तापं यदा भवाब्धिभवं ॥१०॥आस्तां किं दारिद्रये शक्ति: स्मरदाहदक्षनयनाग्ने: ॥हंत ज्ञातं ज्ञातं पीडयितुं को भवाश्रितं शक्त: ॥११॥दोषाकरं तु बिभृषे किमनेन विभो यदर्ध एवासौ ॥पूर्णं मां यदि बिभृयास्तत्तेस्यात्प्रौढता प्रभावस्य ॥१२॥वपुषि वहसि भो: शंभो त्वं हि भुजंगान्विभूषणत्वेन ॥शिरसि तु गुरुदाररतं किमहं चरणेऽपि दु:सहो जात: ॥१३॥उचितं बिभर्षि वपुषि द्विजिव्हसंघान्प्रभो कृपासिंधो ॥सोहं नवाथवेत्थं पंचमुख विचारयाखिलं विश्वम् ॥१४॥विषकंठस्य तव शिव प्रभवंत्याशीविषा: प्रिया इति चेत् ॥आस्ते ममापि वदने किंचिद्यच्छ्रवणमेव मरणपरम् ॥१५॥दिशतु रमेश: कामान् जातं किं नाम कामजनक: स: ॥भव भवति भवति चित्रं हंता कामस्य कामदो यस्मात् ॥१६॥भवसागर भवविषये विश्वमिदं तापमेति तत्सुखय ॥अधिकं यशो भविप्यति विषादपि यतो अमी विषया: ॥१७॥मम नैव सौख्यलिप्सा देहयापदमेव किंत्वपूरर्वां ताम् ॥अवलोक्य यत्प्रभावं प्रभवति सर्वं सविस्मयं विश्वम् ॥१८॥प्रवदंतु नाम संतो भूतपतिं त्वां परं मुधा मन्ये ॥मंत्ररहितमपि मलिनं स्मशानवास्यपि यतो न मां ग्रससे ॥१९॥अपि सर्वभूतिसदनं वंचयसे भिक्षुचिन्हतो विश्वम् ॥त्वामिह मुधा किमु बुधा उदाहरंते शिवाऽभिधान इति ॥२०॥शिवसंप्राप्ति: पुण्यैर्विना न हीत्यनुभवो ममायात: ॥यस्मात्पुण्यजनेशे सख्यसुधारसपरिप्लुतोऽसि शिव ॥२१॥दोषाकर: कलंक्यपि कुटिल: शिरसा द्विजेश्वरो वंद्य: ॥इति शिक्षयसीव जनं वृषभारूढस्य युक्तमेवेदम् ॥२२॥जितकीनाश महेश स्मरनाश स्फटिकसंघसंकाश ॥शांत: सन्नपि चित्रं ख्यातो भुवनत्रये त्वमुग्र इति ॥२३॥द्विजराजशेखर: सन्नपि वृषमारोहसि प्रभो नित्यम् ॥प्रायश्चितविरहितस्थितिरपि विमलोऽसि तन्महैश्वर्यम् ॥२४॥आद्यो वर्णश्चोष्मा सन्नपि तापं निहंति किंचान्य: ॥अंतस्थात्मापि वहिर्द्दशमिति शिव कापि तेऽभिधाशक्ति: ॥२५॥भव तव नवनवमोदप्रदमिदमक्षरयुगं हि भवनाम्न: ॥अपवर्गदं पवर्गगमंतस्थात्मकमनंतता दायि ॥२६॥भो भव भणति भवान्यदि सततं मां सौम्यं चिंतयेति वच: ॥भवचिंतन एव सदा मम मानसमीश भवति सोल्लासम् ॥२७॥रचयसि चेद्वच इति मां कुरु चेतश्चंचलं समाधिपरम् ॥स्मरहर निरंतरं मे मानसमेतत्समाधिपरमेव ॥२८॥वदसि यदि विभो हित्वा नि:सारं सर्वमेतदथ सम्यक् ॥सारं चिंतय चेत्थं तमेव संचिंतयाम्यहं सततम् ॥२९॥अयमनलमाश्रयो मत्वेति स्थापित: स्वनयनांत: ॥भवदाश्रयेच्छुरपि न त्रिनयन सकृदपि किमीक्षणीयोऽहम् ॥३०॥मृतभूमिर्वसतिस्तव मृतमस्तकमालिकाऽपि तव कंठे ॥मृतभस्मनैव चर्चन ममृताशनमेकमेव कुत एतत् ॥३१॥निटिले विनायकस्तव विनायको त्द्ददि तवांकयोरुभयो: ॥कृत्वा मां कविनायक मंघ्रौ कुर्या: समेन शोभेथा: ॥३२॥शिरसि वहसि जडरूपां गंगां चरणेपि नो मदीय मतिं ॥सा स्वर्णदी नताढया भोगवती चेति चेत्तथैवैषा ॥३३॥रागश्चेत्त्वयि निहितस्त्वंतु विरागं ददासि चेत्तस्मिन् ॥परमेश्वरस्य मनसि त्रपांकुर: कथमिवापि नोदेति ॥३४॥अज्ञप्रसिद्धमीश स्वप्रत्ययमात्रमंत्र मयि धेहि ॥विश्रवणोऽहं सत्यं ततश्च सख्यं मया भवेन्मुख्यम् ॥३५॥रविनंदनं जिगीषुर्नर: प्रसादस्य पात्रमभवत्ते ।मदनवदहं दयाब्धे संप्रति न तथा भवान्यहो दिष्टम् ॥३६॥आखंडलादि - पंडित - मण्डल - मण्डन - उदण्ड - मुण्डगल: ॥कुण्डलि - कुंडल - मंडित - गंडतलोऽखंड भवतु चंडीश: ॥३७॥कलिकाल - त्द्दत्कलिल - सत्कीर्ति - कुसुमकूट्केशव प्रेष्ठ ॥कैवल्यदानकोविद कौ त्वद्दते कं व्रजाम्यहं रंक: ॥३८॥गरलाद: प्रियगानो गिरिशो गीर्वाणगुरुदयो गूढ: ॥गेयो मुनिभिरसंगैर्गोपोगौरोऽवता द्विधृतगंड: ॥३९॥विजयाजानि नयनजितराजीवं मंजुतरजटाजूटं ॥जेतृच जैवातृकधृत्तेजोऽब्जौको गजं निहंतु रुज: ॥४०॥कल्पलता सद्दढ्तरा लिंगितकाय: परिस्फुरत्सुमना: ॥द्विजगणसंतोषपदं कैलासे भाति कोपि कल्पतरु: ॥४१॥प्रियपिप्पलं हि रजसा क्रीडंतं चित्तमत्तमातंगं ॥हंतुं पंचास्यं श्रय रिंगंतं तुंगशैलशैलाग्रे ॥४२॥दु:सहतम भवतापप्रतपज्जन सौख्यदायकच्छाय: ॥कैलासशैलशिखरे चिरंतनतरो विभाति कोपि जटी ॥४३॥भो: शंभो शिव शंकर शशिशेखर शैलनाथ शितिकंठ ॥शुद्धस्वरूप शूलिन् शिवदायक शर्व शमय मम शमलं ॥४४॥सुखसदनं शुभवदनं जितसदनं कुंदकाग्रसमरदनं ॥अघहरणं भवतरणं भुजगाभरणं नमामि सुरशरणं ॥४५॥दोषाकर: प्रदोष: शैलूषो विषमिमे हि सोष्माण: ॥प्रेष्ठास्तवेति यातो हैमवतीनाथ कित्विषोप्येष: ॥४६॥शांडिल्यकुलभवोऽहं राग्यपि भवत: पदांबुजे. पतित: ॥भवतु प्रियो यतोऽहं शांडिल्यकुलस्थपल्लवो भवति ॥४७॥बालस्य वाग्विलासं श्रोतुं प्रत्तं यदि श्रव: शंभो ॥एतावता न हीनं परमाधकं तेन तद्भवेज्जगति ॥४८॥अगुणं वा सगुणं वा मल्लपनं कथमपीह विश्वगुरो ॥प्रभवेत् प्रियमव महादेवकुमारो यतोस्मि भो: शंभो ॥४९॥आर्याया अपि गीतिर्विच्छित्तिविशेषशालिनी यस्मात् ॥तत्प्रियतमेति पदयोर्मयार्पिता गिरिश गीतिमालेऽयं ॥५०॥॥ इति श्रीकविपंतविठ्ठलेन विनिर्मिता शिवगीतिमाला समाप्ता ॥॥ समाप्त. ॥ N/A References : N/A Last Updated : January 11, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP